स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
पृष्ठ 428, कुल 474 में से
संदर्भ में पढ़ें408 स्मृतिचन्द्रिकायां
सर्वमन्नसाध्यं नैत्यकं कर्म गृह्यते । तेन नित्यश्राद्धमपि
पितृपाकात्समुद्धृतादन्नात्कार्यम् । अथवा नित्यश्राद्धं पृथक्
पाकेन कार्यं, तस्यापि श्राद्धात्मकत्वेन श्राद्धधर्मभूतपाकप्राप्तेः ।
अत एव नित्यश्राद्धमधिकृत्य मार्कण्डेयेनोक्तं—‘पृथक्पा-
केन नेत्यन्ये’ इति । पृथक्पाकेन नित्यश्राद्धं कार्यम् ।
नेत्यन्ये न पृथक्पाकेन कार्यं किंतु श्राद्धशेषेणैव कार्यमित्य-
न्ये मन्यन्त इत्यर्थः । एतच्च नित्यश्राद्धं श्राद्धान्तरे कृते सत्य-
नियतम् । यदाह स एव—
नित्यक्रियां पितॄणां च केचिदिच्छन्ति मानवाः ।
पितॄणां च तथैवान्ये शेषं पूर्ववदाचरेत् ॥
पितॄणां नित्यक्रियां नित्यश्राद्धम् । शेषं वैश्वदेवादिकं पूर्व-
वदाचरेत् नियमेनैव कुर्यादित्यर्थः । यत्तु लोकाक्षिणोक्तं—
पित्रर्थं निर्वपेत्पाकं वैश्वदेवार्थमेव च ।
वैश्वदेवं न पित्रर्थं न दार्शं वैश्वदैविकम् ॥
दार्शं दर्शश्राद्धं अमावास्याश्राद्धमिति यावत् । तदर्थं नि-
रुप्तमन्नं कृतेऽपि श्राद्धे न वैश्वदेवार्थं भवतीत्यर्थः । तत् आग्नि-
मद्दर्शश्राद्धविषयम् । तस्य दर्शश्राद्धात्प्रागेव वैश्वदेवविधानेन
श्राद्धान्ते श्राद्धशिष्टेन वैश्वदेवायोगात् । दर्शश्राद्धात्प्रागेव वैश्व-
देवविधिश्च तेनैवाभिमतो दर्शितः ।
पक्षान्तं कर्म निर्वर्त्य वैश्वदेवं च साग्निकः ।
पिण्डयज्ञं ततः कुर्यात्ततोऽन्वाहार्यकं बुधः ॥