सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)

Smritichandrika: Vyavaharakanda of Devannabhatta

देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा

DevanagariSanskritpublished474 पृष्ठ

श्राद्धकाण्डे परिवेषणविधिः। ३४३

नस्योपरीति । महाभाजनमप्यत्र पूर्वोक्तपिष्टकादिरचितपरित-
काख्यचतुरश्रमण्डलोपरि निधाय पायसापूपादि विविधमन्नं
प्रक्षिपेत् । न तु यन्त्रिकादेरुपरि निधायेति ‘भूतलान्नोद्धरे-
त्पात्रम्’ इत्यादिवचनसिद्धं बोद्धव्यम् । श्राद्धार्थं यद्यत्पा-
कादिनोपकल्पितं तत्सर्वं किञ्चित्किञ्चिदादायावश्यं परिवेषणी-
यम् । अत एव प्रचेतसोक्तं—
‘सर्वं च प्रकृतं दत्त्वा पात्रमालभ्य जपेत्’
इति । जप्यमाह पैठीनसिः— ‘पृथिवी ते पात्रं द्यौरपिधानं
ब्राह्मणस्य मुखे जुहोमि स्वधा’ इति । जपानन्तरं कात्या-
यनः— ‘वैष्णव्यर्चा यजुषा चाङ्गुष्ठमन्नेऽवग्राह्य’ इति । का
पुनरत्र वैष्णवी ऋक्, कस्य चाङ्गुष्ठमित्यपेक्षिते याज्ञवल्क्यः—
इदं विष्णुरिति त्वन्ने द्विजाङ्गुष्ठं निवेशयेत् ।
इति । यमस्तु सार्थवादमङ्गुष्ठनिवेशनविधिं वदन् अत्र वि-
नियुक्तयजुर्मन्त्रस्वरूपमाह—
अङ्गुष्ठमात्रो भगवान् विष्णुः पर्यटते महीम् ।
राक्षसानां वधार्थाय कोऽल्पवान् प्रहरिष्यति ॥
तस्माच्छ्राद्धेषु सर्वेषु अङ्गुष्ठग्रहणं स्मृतम् ।
विष्णो हव्यं च कव्यं च ब्रूयाद्रक्षेति च क्रमात् ॥
ब्रूयात् दैवे पित्र्ये चान्न इति शेषः । अत्र दैवेऽन्ने अङ्गुष्ठनिये-
शनात् प्राग्विष्णो हव्यं रक्षेति यजुर्ब्रूयात् । पित्र्येऽन्ने तु
विष्णो कव्यं रक्षेति यजुर्ब्रूयादिति । अत्रैवं वृद्धाचारा-

नुसारी प्रयोगः— यज्ञोपवीती दक्षिणं जान्वाच्य उद-
ङ्मुखः प्रथमं देवतार्थपरिविष्टमन्नमभ्युक्षणेनावोक्ष्य पात्रमालभ्य
'पृथिवी ते पात्रम्' इति जपाद्यङ्गुष्ठनिवेशनान्तं कृत्वा प्रा-
चीनावीती सव्यं जान्वाच्य दक्षिणामुखः पित्र्यं परिविष्ट-
मन्नमभ्युक्षणेनावोक्ष्य पात्रमालम्ब्य जपाद्यङ्गुष्ठनिवेशनान्तं कु-
र्यात् । एवं मातामहादिपात्रस्थानेषु अभ्युक्षणावोक्षणाद्यङ्गुष्ठ-
निवेशनान्तं कार्यम् । अभ्युक्षणावोक्षणाद्यङ्गुष्ठनिवेशनान्तं दैवे
पित्र्ये च ब्राह्मणानेकत्वे प्रतिब्राह्मणपात्रं कार्यम्,
एकैकस्याथ विप्रस्य गृहीत्वाऽङ्गुष्ठमादरात् ।
इति ब्रह्माण्डपुराणेऽभिधानात् । सर्वभाजनस्थेष्वन्नेषु अङ्गुष्ठ-
निवेशनानन्तरं चतुर्विंशतिमतेऽभिहितं—
पात्रालम्भं द्विजः कुर्यादिदं वोऽन्नमिति ब्रुवन् ।
इति । अयमर्थः—परिविष्टान्नाधारभूतपात्रालम्भनं वामहस्तेन
कृत्वाऽन्नत्यागात्पात्रमनुत्सृजन्नेव 'विश्वेदेवा इदं वोऽन्नम्'
इत्युच्चारयन्नन्नत्यागं कुर्यादिति । विष्णुस्त्वन्नत्यागात्प्राक् स्म-
र्तव्यमाह— 'नमो विश्वेभ्यो देवेभ्यः इत्यन्नमादौ प्राङ्मुखयो-
र्निवेदयेत्। पित्रे पितामहाय प्रपितामहाय च नामगोत्राभ्यामुदङ्मु-
खेषु' इति । चशब्दात्प्रपितामहाय च निवेदयेदित्याह ।
विश्वेभ्यो देवेभ्यः पित्रे पितामहाय चेति चतुर्थ्या विश्वेषां
देवानां पित्रादेश्च देवतात्वं प्रदर्श्यते । विश्वेदेवा देवता
पित्रादयो देवतेति स्मृत्वा निवेदनार्थं, प्राङ्मुखयोरुदङ्मुखेष्विति

सप्तम्या ब्राह्मणानामाहवनीयार्थत्वं प्रदर्श्यते । आहवनीयार्थे
ब्राह्मण इति स्मृत्वा निवेदनार्थम् । एतदुक्तं भवति—परि-
विष्टान्नसन्त्यागात्पूर्वममुकनामानौ विश्वेदेवा देवता इदमन्नं हविः
ब्राह्मण आहवनीयार्थे इत्यादि स्मृत्वा नमश्शब्दोच्चारणपू-
र्वकमन्नं निवेदयेदिति । तथा पिताऽमुकगोत्रोऽमुकशर्मा देवता
इदमन्नं हविर्ब्राह्मण आहवनीयार्थे पितामहोऽमुकगोत्रोऽमुकश-
र्मा देवता इदमन्नं हविर्ब्राह्मण आहवनीयार्थे इत्यादि स्मृत्वा
नमश्शब्दोच्चारणपूर्वकं निवेदयेदिति । एवं च श्राद्धाख्यं कर्म
होमात्मकमित्यवगम्यते । ततश्च निवेदयेदित्यनेन होमात्मकं कर्म-
कुर्यादिति वचोभङ्गया द्योत्यते । अत एव श्राद्धाख्यं कर्म
होमात्मकम् । अत एव ब्रह्मपुराणे—
एतद्रो अन्नमित्युक्त्वा विश्वान् देवांश्च यजेत् । इत्युक्तम् ।
होमयागोरत्यल्पभेदत्वाद्वोमात्मके श्राद्धे अनास्थया यजेदि-
त्युक्तिर्युज्यते । अहोमात्मकत्वे तु यजेदित्युक्तिरत्यन्तासमञ्जसा
स्यात् । तेनात्र श्राद्धाख्यं कर्म होमात्मकमित्यवगम्यते, ब्रा-
ह्मण आहवनीयार्थ इति स्मरणात् । अनन्तरं ब्राह्मणाध्या-
सितां भूमिं गयारूपां ध्यात्वा ब्राह्मणं च गदाधररूपं ध्या-
त्वाऽन्नं निवेदयेत् ॥
श्राद्धभूमौ गयां ध्यात्वा ध्यात्वा देवं गदाधरम् ।
ताभ्यां चैव नमस्कृत्य ततः श्राद्धं प्रवर्तयेत् ॥
इति पुराणेऽभिधानात् । वैश्वदेवान्नत्यागप्रकारमाह अत्रिः—
SMRITI CHA.—Vol. V. 44

346 स्मृतिचन्द्रिकायां
हस्तेन मुक्तमन्नाद्यमिदमन्नमुदीरयेत् ।
स्वाहेति च ततः कुर्यात्स्वसत्ताविनिवर्तनम् ॥
अयमर्थः—परिवेषकहस्तेन निर्मुक्तं परिविष्टमन्नाद्यं पुरोवर्ति-
त्वादिदमन्नमिति प्रदेयहविर्निर्देशार्थं देवतोद्देशकशब्दोच्चारणा-
नन्तरमुदीरयेत् । तत इदमन्नमित्युदीरणानन्तरं स्वाहेति हवि-
र्दानप्रकाशकं शब्दमुदीरयेत् । ततस्स्वाहाशब्दोदीरणानन्तरं
स्वसत्ताविनिवर्तनं कुर्यात् । स्वशब्देनात्र स्वत्वं निर्दिश्यते ।
स्वत्वस्य सद्भावः स्वसत्ता तस्या विनिवर्तनं निवर्तकं कर्म
यन्मानसं न ममेति बुद्धिरूपं स्वत्वत्यागाख्यं तत्कुर्यादिति ।
पित्रादिभ्योऽन्नत्यागप्रकारमपि स एवाह—
गोत्रसम्बन्धनामानि इदमन्नं ततस्स्वधा ।
पितृकर्मण्युदीर्याथ स्वसत्तां विनिवर्तयेत् ॥
अयमर्थः—पितृपितामहादिक्रमादेकैकं देवतात्वेनोद्दिष्टं पित्रे
अमुकगोत्रायामुकशर्मणे पितामहायामुकगोत्रायामुकशर्मणे इत्या-
दिगोत्रसम्बन्धनामानि चतुर्थ्यन्तान्युदीर्य ततः प्रदेयहविर्द्रव्य-
निर्देशकमिदमन्नमित्युदीर्य ततः कुर्याद्दानप्रकाशकं स्वधाशब्द-
मुदीर्य स्वसत्तां विनिवर्तयेत् । स्वत्वध्वंसकरं न ममेति बुद्धि-
रूपं मानसं कर्म कुर्यादिति । एवं विष्णुत्रिवचनाविहितान्न-
त्यागप्रकार एव व्यक्तीकरणार्थं प्रयोगसौकर्यार्थं च पुनः
प्रपञ्चेनोच्यते। मातुः प्रपितामहार्थेऽन्ने अङ्गुष्ठनिवेशनान्तरं वैश्व-
दैविकब्राह्मणसंनिधावुदङ्मुख उपविश्योपवीती दक्षिणं जान्वाच्य

दक्षिणहस्तेन यवसहितमुदकमादाय सव्यहस्तेन पात्रमालभ्य
पुरूरवार्द्रवसंज्ञिका विश्वेदेवा देवता इदमन्नं हविर्ब्राह्मण-
आहवनीयार्थे इयं भूर्गया अयं भोक्ता ब्राह्मणो गदाधरः
पुरूरवार्द्रवसंज्ञिकेभ्यो विश्वेभ्यो देवेभ्य इदं परिविष्टमन्नमा-
तृप्तेः परिवेक्ष्यमाणं च स्वाहा नमो नममेत्युक्त्वा भाजनसमीपे
यवसहितमुदकं निनीय भक्त्या प्रणामं कुर्यात् । वैश्वदैविक-
ब्राह्मणानैकत्वे तत्तद्भाजने परिविष्टमन्नमेवं त्यजेत् । ततः
पित्र्यब्राह्मणसंनिधौ दक्षिणामुख उपविश्य सव्यं जान्वाच्य
प्राचीनावीती हस्तेन तिलानुदकं चादाय वामहस्तेन पात्र-
मालभ्य अस्मत्पिताऽमुकगोत्रोऽमुकशर्मा वसुरूपः सपत्नीको
देवतेदमन्नं हविरित्यादि ब्राह्मणो गदाधर इत्यन्तं पूर्ववदुक्त्वा
अस्मत्पित्रेऽमुकगोत्रायामुकशर्मणे वसुरूपाय सपत्नीकाय परि-
विष्टमन्नमातृप्तेः परिवेक्ष्यमाणं च स्वधा नमो न ममेत्युक्त्वा
भाजनसमीपे तिलसहितमुदकं निनीय भक्त्या प्रणामं कुर्यात् ।
ब्राह्मणानैकत्वे तंत्तद्ब्राह्मणभाजने परिविष्टमन्नमेवं त्यजेत् ।
पितामहादिभ्योप्येवमेवान्नत्यागः । अस्मत्पितामहोऽमुकगोत्रोऽ-
मुकशर्मा रुद्ररूपः सपत्नीकः........अस्मत्पितामहायमुकगोत्राया-
मुकशर्मणे रुद्ररूपायेति पितामहीयान्नत्यागे विशेषः । अस्म-
त्प्रपितामहोऽमुकगोत्रोऽमुकशर्माऽऽदित्यरूपः सपत्नीकः........
प्रपितामहायामुकगोत्रायामुकशर्मणे आदित्यरूपायेति प्रपिता-
महीयान्नत्यागे विशेषः । अस्मन्मातामहोऽमुकगोत्रोऽमुकशर्मा

348 स्मृतिचन्द्रिकायां

वसुरूपः सपत्नीकः............मातामहायामुकगोत्रायामुकशर्मणे
वसुरूपायेत्यादिविशेषः । मातुःपितामहीयान्नत्यागे विशेषः,
मातुःप्रपितामहीयान्नत्यागे विशेषश्च स्वयमूह्यः । मातुःपिता-
महादिस्थानेऽपि ब्राह्मणानेकत्वे पूर्वोक्तप्रकारेणान्नत्यागावृत्तिः ।
यदा तु पित्रादीनामेक एव ब्राह्मणस्तदा यावन्त उद्देश्या-
स्तावतो भागानेकस्मिन् भाजने परिविष्टस्यान्नादेर्बुद्ध्या कृत्वा
एकैकं भागमेकैकं पित्रादिकमुद्दिश्य त्यजेत् । यदा त्वतिथि-
र्भोजनार्थमुपविष्टस्तदा तं गन्धपुष्पादिभिरर्चयित्वा पितृभ्योऽ-
न्नत्यागानन्तरं अस्मै ब्राह्मणाय विष्णुरूपाय शिवरूपाय वा
इदमन्नमातृप्तेः परिवेक्ष्यमाणं च नमो न ममेति परिविष्टमन्नं
त्यजेत् । अत्र विष्णुपुराणं—
पिता पितामहश्चैव तथैव प्रपितामहः ।
तृप्तिं प्रयान्तु ते भक्त्या यन्मयैतदिहाहृतम् ॥
मातामहस्तृप्तिमुपैतु तस्य
तथा पिता तस्य पिता च योऽन्यः ।
विश्वे च देवाः परमां प्रयान्तु
तृप्तिं प्रणश्यन्तु च यातुधानाः ॥
यज्ञेश्वरो हव्यसमस्तकव्य-
भोक्ताऽव्ययात्मा हरिरीश्वरोऽत्र ।
तत्सन्निधानादपयान्तु सद्यः
रक्षांस्यशेषाण्यसुराश्च सर्वे ॥

श्राद्धकाण्डे परिवेषणविधिः । ३४९

एवमुक्तपौराणिकश्लोकजपानन्तरं लघुयमः—
अन्नहीनं क्रियाहीनं मन्त्रहीनं च यद्भवेत् ।
सर्वमच्छिद्रमित्युक्त्वा ततो यत्नेन भोजयेत् ॥
अच्छिद्रं जायतामित्यध्याहारेणाच्छिद्रभाषणवाक्यं पूरणीयं,
साकाङ्क्षत्वात् । बोधायनेन तु अच्छिद्रं जायतामित्येवोक्तम् ।
यद्यपि लघुयमवचनादच्छिद्रभाषणानन्तरमेव भोजनप्रतीतेरापो-
शनहस्तेषु ब्राह्मणेषु सत्स्वाच्छिद्रभाषणं कार्यमिति प्रतिभाति,
तथाऽपि प्रागेवापोशनतः कार्यं न पश्चात् । तथाऽऽह प्रचेताः—
आपोशनकराग्राणामच्छिद्रस्य च भाषणात् ।
निराशाः पितरो यान्ति देवैस्सह न संशयः ॥
किं तर्हि आपोशनदानान्तरं कर्तव्यमित्युक्ते स एवाह—
आपोशनं प्रदायाथ सावित्रीं त्रिजपेदथ ।
मधु वाता इति तृचं मध्वित्येव त्रिकं तथा ॥
मध्वित्येतावात्त्रिरावर्तनीयमिति चतुर्थपादस्यार्थः । व्याहृतीर्ज-
पित्वा सावित्रीं जपेत्, 'सव्याहृतिकां गायत्रीम्' इति
याज्ञवल्क्यस्मरणात् । आपोशनदानविधानान्नित्यभोजनाश्रित-
नियमाः पर्युक्षणादयः प्राणाहुत्यन्ता भोक्तृणामत्रापि सन्तीति
गम्यते । अत एव कस्यचिद्भोजननियमस्यात्र प्रतिषेधार्थं तद-
नुष्ठाने दोषमाह भरद्वाजः—
पितॄणामन्नमादाय बलिं यस्तु प्रयच्छति ।
स्तेयेन ब्रह्महा तेन सुवर्णस्तेयकृद्भवेत् ॥

पितॄणामन्नं देवपित्रर्थं परिविष्टमन्नम् । अत एव सामान्येनो-
क्तमत्रिणा—
दत्ते वाऽप्यथवाऽदत्ते भूमौ यो निक्षिपेद्बलिम् ।
तदन्नं निष्फलं याति निराशैः पितृभिर्गतैः ॥
बलिं नित्यभोजननियमविधिषूक्तं बलिं,
भोजनात्किञ्चिदन्नाग्रं धर्मराजाय वै बलिम् ।
दत्त्वाऽथ चित्रगुप्ताय प्रयतश्चेदमुच्चरेत् ॥
इति विहितमिति यावत् । व्याहृत्यादिजपानन्तरं याज्ञवल्क्यः—
‘जप्त्वा यथासुखं वाच्यम्’ इति । यथासुखमिति पदमपरि-
पूर्णत्वादन्विताभिधानात् पदान्तरमपेक्षते । तेन जुषध्वमिति
पदमध्याहार्यम् । अत एव—
जुषध्वमिति ते चोक्तास्सम्यग्विधृतभाजनाः ।
कृतमौनास्समश्नीयुरापोशनादनन्तरम् ॥
इति व्यासेनोक्तम् । आपोशनादनन्तरं अमृतोपस्तरणमसीति
मन्त्रेणापः पीत्वा तदनन्तरमित्यर्थः । प्राणाहुतयस्त्वशनक्रिया-
यामनुप्रविष्टा इति तासां करणेऽपि समश्नीयुरापोशनादन-
न्तरमित्यस्य न कश्चिद्विरोधः । भोक्तुमुपक्रान्तेषु ब्राह्मणेषु
श्राद्धकर्तुः कर्तव्यमाह कात्यायनः—‘अश्नत्सु जपेद्व्याहृति-
पूर्वा गायत्रीं सप्रणवां सकृत्त्रिर्वा रक्षोघ्नीः पित्र्यमन्त्रान्
पुरुषसूक्तमप्रतिरथमन्यानि च पवित्राणि’ इति । रक्षोघ्नीः
‘कृणुष्व पाजः प्रसितिं न पृथ्वीम्’ इत्याद्या ऋचः । पित्र्य-

श्राद्धकाण्डे परिवेषणविधिः. 351
मन्त्राः—'उदीरतामवरे' इत्यादयः । अप्रतिरथः—'आशुशिशि-
शानः' इति सूक्तम् । मनुरपि—
स्वाध्यायं श्रावयेत्पित्र्ये धर्मशास्त्राणि चैव हि ।
आख्यानानीतिहासांश्च पुराणान्यखिलानि च ॥
श्रावयेद्यज्ञोपवीतीति शेषः ।
अपसव्येन कर्तव्यं सर्वं श्राद्धं यथाविधि ।
सूक्तस्तोत्रजपं मुक्त्वा विप्राणां च विसर्जनम् ॥
इति जमदग्निस्मरणात् । सूक्तस्तोत्रग्रहणं भुञ्जानेषु विप्रेषु
यद्यज्जप्यं तस्य सर्वस्योपलक्षणार्थम् । बृहस्पतिस्तु मन्त्रादि-
जपादन्यदपि कर्तव्यमाह—
भक्ष्यभोज्यगुणानुक्त्वा भोजयेद्ब्राह्मणान् शनैः ।
इति । भोक्तारं भोजयितारं च प्रत्याह वृद्धशातातपः—
अपेक्षितं याचितव्यं श्राद्धार्थमुपकल्पितम् ।
न याचते द्विजो मूढः स भवेत्पितृघातकः ॥
अपेक्षितं यो न दद्याच्छ्राद्धार्थमुपकल्पितम् ।
कृपणो मन्दबुद्धिश्च न स श्राद्धफलं लभेत् ॥
न केवलं श्राद्धफलालाभः अपितु कष्टतमजन्मप्राप्तिरपि ।
तथाच निगमः—
अपेक्षितं न दद्याद्यश्श्राद्धार्थमुपकल्पितम् ।
अथ कृच्छ्रासु घोरासु तिर्यग्योनिषु जायते ॥

352 स्मृतिचन्द्रिका
यत्तु वायुपुराणेऽभिहितं—
याचते यदि दातारं ब्राह्मणो ज्ञानवर्जितः ।
पितरस्तस्य रुष्यन्ति दातुर्भोक्तुर्न संशयः ॥
यच्च यमेन—
कृच्छ्रद्वादशरात्रेण मुच्यन्ते कर्मिणस्ततः ।
तस्माद्विद्वान्नैव दद्यान्न याचेन्न तु दापयेत् ॥
इति । तत् श्राद्धार्थमनुपकल्पितवस्तुविषयं, सामान्येनाभिधा-
नात् । श्राद्धार्थमुपकल्पितान्नादिविषयेऽप्यत्यन्ताधिकं दाता न
दद्यात् । भोक्ता च न प्रतिगृह्णीयात् । तथा च शङ्खलिखितौ—
'नात्यधिकं दद्यान्न प्रतिगृह्णीयात्' इति । अत्यधिकान्नस्या-
परिग्रहणार्थं पूर्वपरिविष्टं प्रभूतमत्रास्ति किमन्येनेति भोक्त्रा
न वक्तव्यं, किंतु हस्तसंज्ञया सूचनीयम् । तथाच तावेव—
'अन्नपानादि न प्रभूतमिति ब्रूयुरन्यत्र हस्तसंज्ञायाः' इति ।
निगमोऽपि—
नान्नपानादिकं श्राद्धे वारयेन्मुखतः क्वचित् ।
अनिष्टत्वाद्वहुत्वाद्वा वारणं हस्तसंज्ञया ॥
एवं याचनमपि न मुखतः कुर्यात्, मौनभङ्गप्रसङ्गात् । तेन
तदपि हस्तसंज्ञया कार्यम् । एवं दात्राऽपि पुनर्दानसमये
अत्यधिकदानं न भविष्यतीति ज्ञापनार्थमीषददामीति मुखतो
न वक्तव्यम् । किंतु तूष्णीं किंचित् प्रदर्श्य प्रतिषेधसूचकहस्त-
सङ्केताभावेऽभ्यनुज्ञासूचकहस्तसङ्केते वा देयम् । यदाह यमः—

यावद्धविष्यं भवति यावदिष्टं प्रदीयते ।
तावदश्नन्ति पितरो यावन्नाह ददाम्यहम् ॥
इति । परिविष्टान्नेषु यन्निरवशेषतया भुक्तं यच्च भोक्तुं पुनः-
पुनर्गृह्यते तत्तस्येष्टमित्यनुमाय तदानीय प्रदर्श्य प्रतिषेधसूच-
नाभावे देयम् । तथाच स एव—
यद्यद्रोचेत विप्रेभ्यस्तद्दद्यादविमत्सरः ।
इति । मत्सरग्रहणं दोषान्तराणामुपलक्षणार्थम् । अत एव
ब्रह्माण्डपुराणं—
न चाश्रु पातयेज्जातु न शुक्तां गिरमीरयेत् ।
न चोद्वीक्षेत भुञ्जानं न च कुर्वीत मत्सरम् ॥
न दीनो न च वा क्रुद्धो न चैवान्यमना नरः ।
एकाग्रमाधाय मनः श्राद्धं कुर्यात्सदा बुधः ॥
इति । शुक्तां निष्ठुराम् । कार्ष्णाजिनिरपि—
कुर्यादथापरिश्रान्तो दम्भाहङ्कारवर्जितः ।
क्रोधं लोभं तथा मोहं वर्जयेच्छ्राद्धकर्मणि ॥
इति । समानेषु स्वस्य श्रैष्ठयसिद्धये परमश्रेष्ठानि भक्ष्यभो-
ज्यानि दद्यादित्याह स एव—
भक्ष्यभोज्यानि चोष्याणि पेयलेह्ययुतानि च ।
सर्वश्रेष्ठानि यो दद्यात्सर्वश्रेष्ठो भवेन्नरः ॥
दत्तेषु भक्ष्यादिषु आतृप्तेः स्वेच्छया न किञ्चिदवशेषयेत् ।
Smriti Cha.—Vol. V. 45

354 स्मृतिचन्द्रिकायां
तथाच सुमन्तुः—
अक्रोधनो रसान् सम्यगद्याद्यद्यस्य रोचते ।
आवृत्तेर्भोजनं तेषां कामतो नावशेषणम् ॥
इति स्मृतिचन्द्रिकायां परिवेषणविधिः.
अथान्यान्यपि निमन्त्रितब्राह्मणविषयाणि
कानिचिद्वचनानि लिख्यन्ते.
तथाच प्रचेताः—
पीत्वाऽऽपोशनमश्नीयात् पात्रदत्तमगर्हितम् ।
सर्वेन्द्रियाणां चापल्यं न कुर्यात्पाणिपादयोः ॥
इन्द्रियादिषु चापल्यं भोजनार्थव्यापारादभ्यधिकव्यापारः ।
तस्मिंस्तु कृते भुक्तमन्नं न पितॄन् प्रीणातीत्याह हारीतः—
उद्धृत्य पाणी विहसन् सक्रोधो विस्मयान्वितः ।
श्राद्धकाले तु यत् भुङ्क्ते न तत्प्रीणाति वै पितॄन् ॥
बोधायनोपि—
पादेन पादमाक्रम्य यो भुङ्क्तेऽनापदि द्विजः ।
नैवासौ भोज्यते श्राद्धे निराशाः पितरो गताः ॥
वाग्व्यापारस्सर्वोपि न कार्यः । यदाह निगमः—‘तूष्णीं
भुञ्जीरन्नविलोकयमाना अनुद्धृत्य पात्रम्’ इति । अविलो-
कयमानाः दिश इति शेषः । मनुरपि—

355

अत्युष्णं सर्वमन्नं स्यादश्नीरंश्चैव वाग्यताः ।
न च द्विजातयो ब्रूयुः दात्रा पृष्टान् हविर्गुणान् ॥
अश्नीरंश्चैवेवैवशब्देन एकपङ्क्त्युपविष्टब्राह्मणेषु भुञ्जानेषु क-
थञ्चिदन्योन्यस्पर्शने सत्यपि भोजनोपरमो नैव कार्य इत्याह ।
अत एव शङ्खः—
श्राद्धपङ्क्तौ तु भुञ्जानो ब्राह्मणो ब्राह्मणं स्पृशेत् ।
तदन्नमसृजन् भुक्त्वा गायत्र्यष्टशतं जपेत् ॥
वाग्यमनविधानादेव हविर्गुणवचननिषेधसिद्धौ पुनर्निषेधो ह-
स्तसङ्केतेनाप्यतत्सूनार्थः । अतो हस्तसङ्केतेनापि हविर्गुण-
कथने दोषमाहात्रिः—
हुङ्कारेणापि यो ब्रूयाद्धस्ताद्वाऽपि गुणान्वदेत् ।
भूतलाच्चोद्धरेत्पात्रं मुखेद्धस्तेन वाऽपि तत् ॥
प्रौढपादो बहिःकक्षो बहिर्जानुकरोऽथवा ।
अङ्गुष्ठेन विनाऽश्नाति मुखशब्देन वा पुनः ॥
पीतावशिष्टतोयादि पुनरुद्धृत्य वा पिबेत् ।
खादितार्धं पुनः खादेन् मोदकादि फलानि वा ॥
मुखेन वा धमेदन्नं निष्ठीवेत् भाजनेऽथवा ।
इत्थमश्नन् द्विजः श्राद्धं हत्वा गच्छत्यधोगतिम् ॥
प्रौढपाद आसनाध्यारोपितपादः । बहिःकक्ष उत्तरवासोबहि-
र्भूतकक्षद्वयः । भूतलात्पात्रोद्धरणे दोषोऽन्नाद्याधारमहाभाजन-
विषयः । पानाद्याधारलघुपात्रस्य 'पुनरुद्धृत्य वा पिबेत्' इत्य-

नेनोद्धाराभ्यनुज्ञावगमात् । यत्तु देवेनोक्तं—
अन्नपानकशीतोदं ददद्भिरवलोकितः ।
वक्तव्ये कारणे संज्ञां कुर्वन् भुञ्जीत पाणिना ॥
इति । अपेक्षानुसारेणान्नपानशीतलवार्यादिदातृभिरपेक्षां ज्ञातुम-
वलोकितः क्षुत्पिपासादिलक्षणे अपेक्षादेः कारणे वक्तव्ये
पाणिना संज्ञां सङ्केतं अपेक्षादिसूचकं कुर्वन् भुञ्जीतेति
तस्यार्थः प्रत्येतव्यः । न तु स्वादुत्वादिहविर्गुणरूपे अपेक्षाका-
रणे संज्ञां कुर्वन्निति, एवंविधार्थपरिग्रहे पूर्वोक्तवचनविरो-
धापत्तेः । अन्नपानदात्रा तु हविर्गुणप्रश्नोऽत्यर्थं दोषत्वान्न
कार्य इत्याह शङ्खः—
श्राद्धे नियुक्तान् भुञ्जानान् पृच्छेल्लवणादिषु ।
उच्छिष्टाः पितरो यान्ति पृच्छतो नात्र संशयः ॥
दातुः पतति बाहुर्वै जिह्वा भोक्तुश्च भिद्यते ।
इति । लवणादिषु न्यूनाधिक्याभावेन हविषः साद्गुण्यं पुनरपि
प्रदानार्थं न पृच्छेत् । न च पृष्ट्वा सम्यक्त्वेन ज्ञातं दद्यात्,
‘दातुः पतति बाहुः’ इति दोषश्रवणात् । ‘जिह्वा भोक्तुश्च
भिद्यते’ इति निन्दाबलाद्धविषस्साद्गुण्यं सङ्केतेनापि भोक्ता
न सूचयेदिति निषेधविधिर्गम्यते । पादुकयोरुपविष्टपीठे वा
पादौ निधाय न निमन्त्रिता अश्नीयुरित्याह विष्णुः—‘अश्नी-
युर्ब्राह्मणा न सोपानत्काः न पीठोपरि निहितपादाः’ इति ।
अत्र द्वितीयनिषेधातिक्रमेण यो भुङ्क्ते तस्य दोषमाह वृद्धशातातपः—

357
आसने पादमारोप्य यो भुङ्क्ते द्विजसत्तमः ।
हन्ति दैवं च पित्र्यं च तदन्नं च प्रजाः पशून् ॥
निषेधान्तरमाह प्रचेताः—
न स्पृशेद्वामहस्तेन भुञ्जानोऽन्नं कदाचन ।
न पादौ न शिरो बस्तिं न पदा भाजनं स्पृशेत् ॥
निगमोऽपि—
मांसापूपफलेक्ष्वादि दन्तच्छेदं न भक्षयेत् ।
ग्रासशेषं न पात्रेऽस्येत्पीतशेषं च नो पिबेत् ॥
दन्तच्छेदं न भक्षयेत् हस्तेन मांसादि धृत्वा स्वल्पं स्वल्पं दन्तै-
श्छित्त्वा न भक्षयेत् ग्रासशेषं आस्यार्पितग्रासशेषं पुनर्भाजने
नास्येत् न क्षिपेत् । उशनाऽपि—
भाजनं तु न निःशेषं कुर्यात्प्राज्ञः कथञ्चन ।
अन्यत्र दध्नः क्षीराद्वा क्षौद्रात्सक्तुभ्य एव च ॥
इति, यत्तु जमदग्निरोक्तं 'न निन्देयुर्नावशेषयेयुः' इति, तत्
अधिकावशेषविषयम् । यतोऽनन्तरमाह स एव—
'अल्पं पुनरुत्सृष्टव्यं तस्यासंस्कृतप्रमीतानां भागधेय-
त्वात्' इति । प्रचेता अपि वर्जनियमाह—
दन्तच्छेदं हस्तपानं वर्जयेच्चातिभोजनम् ।
इति । हस्तपानं हस्तेन पेयादिपानं वर्जयेत् । अपितु लघुपात्रेण
कुर्यात् । अतिभोजनं तृप्तौ सत्यामपि भोजनम् ॥
इति स्मृतिचन्द्रिकायां निमन्त्रितभोक्तृविषयाणि ॥

358 स्मृतिचन्द्रिकायां.
अथान्नविकिरणादिविधिः ।
तृप्तिं बुद्ध्वान्नमादाय सतिलं पूर्ववज्जपेत् ।
तृप्तिं पृच्छेत्.................................... ॥
इति। पूर्ववज्जपेदित्यादेरर्थः कात्यायनेन प्रपञ्चितः 'गायत्रीं
मधु मध्विति च जपित्वा तृप्तास्थ इति पृच्छति' इति ।
एवं पृष्टाः ते विप्राः तृप्ताः स्मः, इति ब्रूयुः
तृप्ताः स्थ इति पृष्टास्ते ब्रूयुस्तृप्तास्स्म इत्यपि ।
इति व्यासस्मरणात् । तृप्ताः स्मः इत्युक्ते अनन्तरं
ब्रह्माण्डपुराणं—
प्रोक्ष्य भूमिमथाद्भिस्तुभूमौ पितृपरायणः ।
ततो विकिरणं कुर्याद्विधिदृष्टेन कर्मणा ॥
किं पुनर्विधिदृष्टं कर्मेत्यपेक्षिते मनुः—
सार्ववर्णिकमन्नाद्यं संनीयाप्लाव्य वारिणा ।
समुत्सृजेद्भुक्तवतामग्रतो विकिरं भुवि ॥
सर्वे विप्रभुक्तान्नव्यञ्जनवर्णाः प्रकारा यस्मिन्नन्नाद्ये तत्सार्ववर्णिकं
अन्नाद्यं संनीय यद्यदन्नं विप्रैरुपभुक्तं ततस्तत एकदेशमव-
दायावदाय क्वचित्पात्रे एकीकृत्येत्यर्थः ।
मत्स्यपुराणे—
भुक्तवत्सु ततस्तेषु भाजेनवाऽन्तिके नृप * ।
सार्ववर्णिकमन्नाद्यं संनीयाप्लाव्य वारिणा ॥

  • स्वतः

समुत्सृजेद्भुक्तवतामग्रतो विकिरेद्भुवि ।
आप्लाव्य अवोक्ष्येत्यर्थः । समुत्सृजेत् विनिक्षिपेत् । 'ये अग्नी-
ति भुवि क्षिपेत्' इति प्रचेतसोऽभिधानात् । ये अग्नीति मन्त्रः
कात्यायनेन दर्शितः—
ये अग्निदग्धा ये अनग्निदग्धा ये वा जाताः कुले मम ।
भूमौ दत्तेन पिण्डेन तृप्ता यान्तु परां गतिम् ॥
इति। यद्यपि भूमौ दत्तेनेति मन्त्रवर्णात् विधायकसर्ववचनेषु
भुवीत्यभिधानाच्च न दर्भास्तरणमत्रास्तीति प्रतिभाति । तथाऽपि
'दर्भेषु विकिरश्च यः' इति मनुवचने दर्भसत्त्वानुवाददर्शनाद्-
र्भानास्तीर्य तत्र विकिरो देय इति विधिः कल्प्यते । तेन
दर्भास्तृतभूमौ विकिरो देयः न केवलायामिति मन्तव्यम् ।
सार्ववर्णिकान्नोद्धरणादि सर्वं प्राचीनावीतिना कार्यम् । सूक्ता-
दिजपव्यतिरिक्ते श्राद्धकर्मणि प्राचीनावीतित्वाभिधानात् ।
विकिरनिक्षेपस्थाने विक्षेपात्पूर्वं पिण्डदानोक्तप्रकारेण तूष्णीं
सतिलं वारि क्षिप्त्वा विकिरस्योपरि पुनः सतिलं वारि
निक्षेप्तव्यम् ॥
उदङ्मुखानां विप्राणां पुरतस्सोदकं ततः ।
अन्नं तु किरेत् भक्त्या................... ॥
इति मार्कण्डेयेनोक्तत्वात् । अन्नं विकीर्यानन्तरं उपवीती
भूत्वाऽऽचामेत् । अनाचमने दोषस्मरणात् । तथाच मरीचिः—

360 तच्चन्द्रिकाया.

श्राद्धेषु विकिरं दत्वा यो नाचामेन्मतिभ्रमात् ।
पितरस्तस्य षण्मासं भवन्त्युच्छिष्टभोजिनः ॥
तदनन्तरं ब्राह्मणांश्चाचमयेत् । तथाच मदालसावाक्यम् ॥
.... ............................. प्रकीर्य भुवि सर्वतः ।
तदन्वाचमनार्थाय दद्यादापस्सकृत्सकृत् ॥
तदनु अन्नविकिरणात्पश्चादाचमनार्थाय नित्यभोजननियमेषु उक्तं
'अमृतापिधानमसि' इति मन्त्रपूर्वकं यद्गण्डूषं तदर्थं वैश्वदैविक-
विप्रपूर्वकं प्रतिविप्रं सकृत्सकृदपो निनयेदित्यर्थः । गण्डूषकरणं
च विप्रैर्हस्तलेपप्रक्षालनमकृत्वैव कार्यमिति सूचयितुं सकृत्सकृद्द-
द्यादित्युक्तम् । एवं च यथा हस्तप्रक्षालनं कृत्वा गण्डूषकरणे
नित्यभोजने पुरुषार्थविध्यतिक्रमात्पुरुषदोषः, तथाऽत्र श्राद्धार्थ-
विध्यतिक्रमाच्छ्राद्धस्य वैगुण्यं भवति । तथाऽऽह मरीचिः—
हस्तौ प्रक्षाल्य गण्डूषं यः पिबेदविचक्षणः ।
आसुरं तद्भवेच्छ्राद्धं पितॄणां नोपतिष्ठते ॥
इति। गण्डूषं यः पिबेत् भोजने विरते ' अमृतापिधानमसि '
इति मन्त्रेणापो यः पिबेदित्यर्थः। गण्डूषार्थोदकदानान्तरं विष्णुः—
'उदङ्मुखेष्वाचमनमादौ दद्यात् प्राङ्मुखेषु ततः प्रोक्षणं इति
श्राद्धशेषं प्रोक्ष्य दर्भपाणिस्सर्वं कुर्यात्' इति । पैतृकब्राह्मणेषु
प्रथमं हस्तप्रक्षालनपूर्वकाचमनार्थमपो दत्वा पश्चाद्वैश्वदैविक-
ब्राह्मणेषु दत्वा 'सुप्रोक्षितम्' इति मन्त्रेण श्राद्धदेशं प्रोक्ष्य

दर्भपाणिस्सर्वमुपरितनं कर्म कुर्यादित्यर्थः । एवम्भूतहस्तप्रक्षाळ-
नपूर्वकाचमनक्रमविधिं हेतुवन्निगदार्थवादसहितमाह शातातपः-
विश्वेदेवनिविष्टानां चरमं हस्तधावनम् ।
विसर्जनं च निर्दिष्टं तेषु रक्षा यतास्थिरा ॥ इति ॥
इति स्मृतिचन्द्रिकायां अन्नावकिरणादिविधिः.
अथ पिण्डदानविधिः.
तत्र मनुः-
पिण्डनिर्वपणं केचित् पुरस्तादेव कुर्वते ।
इति । ब्राह्मणभोजनात्पुरस्तात् तेषामर्चनानन्तरं अग्नौकरणा-
नन्तरं वा पिण्डनिर्वपणं केचित्कुर्वत इत्यर्थः । एवमेव स्मृ-
त्यन्तरेषु भोजनात्पुरस्तात्पिण्डनिर्वपणस्य कालद्वयदर्शनात् ।
केचिदितिवचनादपरे ब्राह्मणभोजनात्परस्तादाचमनात्प्रागूर्ध्वं वा
(ब्राह्मणविसर्जनादूर्ध्वं वा) पिण्डनिर्वपणं कुर्वत इत्यवग-
म्यते । स्मृत्यन्तरेषु ब्राह्मणभोजनादूर्ध्वमेव कालद्वयदर्शनात् ।
अत्र यथास्वशाखं व्यवस्था । तथाच स्मृत्यन्तरम्--
मुनिभिर्भिन्नकालेषु पिण्डदानं तु यत्स्मृतम् ।
तत्स्वशाखामतं यत्र तत्र कुर्याद्विचक्षणः ॥
तत् भिन्नकालेषु स्मृतं पिण्डदानं यस्मिन् काले कृतं स्व-
शाखायामनुमतं अनुगृहीतं भवति तस्मिन् काले कुर्यादित्यर्थः ।
SMRITI CHA.—Vol. V. 46

362 स्मृतिचन्द्रिकायां
ब्राह्मणभोजनात्पुरस्तात्परस्ताद्वेति पक्षद्वये व्यवस्थामाह लो-
काक्षिः--
अप्रशस्तेषु यागेषु पूर्वं पिण्डावनेजनम् ।
भोजनस्य प्रशस्तं तु पश्चादेवोपकल्पयेत् ॥
अप्रशस्तेषु यागेषु सपिण्डीकरणाख्यश्राद्धात् पूर्वं विहितश्रा-
द्धेषु । अवनेजनं अवाचीनपाणिना निर्वपणम् । भोजनस्य
निमन्त्रितब्राह्मणभोजनस्य । प्रशस्तं सपिण्डीकरणादिश्राद्धेषु
क्रियमाणं भोजनात्पश्चादेव यथाकालमुपकल्पयेत् । एवञ्च
पार्वणश्राद्धे भोजनात्पश्चादेव स्वशाखानुमते काले पिण्डं
दद्यात् । तत्राश्वलायनशाखिनां ब्राह्मणभोजनादूर्ध्वं तेष्वाचा-
न्तेषु पिण्डदानकालः । तथाऽऽश्वलायनः-- 'भुक्तवत्स्वाचा-
न्तेषु पिण्डं निदध्यादनाचान्तेष्वेके' इति । तत्र अनाचान्तेष्वेके
इति पक्षश्च सौकर्यात्स्वगृह्यानुक्तकालविशेषैरप्ययमेव पक्षो
ग्राह्यः । याज्ञवल्क्यस्तु पिण्डदानप्रकारमाह--
सर्वमन्नमुपादाय सतिलं दक्षिणामुखः ।
उच्छिष्टसन्निधौ पिण्डान् दद्यात्तु पितृयज्ञवत् ॥
श्राद्धार्थपाकसिद्धं सर्वप्रकारमन्नं स्तोकंस्तोकमुद्धृत्य क्वचित्पात्रे
समवदाय तदन्नमयान् पिण्डान् स्वशाखाविहितपिण्डपितृयज्ञ-
विधानेन स्मृतिकारोपदिष्टेन सतिलत्वदक्षिणामुखत्वादिविशे-
षसहितेनोच्छिष्टसंनिधौ दद्यादित्यर्थः । ननूच्छिष्टसन्निधिरशु-
चिर्देशो भवतीति तत्र कथं पिण्डदानं विधीयत इत्याशङ्कयाहात्रिः-