स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
पृष्ठ 417, कुल 474 में से
संदर्भ में पढ़ेंइति । विसर्जनात्प्राग्विप्रविसर्जनात्पूर्व देवानां प्रीतिप्रक्षा-
त्पूर्वं विश्वेदेवाः प्रीयन्तामित्यभिधानात् पूर्वं स्वधावाचन-
काले इत्यर्थः । अत्र यथास्वगृह्यं व्यवस्था ।
सर्वेषामपि पक्षाणां स्वस्वगृह्यात्तु गृह्यते ।
इति स्मरणात् । स्वस्वगृह्योक्तपक्षस्याभावे तु स्वेच्छैव पक्ष-
विशेषग्रहणे नियामिका ।
स्वगृह्योक्तस्य चाभावे ग्रहणं स्वेच्छया भवेत् ।
इत्यापि स्मरणात् । सपवित्रकुशवत्यां भूमौ उदकधारानिषेचना-
नन्तरं स्वधा सम्पद्यतामिति कर्ता ब्रूयात् । विप्रैश्च संप-
द्यतां स्वधा इति स्वधाकारात्मिका पितॄणामाशीर्वक्तव्या ।
तथा चात्रिः —
अस्तु स्वधेति तैः प्रोक्ते निषिच्योदीर्य निस्रवः ।
स्वधाकारः परा प्रोक्ता पितृष्वाशीस्स्वयंभुवा ॥
आयुःपुत्रधनारोग्यशान्त्यर्थं वाचयेद्द्विजान् ।
इति । तैर्विप्रैरस्तु स्वधेत्युक्ते कर्ता ‘ऋचे त्वा रुचे त्वा समि-
ध्स्त्रवन्ति सरितः’ इत्यादिकं ‘स्वधां दुहाना अमृतस्य धाराम्’
इयन्तं मन्त्रं सामर्थ्यरूपलिङ्गादेवात्र प्राप्तमुदीर्योदकधारां नि-
षिच्य स्वयम्भुवा ब्रह्मणा प्रोक्ता पितृस्वधाकारात्मिका परा
उत्कृष्टा या आशीस्तामायुरादिफलसिद्धयर्थं द्विजान्वाचयोदित्य-
र्थः । स्वधावाचनानन्तरं याज्ञवल्क्यः—
विश्वेदेवाश्च प्रीयन्तां विप्रैश्चोक्ते इदं जपेत् ।