तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
पृष्ठ 139, कुल 914 में से
संदर्भ में पढ़ेंजनित्रं जननीस्थानीया । भूमिरचेतना निवासाधिकरणभूता, तदभिमानिनी देवताऽ-
दितिः । यदिदमन्तरिक्षं तदस्माकं भ्राता भ्रातृस्थानीयम् । यदेनोऽस्माभिः कृतं तद-
भिशस्तः शत्रुस्थानीयम् । येयं द्यौः सेयं नः पिता पितृस्थानीया । यथा परमेश्व-
रेण संपादितः सर्वसाधारणोऽयं बन्धुवर्गः, तथा हे यजमान बन्धुवर्गसंपादनाथं त्वं
पितृत्वात्पितृत्वमिच्छञ्छं भवासि सुखं प्राप्नोषि । ऐहिकामुष्मिकसुखसिद्धये पुत्रा-
नुत्पादयेत्यर्थः , जामि मित्वार्डऽलस्येन पुत्रोत्पत्तिरहित एव सन्मृत्वा लोकादृणत्र-
यरहितानां योग्यं लोकं मा विवित्तिस नैव ल॑प्स्यसि (से) ।
अथ दशमीमाह—
यत्र॑ सु॒हार्दः॑ सु॒कृतो॒ मद॑न्ते वि॒हाय॒ रोगं॑ त॒न्वां-
१ ५ स्वायांम् । अ॒श्लो॒णाङ्गैरँहु॑ताः स्वर्गे
तत्र॑ पश्येम पि॒तरं॑ च पु॒त्रम् , इति ।
यत्र यस्मिन्पुण्यलोके स्थिताः सुहार्दः शोभनहृदयोपेताः सुकृतः पुण्यकर्माणः
स्वायां तन्वां स्वकीये शरीरे रोगं विहाय परित्यज्य मदन्ते हृष्यन्ति, अश्लोणाङ्गैः
श्लोणो रोगविशेषस्तद्रहितैरङ्गैर्युक्ता अ॑हुताः कौटिल्यरहिताः केनचिदप्यवञ्चिताः सर्वे
वयं तत्र स्वर्गे स्थित्वा पितरं पुत्रं च पश्येम । तादृशं जन्म भूयादित्यर्थः ।
अथैकादशीमाह—
यदन्न॑म॒दम्यनृ॑तेन दे॒वा दा॒स्यन्नदा॑स्यन्नु॒त वा॑ऽक-
रि॒ष्यन् । यद्दे॒वानां॒ चक्षु॑ष्यागो॒ अस्ति॒ यदे॒व किंच॑
प्रतिज॒ग्राह॒मग्निर्मा तस्मा॑दनृ॒णं कृ॑णोतु , इति ।
हे देवा अहं दास्यन्नदास्यन्प्रत्यर्पणं चिकीर्षुरचिकीर्षुर्वा, तात्कालिकेन सर्वथ
प्रत्यर्पयिष्यामीत्येतादृशेनानृतवचनेन धनमादाय यदन्नमद्मि भक्षयामि, अथवा किंचि
त्कार्यं परकीयं करिष्यामीत्यनेनानृतेन वचनेन धनमादाय तत्कार्यमकरिष्यन्यदन्न
मद्मि, यदपि देवानां चक्षुषि दृष्टिविषये मया कृतमागः पापमस्ति, आदित्याभिमु
ख्येन मूत्रविसर्गादि ।
तथा च स्मर्यते—
“ प्रत्यादित्यं प्रत्यनिलं प्रति गां च प्रति द्विजम् ।
मेहन्ति ये च पापिष्ठास्ते भवन्ति गतायुषः ” इति ॥
१ क. ख. लप्स्यते । २ ग. ˚न्वा १ । ग. ˚रहता स्व˚ ४ ख. ˚हरुता स्व˚ । ५ ग. अहताः ।