स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
पृष्ठ 427, कुल 474 में से
संदर्भ में पढ़ेंश्राद्धकाण्डे पिण्डप्रतिपत्त्यादि विषयाणि 407
र्थात् वैश्वदेवाहूत्यनन्तरमेव बलिहरणं कार्यमिति दर्शितम् । यत्तु
पुराणेऽभिहितं—
यदा श्राद्धं पितृभ्यस्तु दातुमिच्छति मानवः ।
वैश्वदेवं तदा कुर्यान्निवृत्ते श्राद्धकर्मणि ॥
इति, तत् श्राद्धात्प्राग्वैश्वदेवनिषेधपरं न तु मध्येऽपि, तथात्वे
पूर्वोक्तवचनविरोधापत्तेः । अत एव श्राद्धस्यादावेव वैश्वदेव-
करणे दोषस्तत्रैवानन्तरमुक्तः—
प्रतिवासरिको होमः श्राद्धादौ क्रियते यदि ।
देवा हव्यं न गृह्णन्ति कव्यं च पितरस्तथा ॥
इति । क्रियते पित्रर्थान्नात्समुद्धृयेति शेषः । अत एव
पैठीनसिः—
पितृपाकात्समुद्धृत्य वैश्वदेवं करोति यः ।
आसुरं तद्भवेच्छ्राद्धं पितॄणां नोपतिष्ठते ॥
इति । एवञ्च श्राद्धादौ पृथक्पाकाद्वैश्वदेवकरणे न दोषः ।
श्राद्धमध्ये पितृपाकात्समुद्धृत्य वैश्वदेवकरणे पूर्वोक्तदोषप्रस-
ङ्गात्पृथक्पाकादेवाग्नौकरणानन्तरं वैश्वदेवादिकं कार्यम् । श्रा-
द्धान्ते तु पितृपाकात्समुद्धृत्य वैश्वदेवादिकं कुर्यात् । तथा-
चानन्तरमुक्तं तेनैव—
श्राद्धं निर्वर्त्य विधिवद्वैश्वदेवादिकं ततः ।
कुर्याद्भिक्षां ततो दद्याद्धन्तकारादिकं तथा ॥
इति । ततः पितृपाकसमुद्धृतान्नाद्यादित्यर्थः । आदिशब्देन