स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
पृष्ठ 420, कुल 474 में से
संदर्भ में पढ़ेंतायातं पित्रादिविसर्जनं नाहत्यानुष्ठेयमिति न विसर्जने प्रा-
चीनावीतिना भवितव्यम्। अत एव 'उपवीती विसर्जनम्'
इति शौनकेनोक्तम्। विप्रविसर्जने क्रमः पुराणे दर्शितः—
पश्चाद्विसर्जयेद्देवान् पूर्वं पैतामहान् द्विजान्।
मातामहानामप्येवं सह देवैः क्रमस्स्मृतः ॥
देवान् वैश्वदैविकद्विजान्। पैतामहान् पित्रादिस्थानेषूपविष्टान्।
विप्रोत्थापनानन्तरं कात्यायनः—'आमा वाजस्य, इत्यनुव्रज्य
प्रदक्षिणीकृत्य' इति। प्रदक्षिणीकरणानन्तरं दातार इत्यादि-
श्लोकद्वयेन पितृसकाशाद्वरयाचनं कार्यम्। तथाच मत्स्यः—
विसृज्य ब्राह्मणांस्तांस्तु तेषां कृत्वा प्रदक्षिणम्।
दक्षिणां दिशमाकांक्षन् पितॄन्याचेत मानवः ॥
दातारो नोऽभिवर्धन्तां वेदास्सन्ततिरेव च।
श्रद्धा च नो मा व्यगमद्बहु देयं च नोऽस्तु ॥
अन्नं च नो बहु भवेदतिथींश्च लभेमहि।
याचितारश्च नस्सन्तु मा च याचिष्म कञ्चन ॥
इति। दक्षिणां दिशमाकांक्षन् दक्षिणाभिमुखः श्लोकद्वयेन
प्रतीयमानान् वरान् श्लोकद्वयपादेनैव पितॄन् याचेत न विप्रा-
नित्यर्थः। बृहस्पतिरपि—
विप्रान् प्रदक्षिणीकृत्य पितृभ्यः प्रार्थयेद्वरान्।
इति। वरयाचनानन्तरं वृद्धशातातपः—
एवमस्त्विति तैर्वाच्यं मूर्ध्ना ग्राह्यं च तेन तत्।