स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
पृष्ठ 418, कुल 474 में से
संदर्भ में पढ़ें398
इति। विश्वेदेवाः प्रीयन्तामिति पूर्वं श्राद्धकर्ता, पश्चात्प्रीय-
न्तां विश्वेदेवा इति वैश्वदैविकविप्रैश्चोक्ते, चशब्दात्पितरः
प्रीयन्तामिति पूर्वं कर्ता, पश्चात्प्रीयन्तां पितर इति पित्र्यवि-
प्रैश्चोक्ते इदं वक्ष्यमाणं जपेत् 'दातारो नोऽभिवर्धन्ताम्'
इत्यादिकमाशीःप्रार्थनावाक्यवृन्दं कर्ता पठेदित्यर्थः। अत्र सङ्ग्-
हकारः—दातार इति याज्ञोक्त्या पादार्थः प्रार्थना स्मृता।
तां सुरप्रीतिसंप्रश्नात् प्राक्प्रचेतास्तु मन्यते ॥
याज्ञवल्क्यस्तथा वक्ति प्रश्ने निर्वर्तिते सति ।
पारस्करस्स्वस्ति वाच्यं कृत्वाऽऽशीर्ग्रहणं जगौ ॥
विसर्जितेषु विप्रेषु बहिष्ठेषु मनुर्जगौ ।
यान्यत्र कालभेदेन कर्माणि मुनयो जगुः ॥
स्वस्वगृह्यानुसारेण विकल्पस्तेषु युज्यते ।
न गृह्यादिस्मृतिर्येषां श्राद्धादावुपलभ्यते ॥
कर्तुमर्हन्ति ते कृत्स्नं यस्यकस्य मुनेरिति ।
वैकल्पिकेषु स्वगृह्याद्युक्तपक्षाभावे यस्य कस्यचिदेकस्य मुनेः
पक्षं स्वेच्छानुगुणं कुर्यादित्यर्थः । विश्वेदेवाः प्रीयन्तामि-
त्युक्त्वा वैश्वदैविकब्राह्मणपाणौ अपो दत्वा पितरः प्रीय-
न्तामित्युक्त्वा पैतृकब्राह्मणपाणौ अपो दत्वा अनन्तरं सर्व-
ब्राह्मणपाणिषु सपुष्पाः साक्षताश्चापो दद्यात् । तथा चात्रिः—
विप्रपाणौ तु दत्वाऽपः सपुष्पास्साक्षतास्ततः ।