स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
पृष्ठ 430, कुल 474 में से
संदर्भ में पढ़ें410 स्मृतिचन्द्रिकायां
प्रकारान्ततः समवदायातृप्तेरश्नीयात् । असामर्थ्ये ग्रासमात्रं
प्राश्नीयादित्यर्थः । एवमुक्तं शेषभोजनावश्यकत्वं निमन्त्रित-
ब्राह्मणैः श्राद्धशिष्टमन्नमिष्टैस्सहॊपभुज्यतामित्युक्ते सति द्रष्ट-
व्यम् । विप्रैरेव तु श्राद्धशिष्टान्ने गृहीते अन्नान्तरं संपाद्य
भोक्तव्यम् ‘कृते श्राद्धे पुत्री नोपवसेद्गृहे’ इति स्मरणात् ।
यत एव श्राद्धशिष्टान्नं इष्टैस्सह भुज्यतामित्युक्त एवायं
शेषभोजननियमः अत एव अनुज्ञापक एव शेषभोजननि-
यममाह शातातपः—
शेषमन्नमनुज्ञातं भुञ्जीत तदनन्तरम् ।
इष्टैस्सार्धं तु विधिवद्बुद्धिमान् सुसमाहितः ॥
बुद्धिमानिति वदन् मांसभक्षणप्रतिषेधकशास्त्रबलाबलविचारणेन
भोज्याभोज्ये निर्धार्य प्रवृत्तिनिवृत्ती कर्तव्ये इति दर्शयति ।
तेन माषमांसादिकं पितृसेवितमपि अन्वाधानदिने कृता-
न्वाधानेन न भक्षयितव्यं, ‘अमाषमांसं व्रतं व्रतयेत्’ इति
श्रुत्या प्रतिषेधात् । अकृतान्वाधानेनानग्निना च पञ्चदश्या-
मपि पितृसेवितं मांसं ‘भुञ्जीत पितृसेवितम्’ इत्येवंविधव-
चनैर्विहितत्वाद्भक्षयितव्यम् । ‘आसप्तमं कुलं हन्ति’ इत्यनु-
वृत्तौ ‘मांसादने पञ्चदशी’ इति पञ्चदश्यां मांसभक्षणनिषे-
धकवचनस्य रागप्राप्तमांसभक्षणविषयतया वैधमांसभक्षणाप्र-
तिषेधकत्वात् । यत्तु मधुमांसपायसादिकं द्रव्यं आषाढादिमा-
सचतुष्टयादौ न भक्ष्यामीति सङ्कल्प्य तत्पालननिष्ठो व्रती पुरुषः