स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
इति । स्वधां वाचायिष्ये इतीत्थं स्वधाप्रश्नं द्विजातिष्वासीने-
ष्वेव कुर्यादित्यर्थः । ततो द्विजातयः वाच्यतामित्यनुज्ञां दद्युः ।
वाच्यतामित्यनुज्ञां तु प्रीता दद्युस्समाहिताः ।
इति तेनैवानन्तरमभिधानात् । एवमनुज्ञातः किं कुर्यादित्यपेक्षिते
याज्ञवल्क्यः—
वाच्यतामित्यनुज्ञातः प्रकृतेभ्यः स्वधोच्यताम् ।
इति । अनेनेदमुक्तं—पितृभ्यः पितामहेभ्यः प्रपितामहेभ्यो मा-
तामहेभ्यो मातुःपितामहेभ्यो मातुःप्रपितामहेभ्यस्सपत्नीकेभ्यः
स्वधोच्यतामिति कर्ता ब्रूयादिति । अस्तु स्वधेति विप्रा
ब्रूयुः । ततः कर्ता कमण्डलुना पिण्डसमीपभूमौ जलं सिञ्चेत् ।
कात्यायनस्तु दर्भानास्तीर्य तस्यां भूमौ समन्त्रकं सेचनं
कार्यमित्याह—'सपवित्रान् कुशानास्तीर्य स्वधां वाचायिष्ये
इति पृच्छति वाच्यतामित्युक्ते पितृभ्यः पितामहेभ्यः प्रपि-
तामहेभ्यः स्वधोच्यतामस्तु स्वधेत्युच्यमाने ऊर्जं वहन्तीरि-
त्यपो निषिञ्चेत् सपवित्रेषु कुशेषु' इति । सपवित्रेषु अर्घ्यसं-
स्कारार्थपवित्रसहितेषु । सपवित्रेष्विति वदन् न्युब्जीकृता-
र्घ्यपात्रमुत्तानं कृत्वा तत्र पवित्राणि ग्राह्याण्यस्मिन्काल इति
सूचयति । अत एव सङ्ग्रहकारः—
याज्ञवल्क्यो विसर्गात्प्राक् पात्रमुत्तानमिच्छति ।
यमो विसर्जनं कृत्वा गृह्यकर्ताऽपि शौनकः ॥
प्रीतिप्रश्नात्तु देवानां पूर्वं कात्यायनादयः ॥
इति । विसर्जनात्प्राग्विप्रविसर्जनात्पूर्व देवानां प्रीतिप्रक्षा-
त्पूर्वं विश्वेदेवाः प्रीयन्तामित्यभिधानात् पूर्वं स्वधावाचन-
काले इत्यर्थः । अत्र यथास्वगृह्यं व्यवस्था ।
सर्वेषामपि पक्षाणां स्वस्वगृह्यात्तु गृह्यते ।
इति स्मरणात् । स्वस्वगृह्योक्तपक्षस्याभावे तु स्वेच्छैव पक्ष-
विशेषग्रहणे नियामिका ।
स्वगृह्योक्तस्य चाभावे ग्रहणं स्वेच्छया भवेत् ।
इत्यापि स्मरणात् । सपवित्रकुशवत्यां भूमौ उदकधारानिषेचना-
नन्तरं स्वधा सम्पद्यतामिति कर्ता ब्रूयात् । विप्रैश्च संप-
द्यतां स्वधा इति स्वधाकारात्मिका पितॄणामाशीर्वक्तव्या ।
तथा चात्रिः —
अस्तु स्वधेति तैः प्रोक्ते निषिच्योदीर्य निस्रवः ।
स्वधाकारः परा प्रोक्ता पितृष्वाशीस्स्वयंभुवा ॥
आयुःपुत्रधनारोग्यशान्त्यर्थं वाचयेद्द्विजान् ।
इति । तैर्विप्रैरस्तु स्वधेत्युक्ते कर्ता ‘ऋचे त्वा रुचे त्वा समि-
ध्स्त्रवन्ति सरितः’ इत्यादिकं ‘स्वधां दुहाना अमृतस्य धाराम्’
इयन्तं मन्त्रं सामर्थ्यरूपलिङ्गादेवात्र प्राप्तमुदीर्योदकधारां नि-
षिच्य स्वयम्भुवा ब्रह्मणा प्रोक्ता पितृस्वधाकारात्मिका परा
उत्कृष्टा या आशीस्तामायुरादिफलसिद्धयर्थं द्विजान्वाचयोदित्य-
र्थः । स्वधावाचनानन्तरं याज्ञवल्क्यः—
विश्वेदेवाश्च प्रीयन्तां विप्रैश्चोक्ते इदं जपेत् ।
398
इति। विश्वेदेवाः प्रीयन्तामिति पूर्वं श्राद्धकर्ता, पश्चात्प्रीय-
न्तां विश्वेदेवा इति वैश्वदैविकविप्रैश्चोक्ते, चशब्दात्पितरः
प्रीयन्तामिति पूर्वं कर्ता, पश्चात्प्रीयन्तां पितर इति पित्र्यवि-
प्रैश्चोक्ते इदं वक्ष्यमाणं जपेत् 'दातारो नोऽभिवर्धन्ताम्'
इत्यादिकमाशीःप्रार्थनावाक्यवृन्दं कर्ता पठेदित्यर्थः। अत्र सङ्ग्-
हकारः—दातार इति याज्ञोक्त्या पादार्थः प्रार्थना स्मृता।
तां सुरप्रीतिसंप्रश्नात् प्राक्प्रचेतास्तु मन्यते ॥
याज्ञवल्क्यस्तथा वक्ति प्रश्ने निर्वर्तिते सति ।
पारस्करस्स्वस्ति वाच्यं कृत्वाऽऽशीर्ग्रहणं जगौ ॥
विसर्जितेषु विप्रेषु बहिष्ठेषु मनुर्जगौ ।
यान्यत्र कालभेदेन कर्माणि मुनयो जगुः ॥
स्वस्वगृह्यानुसारेण विकल्पस्तेषु युज्यते ।
न गृह्यादिस्मृतिर्येषां श्राद्धादावुपलभ्यते ॥
कर्तुमर्हन्ति ते कृत्स्नं यस्यकस्य मुनेरिति ।
वैकल्पिकेषु स्वगृह्याद्युक्तपक्षाभावे यस्य कस्यचिदेकस्य मुनेः
पक्षं स्वेच्छानुगुणं कुर्यादित्यर्थः । विश्वेदेवाः प्रीयन्तामि-
त्युक्त्वा वैश्वदैविकब्राह्मणपाणौ अपो दत्वा पितरः प्रीय-
न्तामित्युक्त्वा पैतृकब्राह्मणपाणौ अपो दत्वा अनन्तरं सर्व-
ब्राह्मणपाणिषु सपुष्पाः साक्षताश्चापो दद्यात् । तथा चात्रिः—
विप्रपाणौ तु दत्वाऽपः सपुष्पास्साक्षतास्ततः ।
399
इति । अपो दद्यादिति शेषः । अत्र बृहस्पतिः-
वाजे वाज इति प्रोच्य ब्राह्मणांस्तान्विसर्जयेत् ।
विप्रान् प्रदक्षिणीकृत्य पितृभ्यः प्रार्थयेद्वरान् ॥
तान् पाणिधृतपुष्पाक्षतान् विसर्जयेत् । स्वस्थानं प्रति गम-
नार्थं आसनेभ्य उत्थापयेत् ।
वाजेवाज इत्युत्थाप्य कृत्वा चैतान् प्रदक्षिणम् ।
इति मार्कण्डेयस्मरणात् । उत्थापने च साक्षाद्विप्रहस्तग्रहणं
न कुर्यात्, किंतु हस्तसंसृष्टदर्भद्वारा ।
वाजेवाजे इति जपन् कुशाग्रेण विसर्जयेत् ।
इति मत्स्येनाभिधानात् । कुशाग्रेण कुशेन हस्तस्पर्शं कृत्वेत्य-
र्थः । अग्रेण तु हस्तस्पर्शने क्रियमाणे एकदा एकस्यैव हस्तसं-
स्पर्शो न बहूनाम् । ततश्च 'तृप्ता यात' इति बहुवचनं 'अदि-
तिः पाशान्' इतिवदविवक्षितं स्यात् । एवञ्च कुशेन यावतां
हस्तसंस्पर्शनं युगपत्कर्तुं शक्यं तावतां सकृन्मन्त्रोच्चारणं,
यातेति बहुवचनतो बहुविप्रविसर्जनलक्षणकार्यस्य सकृदुच्चार-
णादेव सिद्धेः । असंभवे मन्त्रावृत्तिः । विनोत्थानं विप्राणां
यानं न संभवतीत्यर्थादुत्तिष्ठतेत्यपि यातेत्यनेनैवोक्तं भवति ।
विप्राणां उत्थापनेनैव तत्रावाहितदेवपितृणामप्युत्थापनं सि-
द्धमिति स्मृतिषु तत् पृथङ्नोक्तम् । तथाऽपि तस्य स्पष्टानुस-
न्धानार्थं दर्भेण संस्पर्शनात्पूर्वं उत्तिष्ठत पितरो विश्वैर्देवै-
स्सहेत्युक्त्वा विप्रविसर्जनं कार्यम् । एवञ्च द्विजविसर्जनसंपा-
तायातं पित्रादिविसर्जनं नाहत्यानुष्ठेयमिति न विसर्जने प्रा-
चीनावीतिना भवितव्यम्। अत एव 'उपवीती विसर्जनम्'
इति शौनकेनोक्तम्। विप्रविसर्जने क्रमः पुराणे दर्शितः—
पश्चाद्विसर्जयेद्देवान् पूर्वं पैतामहान् द्विजान्।
मातामहानामप्येवं सह देवैः क्रमस्स्मृतः ॥
देवान् वैश्वदैविकद्विजान्। पैतामहान् पित्रादिस्थानेषूपविष्टान्।
विप्रोत्थापनानन्तरं कात्यायनः—'आमा वाजस्य, इत्यनुव्रज्य
प्रदक्षिणीकृत्य' इति। प्रदक्षिणीकरणानन्तरं दातार इत्यादि-
श्लोकद्वयेन पितृसकाशाद्वरयाचनं कार्यम्। तथाच मत्स्यः—
विसृज्य ब्राह्मणांस्तांस्तु तेषां कृत्वा प्रदक्षिणम्।
दक्षिणां दिशमाकांक्षन् पितॄन्याचेत मानवः ॥
दातारो नोऽभिवर्धन्तां वेदास्सन्ततिरेव च।
श्रद्धा च नो मा व्यगमद्बहु देयं च नोऽस्तु ॥
अन्नं च नो बहु भवेदतिथींश्च लभेमहि।
याचितारश्च नस्सन्तु मा च याचिष्म कञ्चन ॥
इति। दक्षिणां दिशमाकांक्षन् दक्षिणाभिमुखः श्लोकद्वयेन
प्रतीयमानान् वरान् श्लोकद्वयपादेनैव पितॄन् याचेत न विप्रा-
नित्यर्थः। बृहस्पतिरपि—
विप्रान् प्रदक्षिणीकृत्य पितृभ्यः प्रार्थयेद्वरान्।
इति। वरयाचनानन्तरं वृद्धशातातपः—
एवमस्त्विति तैर्वाच्यं मूर्ध्ना ग्राह्यं च तेन तत्।
श्राद्धकाण्ड ब्राह्मणभोजन 401
इति । तैः भूतपूर्वगत्या पित्राधिष्ठानभूतैर्विप्रैरेवमस्त्विति वाच्यं,
साक्षात्पितृभिरेवमस्त्विति वचनासंभवात् । एवमस्त्वित्युक्त्वा
तैस्स्वहस्तगतं पुष्पाक्षतं प्रदेयम् । तेन श्राद्धकर्त्रा च तत्पु-
ष्पाक्षतं मूर्ध्ना ग्राह्यम् । एवमाशीर्ग्रहणानन्तरं स एवाह—
ततः प्रदक्षिणं कृत्वा पुनस्तेषां कृताञ्जलिः ।
उक्त्वा चैव प्रियां वाचं प्रणिपत्य प्रसादयेत् ॥
इति । प्रियां वाचं—'धन्या वयं युष्मदनुग्रहेण पितॄणाम-
नृणा जाताः' इत्येवमादिकाम् । प्रसादनार्थं यद्वक्तव्यं तदाह
बृहस्पतिः—
अद्य मे सफलं जन्म भवत्पादाभिवन्दनात् ।
अद्य मे वंशजास्सर्वे याता वोऽनुग्रहाद्दिवम् ॥
पत्रशाकादिदानेन क्लेशिता यूयमीदृशाः ।
तत्क्लेशजातं चित्ते तु विस्मृत्य क्षन्तुमर्हथ ॥
इति । एवं प्रसाद्यानन्तरं सर्वं सम्पूर्णमस्त्विति विप्राः प्रार्थ-
यितव्याः । तथाच विष्णुः—
मन्त्रहीनं क्रियाहीनं भक्तिहीनं द्विजोत्तमाः ।
श्राद्धं संपूर्णतां यातु प्रसादाद्भवतां मम ॥
इति । विप्रैरपि सर्वं सम्पूर्णमस्त्वित्युक्त्वा हविर्गुणस्तुतिः
कर्तव्या—
श्राद्धावसाने कर्तव्या द्विजैरन्नगुणस्तुतिः ।
SMRITI CHA.—Vol. V. 51
402 स्मृतिचन्द्रिकायां
इति वृद्धवसिष्ठस्मरणात् । ततो विप्रान् स्वस्थानगमनार्थं विसृ-
र्जयेत् । तथाच पुराणं—
विसर्जयेत्प्रीतिमतस्संमान्याभ्यर्च्य तांस्ततः ।
इति । मार्कण्डेयोपि—
जानुभ्यामवनीं गत्वा प्रणिपत्य विसर्जयेत् ।
इति । मदालसावाक्यमपि—
विसर्जयेत्प्रियाण्युक्त्वा प्रणिपत्य च भक्तितः ।
आद्वारमनुगच्छेत आगच्छेतानुमोदितः ॥
इति । अनुमोदितो ब्राह्मणैरिति शेषः ।
इति स्मृतिचन्द्रिकायां ब्राह्मणभोजनात्मकप्रधानपाश्चा-
त्त्याङ्गिकविषयाणि.
अथ पिण्डप्रतिपत्त्यादिविषयाणि.
तत्र देवलः—
ततः कर्मणि निर्वृत्ते तान् पिण्डांस्तदनन्तरम् ।
ब्राह्मणोऽग्निरजो गौर्वा भक्षयेदप्सु वा क्षिपेत् ॥
कर्मणि निर्वृत्ते पिण्डप्रतिपत्तिरूपव्यतिरिक्ताङ्गसहितश्राद्धकर्मणि
निर्वृत्ते । पुत्रार्थित्वाभावविषयमेतत् । पुत्रार्थित्वे सति मध्य-
मपिण्डं पत्नी भक्षयेत् । तथाच मनुः—
पतिव्रता धर्मपत्नी पितृपूजनतत्परा ॥
मध्यमं तु ततः पिण्डमद्यात्सम्यक्सुतार्थिनी ॥
403
आयुष्मन्तं सुतं विन्देद्यशोमेधासमन्वितम् ।
धनवन्तं प्रजावन्तं धार्मिकं सात्विकं तथा ॥
इति । यमोपि—
यत्तदा मध्यमं पिण्डं पत्नी प्राश्नाति वाग्यता ।
पुत्रकामा सपुत्रां तां कुर्वन्ति प्रपितामहाः ॥
वायुपुराणेऽपि—
पत्नी प्रजार्थिन्यद्यात्तु मध्यमं मन्त्रपूर्वकम् ।
इति । पुराणे मन्त्रोपि प्रतीकेन दर्शितः—
पत्नीं तु मध्यमं पिण्डमाशयेद्विनयान्विताम् ।
आदत्त पितरो गर्भ मन्त्रस्सन्तानवर्धनः ॥
'आदत्त पितरो गर्भम्' इत्यादिको मन्त्रस्सन्तानवर्धन इत्यर्थः ।
एतदुक्तं भवति—
'आदत्त पितरो गर्भं कुमारं पुष्करस्रजम् । यदाऽ-
यमरपा असत्' इत्यनेन मन्त्रेण मध्यमपिण्डं पत्नी प्राश्नी-
यादिति । शङ्खलिखिताभ्यां तु पत्न्या विशेषो दर्शितः—
पत्नी वा मध्यमं पिण्डमश्नीयादार्तवस्नाता ।
इति । अगृहीतगर्भा स्त्री आर्तवस्नातेत्युच्यते । ततश्च गृहीतगर्भा
पत्नी नाश्नीयात् । अत एवंविधविषये मध्यमपिण्डस्य प्रतिप-
त्त्यन्तरमाह बृहस्पतिः—
अन्यदेशगता पत्नी रोगिणी गर्भिणी तथा ।
तदा तं जीर्णवृषभः छागो वा भोक्तुमर्हति ॥
तं मध्यमं पिण्डम् । जीर्णो गतरेताः । अत एव वायुपुराणं—
गतवीर्यस्तु यश्छागोऽनड्वांश्चैव तथाविधः ।
तयोः पिण्डः प्रदातव्यो ययोर्वीर्यं न रोहति ॥
आपस्तम्बोऽपि—
यदि पत्नी विदेशस्था उच्छिष्टा यदि वा मृता ।
दुरात्माऽननुकूला च तस्य पिण्डस्य का गतिः ॥
आकाशं गमयेत्पिण्डं जलस्थो दक्षिणामुखः ।
पितॄणां स्थानमाकाशं दक्षिणा दिक्तथैव च ॥
इति । जीर्णर्षभादावुक्ता वैकल्पिकी प्रतिपत्तिर्यथालाभं द्रष्टव्या ।
तीर्थश्राद्धे तु सर्वपिण्डानामप्स्वेव प्रतिपत्तिः । तथाच विष्णु-
धर्मोत्तरे—
तीर्थश्राद्धे सदा पिण्डान् क्षिपेत्तीर्थे समाहितः ।
दक्षिणाभिमुखो भूत्वा पित्र्या दिक् सा प्रकीर्तिता ॥
तीर्थश्राद्धमुदकसमीपे क्रियमाणं श्राद्धम् । तीर्थे क्षिपेत्
श्राद्धसमीपोदके क्षिपेत् । पिण्डप्रतिपत्त्यनन्तरं द्विजोच्छिष्टमा-
र्जनं कार्यमिति वचोभङ्ग्या दर्शयितुमाह याज्ञवल्क्यः—
पिण्डांस्तु गोऽजविप्रेभ्यो दद्यादग्नौ जलेऽपि वा ।
प्रक्षिपेत्सत्सु विप्रेषु द्विजोच्छिष्टं न मार्जयेत् ॥
पिण्डानिति बहुवचनादेतदपि पुत्रार्थित्वाभावविषयं सत्सु
विप्रेषु विसर्जनात्प्रागुच्छिष्टं न शोधयेत् । किंतु विसर्जितेषु विप्रेषु
पिण्डप्रतिपत्तौ च कृतायां शोधयेदित्यर्थः । यत्तु वसिष्ठेनोक्तं—
श्राद्धे नोद्वासनीयानि उच्छिष्टान्या दिनक्षयात् ।
श्च्योतन्ते वै स्वधाकाराः ताः पिबन्त्यकृतोदकाः ॥
इति । येषां मृतानामुदकदानं प्रतिषिद्धं ते अकृतोदकास्तेषा-
मुच्छिष्टनिश्च्योतो यतो भागः अतः आऽस्तमयादुच्छिष्टानिनो-
द्वासयेदित्यर्थः । यदपि व्यासेन—
उच्छिष्टं न प्रमृज्यात्तु यावन्नास्तमितो रविः ।
इति, तदेतत् अनेकगृहसम्भवविषयं, तत्र गृहान्तरेष्वपि
बान्धवादिभिस्सह पितृसेवितशेषभोजनादिसम्भवात् । अत्रैव
प्रचेताः—
भृत्यवर्गवृतो भुङ्क्ते कव्यशेषं सगोत्रजैः ।
आसायं श्राद्धशालायां द्विजोच्छिष्टं न मार्जयेत् ॥
सगोत्रजाः ज्ञातयः तैस्सह कव्यशेषं पितृभ्यो दत्तस्यान्नस्य
शेषं भुङ्क्ते मध्याह्नकृत्यशेषं कृत्वेति शेषः । तथाच मार्क-
ण्डेयः—
ततो नित्यक्रियां कुर्याद्भोजयेच्च तथाऽतिथीन् ।
ततस्तदन्नं भुञ्जीत सह भृत्यादिभिर्नरः ॥
नित्यक्रिया श्राद्धारम्भात्प्राक् अकृतदेवार्चनवैश्वदेवादिका ।
तां कुर्यात् । यत्तूक्तं भविष्यपुराणे—
कृत्वा श्राद्धं महाबाहो ब्राह्मणांश्च विसृज्य च ।
वैश्वदेवाधिकं कर्म ततः कुर्यान्नराधिप ॥
इति । वैश्वदेवादिकं वैश्वदेवबलिकर्मादिकम् । तदेतत् प्रात-
होमानन्तरकाले येन देवार्चनं न कृतं तद्विषयम् । यत्पु-
नरादित्यपुराणेऽभिहितं—
पितॄन् संतर्प्य विधिवत् बलिं दद्याद्विधानतः ।
वैश्वदेवं ततः कुर्यात्पश्चाद्ब्राह्मणवाचनम् ॥
इति । तस्यायमर्थः—ब्राह्मणभोजनेन पितॄन् संतर्प्य सर्वान्नेन
विकिररूपं बलिं प्रदायानन्तरं वैश्वदेवं कृत्वा पश्चास्त्व-
स्तिवाचनादि ब्राह्मणविसर्जना(न्तं)नन्तरं कुर्यादिति । अमु-
मेवार्थं प्रकटयितुं तत्रैवानन्तरमुक्तं—
ये अग्निदग्धामन्त्रेण भूमौ यं निक्षिपेद्बुधः ।
जानीहि तं बलिं वीर श्राद्धकर्मणि निसदा ॥
इति । निसदा सर्वदेत्यर्थः । एवञ्च श्राद्धसमाप्त्यनन्तरं श्राद्धमध्ये
वा विकिरबलिदानान्तरं वैश्वदेवानुष्ठानं कार्यमित्यवगन्तव्यम् ।
श्राद्धस्यान्ते मध्ये वा यत्र वैश्वदेवानुष्ठानं तत्र तदनन्तरं बलि-
हरणं कर्तव्यम् ।
वैश्वदेवं प्रकुर्वीत नित्यकं बलिमेव च ।
इति मत्स्यपुराणे द्वयोर्नैरन्तर्येणाभिधानात् । अत एव स्मृत्यन्तरे
भूतयज्ञादेरेव श्राद्धान्ते कर्तव्यत्वं स्मृतं—
वैश्वदेवाहुतीरग्नावर्वाग्ब्राह्मणभोजनात् ।
जुहुयाद्भूतयज्ञादि श्राद्धं कृत्वा ततः स्मृतम् ॥
इति । अर्वाग्ब्राह्मणभोजनादित्यनेनाग्नौकरणानन्तरं वैश्वदेवा-
हुतीर्जुहुयादित्युक्तम् । श्राद्धं कृत्वा भूतयज्ञादि स्मृतमित्यनेना-
श्राद्धकाण्डे पिण्डप्रतिपत्त्यादि विषयाणि 407
र्थात् वैश्वदेवाहूत्यनन्तरमेव बलिहरणं कार्यमिति दर्शितम् । यत्तु
पुराणेऽभिहितं—
यदा श्राद्धं पितृभ्यस्तु दातुमिच्छति मानवः ।
वैश्वदेवं तदा कुर्यान्निवृत्ते श्राद्धकर्मणि ॥
इति, तत् श्राद्धात्प्राग्वैश्वदेवनिषेधपरं न तु मध्येऽपि, तथात्वे
पूर्वोक्तवचनविरोधापत्तेः । अत एव श्राद्धस्यादावेव वैश्वदेव-
करणे दोषस्तत्रैवानन्तरमुक्तः—
प्रतिवासरिको होमः श्राद्धादौ क्रियते यदि ।
देवा हव्यं न गृह्णन्ति कव्यं च पितरस्तथा ॥
इति । क्रियते पित्रर्थान्नात्समुद्धृयेति शेषः । अत एव
पैठीनसिः—
पितृपाकात्समुद्धृत्य वैश्वदेवं करोति यः ।
आसुरं तद्भवेच्छ्राद्धं पितॄणां नोपतिष्ठते ॥
इति । एवञ्च श्राद्धादौ पृथक्पाकाद्वैश्वदेवकरणे न दोषः ।
श्राद्धमध्ये पितृपाकात्समुद्धृत्य वैश्वदेवकरणे पूर्वोक्तदोषप्रस-
ङ्गात्पृथक्पाकादेवाग्नौकरणानन्तरं वैश्वदेवादिकं कार्यम् । श्रा-
द्धान्ते तु पितृपाकात्समुद्धृत्य वैश्वदेवादिकं कुर्यात् । तथा-
चानन्तरमुक्तं तेनैव—
श्राद्धं निर्वर्त्य विधिवद्वैश्वदेवादिकं ततः ।
कुर्याद्भिक्षां ततो दद्याद्धन्तकारादिकं तथा ॥
इति । ततः पितृपाकसमुद्धृतान्नाद्यादित्यर्थः । आदिशब्देन
408 स्मृतिचन्द्रिकायां
सर्वमन्नसाध्यं नैत्यकं कर्म गृह्यते । तेन नित्यश्राद्धमपि
पितृपाकात्समुद्धृतादन्नात्कार्यम् । अथवा नित्यश्राद्धं पृथक्
पाकेन कार्यं, तस्यापि श्राद्धात्मकत्वेन श्राद्धधर्मभूतपाकप्राप्तेः ।
अत एव नित्यश्राद्धमधिकृत्य मार्कण्डेयेनोक्तं—‘पृथक्पा-
केन नेत्यन्ये’ इति । पृथक्पाकेन नित्यश्राद्धं कार्यम् ।
नेत्यन्ये न पृथक्पाकेन कार्यं किंतु श्राद्धशेषेणैव कार्यमित्य-
न्ये मन्यन्त इत्यर्थः । एतच्च नित्यश्राद्धं श्राद्धान्तरे कृते सत्य-
नियतम् । यदाह स एव—
नित्यक्रियां पितॄणां च केचिदिच्छन्ति मानवाः ।
पितॄणां च तथैवान्ये शेषं पूर्ववदाचरेत् ॥
पितॄणां नित्यक्रियां नित्यश्राद्धम् । शेषं वैश्वदेवादिकं पूर्व-
वदाचरेत् नियमेनैव कुर्यादित्यर्थः । यत्तु लोकाक्षिणोक्तं—
पित्रर्थं निर्वपेत्पाकं वैश्वदेवार्थमेव च ।
वैश्वदेवं न पित्रर्थं न दार्शं वैश्वदैविकम् ॥
दार्शं दर्शश्राद्धं अमावास्याश्राद्धमिति यावत् । तदर्थं नि-
रुप्तमन्नं कृतेऽपि श्राद्धे न वैश्वदेवार्थं भवतीत्यर्थः । तत् आग्नि-
मद्दर्शश्राद्धविषयम् । तस्य दर्शश्राद्धात्प्रागेव वैश्वदेवविधानेन
श्राद्धान्ते श्राद्धशिष्टेन वैश्वदेवायोगात् । दर्शश्राद्धात्प्रागेव वैश्व-
देवविधिश्च तेनैवाभिमतो दर्शितः ।
पक्षान्तं कर्म निर्वर्त्य वैश्वदेवं च साग्निकः ।
पिण्डयज्ञं ततः कुर्यात्ततोऽन्वाहार्यकं बुधः ॥
श्राद्धकाण्डे पिण्डप्रतिपत्त्यादि विषयाणि. 409
इति । पक्षान्तं कर्म अग्न्यन्वाधानम् । अन्वाहार्यक अमा-
वास्याश्राद्धम् । एवञ्च सान्निकामावास्याश्राद्धात्प्रागेव वैश्व
देवार्थं पृथगेव पाकः अन्यत्र तु न पृथक् पाकनियम-
इति मन्तव्यम् । येषां तु स्वगृहे वैश्वदेवं कृत्वा श्राद्धं
कर्तव्यमिति वचनमस्ति तेषामपि वैश्वदेवार्थं पृथगेव पाकः ।
वैश्वदेवार्थं पृथक्पाके कृतेऽपि पित्रर्थपाकादेव भोजनम् ।
प्रदाक्षिणमनुव्रज्य भुञ्जीत पितृसेवितम् ।
इति याज्ञवल्क्यस्मरणात् । अनेन पितृसेवितमेव भुञ्जीत नान्य-
दिति नियम्यते तथा पित्रेसेवितं भुञ्जीतैव नोपवसेदिति च निय-
म्यते । अत एवाभोजने दोषमाह देवलः--
श्राद्धं कृत्वा तु यो विप्रो न भुङ्क्ते च कथंचन ।
देवा हव्यं न गृह्णन्ति कव्यानि पितरस्तथा ॥
एतच्च पितृसेवितभोजनं सर्वविधात् पितृसेवितात्किञ्चित्किञ्चिदु-
पादाय कर्तव्यम् । तथाच मत्स्यपुराणं--
ततश्च वैश्वदेवान्ते सभृत्यसुतबान्धवः ।
भुञ्जीतातिथिसंयुक्तस्सर्वं पितृनिषेवितम् ॥
यद्यपि क्षुन्न तथाऽपि शेषभोजनस्यावश्यकत्वात् सर्वमेव पितृसे-
वितं लेशतो भोक्तव्यम् । अत एवापस्तम्बः--
‘सर्वतस्समवदायोत्तरेण यजुषा शेषस्य ग्रासावरार्धं प्राश्नीयात्’
इति । ‘प्राणे निविष्टोऽमृतं जुहोमि ब्रह्मणि म आत्माऽमृ-
तत्वाय’ इत्युत्तरं यजुः । अनेन यजुषा यथासामर्थ्यं सर्व-
SMRITI CHA.—Vol V. 52
410 स्मृतिचन्द्रिकायां
प्रकारान्ततः समवदायातृप्तेरश्नीयात् । असामर्थ्ये ग्रासमात्रं
प्राश्नीयादित्यर्थः । एवमुक्तं शेषभोजनावश्यकत्वं निमन्त्रित-
ब्राह्मणैः श्राद्धशिष्टमन्नमिष्टैस्सहॊपभुज्यतामित्युक्ते सति द्रष्ट-
व्यम् । विप्रैरेव तु श्राद्धशिष्टान्ने गृहीते अन्नान्तरं संपाद्य
भोक्तव्यम् ‘कृते श्राद्धे पुत्री नोपवसेद्गृहे’ इति स्मरणात् ।
यत एव श्राद्धशिष्टान्नं इष्टैस्सह भुज्यतामित्युक्त एवायं
शेषभोजननियमः अत एव अनुज्ञापक एव शेषभोजननि-
यममाह शातातपः—
शेषमन्नमनुज्ञातं भुञ्जीत तदनन्तरम् ।
इष्टैस्सार्धं तु विधिवद्बुद्धिमान् सुसमाहितः ॥
बुद्धिमानिति वदन् मांसभक्षणप्रतिषेधकशास्त्रबलाबलविचारणेन
भोज्याभोज्ये निर्धार्य प्रवृत्तिनिवृत्ती कर्तव्ये इति दर्शयति ।
तेन माषमांसादिकं पितृसेवितमपि अन्वाधानदिने कृता-
न्वाधानेन न भक्षयितव्यं, ‘अमाषमांसं व्रतं व्रतयेत्’ इति
श्रुत्या प्रतिषेधात् । अकृतान्वाधानेनानग्निना च पञ्चदश्या-
मपि पितृसेवितं मांसं ‘भुञ्जीत पितृसेवितम्’ इत्येवंविधव-
चनैर्विहितत्वाद्भक्षयितव्यम् । ‘आसप्तमं कुलं हन्ति’ इत्यनु-
वृत्तौ ‘मांसादने पञ्चदशी’ इति पञ्चदश्यां मांसभक्षणनिषे-
धकवचनस्य रागप्राप्तमांसभक्षणविषयतया वैधमांसभक्षणाप्र-
तिषेधकत्वात् । यत्तु मधुमांसपायसादिकं द्रव्यं आषाढादिमा-
सचतुष्टयादौ न भक्ष्यामीति सङ्कल्प्य तत्पालननिष्ठो व्रती पुरुषः
तेनापि पितृसेवितं मधुमांसपायसादिकं भक्षयितव्यम् । कृतेऽपि
भक्षणे वैधत्वेन व्रतभङ्गाभावात् । तथाच बृहस्पतिः—
दैवे नियुक्तः श्राद्धे वा नियमं न विसर्जयेत् ।
निषिद्धं कुर्वतां दोषस्तद्वद्वैधमकुर्वताम् ॥
मांसाशनस्य वैधत्वान्न व्रतच्युतिरश्नताम् ।
इति ।
नियमं ‘परिविष्टं भुञ्जीरंस्तेऽपि वाग्यताः’ इति स्मृत्युक्तम् ।
नियुक्तग्रहणं श्राद्धकर्तुरपि प्रदर्शनार्थं, वैधमकुर्वतां दोषहेतो-
रुभयत्र समानत्वात् । यत्तु स्मृत्यन्तरं—
मधुमांसनिवृत्तानां श्राद्धकर्माणि कुर्वताम् ।
पात्रस्थगन्धमाघ्राय पितृणामनृणो भवेत् ॥
इति, तत् महाजनपरिग्रहाभावेन मूलप्रमाणानुमापकत्वादुपेक्ष-
णीयम् । केषांचित्परिग्रहेणापि समूलत्वे वानप्रस्थयतिब्रह्मचा-
रिविषयत्वात् न बार्हस्पत्यवचनविरोधः । यतश्चोभयथा विरोध-
परिहारसमर्थनं देवस्वामिना कृतम् । एवमेव पशुयागादा-
वपि न मांसभक्षणे व्रत
412 स्मृतिचन्द्रिकायां
पीडितः । निगमोप्यनुज्ञापक्ष एव पितृसेवितभोजननियम
इत्याह—'अनुज्ञातो गृह्यान् बालवृद्धांश्च परितोष्य भुञ्जीत'
इति । गृह्यान् गृहे स्वानुज्ञया वर्तमानान् । चशब्दो भगि-
न्यादेः परिग्रहार्थः । अत एवादिपुराणम्—
भगिन्यो बान्धवाः पूज्याः श्राद्धेषु च सदैव हि ।
दारिद्र्योपहता दीनाः भिन्नाङ्गाश्चाधिकाङ्गुळिः ॥
वृद्धाजातविरक्ताश्च व्याधिभारप्रपीडिताः ।
एते भोजनमर्हन्ति भोक्तुस्सर्वत्र सर्वदा ॥
वन्दिमागधसूताश्च तौर्यत्रिकविदस्तथा ।
अलब्धलाभाः श्राद्धेषु नाशयन्ति महद्यशः ॥
तस्मात्तेऽपि विभक्तव्याः स्वकळत्रं विभज्यता ।
इति । भोक्तुः सम्पन्नस्य गृहे इति शेषः । कळत्रग्रहणं पुत्रा-
देरपि प्रदर्शनार्थम् । अत एव बृहस्पतिः—
एवं देवान् पितॄंश्चैव तर्पयित्वा द्विजोत्तमः ।
पुत्रमित्रादिसहितो गृहस्थो भोक्तुमर्हति ॥
इति । दातृभोक्त्रोर्द्वयोरपि नियमान्तरमाह स एव—
तां निशां ब्रह्मचारी स्याच्छाद्धभुक्छाद्धकृत्सह ।
अन्यथा वर्तमानौ तु स्यातां निरयगामिनौ ॥
मत्स्यपुराणेऽपि—
पुनर्भोजनमध्वानं यानमायासमैथुनम् ।
श्राद्धकृच्छाद्धभुक्चैव सर्वमेतद्विवर्जयेत् ॥
413
स्वाध्यायं कलहं चैव दिवास्वापं तथेच्छया ।
इति । श्राद्धभोक्तारं प्रत्याह यमः—
पुनर्भाजनमध्वानं भाराध्ययनमैथुनम् ।
सन्ध्यां प्रतिग्रहं होमं श्राद्धभुक्त्वाष्ट वर्जयेत् ॥
होमं स्वयं न कुर्यात्तु अन्यमेव तु कारयेत् ।
यथाऽऽह कात्यायनः—
सूतके च प्रवासे च अशक्तौ श्राद्धभोजने ।
एवमादिनिमित्तेषु याजयेन्न तु हापयेत् ॥
इति । हावयेदिति यद्गोभिलादिभिरप्युक्तं तदेवमादिनिमित्तेषु
याजयेदित्यर्थः । होतुरन्यस्यालाभे भविष्यपुराणेऽभिहितं—
दशकृत्वः पिबेदापो गायत्र्या श्राद्धभुग्द्विजः ।
ततस्सन्ध्यामुपासीत जपेच्च जुहुयादपि ॥
अन्येऽपि भोक्तृनियमाः निमन्त्रणप्रकरणोक्ताः इहाप्यनुसन्धे-
याः । एवं श्राद्धं कुर्वतः फलमाह हारीतः—
कृत्वाऽनेन विधानेन चतुरो लभते वरान् ।
धनमन्नं सुतानायुर्ददते पितरो भुवि ॥
याज्ञवल्क्योपि—
आयुः प्रजां धनं विद्यां स्वर्गं मोक्षं सुखानि च ।
प्रयच्छन्ति तथा राज्यं प्रीता नॄणां पितामहाः ॥ इति ॥
इति स्मृतिचन्द्रिकायां पिण्डप्रतिपत्त्यादिविषयाणि
समाप्तं च पार्वणश्राद्धविधानं
अथ यथाशक्ति पार्वणानुष्ठानविधिः.
तत्र शातातपः—
यथाकथञ्चिन्नित्यानि कुर्यादिन्दुक्षयादिषु ।
पात्रद्रव्यादिसम्पत्सु सर्वकामफलं लभेत् ॥
अमावास्यादिकालेषु चोदितानि नित्याधिकाराणि पार्वणश्राद्धा-
दीनि पात्रद्रव्यादिसम्पत्त्यलाभेऽपि यथाकथञ्चित् कुर्यात् यथा-
शक्ति कुर्यादिति पूर्वार्धस्यार्थः । तत्र पात्रासम्पत्तौ देवलेनोक्तं-
एकेनापि च विप्रेण षट्पिण्डं श्राद्धमाचरेत् ।
षडर्घ्यान् दापयेत्तस्मै षड्भ्यो दद्यात्तथाऽऽसनम् ॥
पिता भुङ्क्ते द्विजकरे मुखे भुङ्क्ते पितामहः ।
प्रपितामहस्तु तालौ च कण्ठे मातामहस्स्मृतः ॥
प्रमातामहस्तु हृदये वृद्धो नाभौ तु संस्थितः ।
इति । वृद्धः प्रमातामहस्य पिता । अत्र वसिष्ठः—
यद्येकं भोजयेच्छ्राद्धे दैवं तत्र कथं भवेत् ।
अन्नं पात्रे समुद्धृत्य सर्वस्य प्रकृतस्य च ॥
देवतायतने कृत्वा ततश्श्राद्धं प्रवर्तयेत् ।
प्रास्येदग्नौ तदन्नं तु दद्याद्वा ब्रह्मचारिणे ॥
इति । देवतायतनं वैश्वदैविकब्राह्मणोपवेशनस्थानम् । तत्र
ब्राह्मणार्चनात्पूर्वं स्थण्डिले विश्वान् देवानावाह्यासनकल्पना-
दिधूपदीपाच्छादनान्तमाराधनं कृत्वा पश्चात् पित्रर्थमुपविष्टं
ब्राह्मणमभ्यर्च्य अन्नपरिवेषणकाले प्रकृतस्य श्राद्धार्थं सम्पा-
दितस्य सर्वस्य सम्बन्धि किञ्चिदन्नं पात्रे समुद्धृत्याभिघा-
र्याराधितस्थाने पुरतो निधायान्नत्यागकाले पूर्वमेतदन्नं विश्वान्
देवानुद्दिश्य त्यक्त्वाऽनन्तरं श्राद्धं प्रवर्तयेत् । पितॄनुद्दिश्य
ब्राह्मणस्य पुरतः परिविष्टमन्नं त्यजेदित्यर्थः । एकस्यापि ब्राह्म-
णस्यालाभे देवलेनोक्तं—
पात्राभावे परं कृत्वा पितृयज्ञविधिं नरः ।
निर्दिश्याप्यन्नमुद्धृत्य यत्र पात्रं ततो गतिः ॥
निधाय वा दर्भवटूनासनेषु समाहितः ।
प्रैषानुप्रैषसंयुक्तं विधानं प्रतिपादयेत् ॥
पात्राभावे क्षिपेदग्नौ गवे दद्यादथाप्सु वा ।
न तु प्राप्तस्य लोपोस्ति पैतृकस्य विशेषतः ॥
अस्यार्थः—पात्राभावेऽनुकल्पतयोक्तविप्रस्याभावे पितृयज्ञविधिं
पिण्डपितृयज्ञधर्मकमग्नौकरणं परं केलवं कृत्वा अवावास्याया-
मन्नं भाजनादावुद्धृत्य निर्दिश्य चतुर्थ्यन्तशब्देन देवान् पितॄ-
नुद्दिश्य उद्धृतमन्नं त्यक्त्वा यत्रात्यन्तानतिदूरे पात्रलक्षणान्वितो
विप्रोस्ति, तत्र नीत्वा तस्मै तदन्नं समर्पयेत् । यद्वा—पितृ-
यज्ञधर्मकमग्नौकरणं कृत्वा दर्भवटून कुशमयान् विप्रप्रतिनि-
धीन् वटूनसन्तालपपरिमाणानासनेषु संस्थाप्य देवे क्षणः
क्रियतां श्राद्धे क्षणः क्रियतामित्यादिप्रैषसंयुक्तमों तथेत्याद्यनु-
प्रैषसंयुक्तं कृत्स्नं श्राद्धविधानं कृत्वा देवपित्रर्थं त्यक्तमन्नं
पूर्ववत्पात्रलणयुक्ताविप्रेभ्यः प्रतिपादयेत्समर्पयेत् । अतिदूरस्थे