सामग्री पर जाएँ
सर्वकोश
स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)

स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)

Smritichandrika: Vyavaharakanda of Devannabhatta

देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा

DevanagariSanskritpublished474 पृष्ठ

पृष्ठ 368, कुल 474 में से

संदर्भ में पढ़ें
पृष्ठ 368

348 स्मृतिचन्द्रिकायां

वसुरूपः सपत्नीकः............मातामहायामुकगोत्रायामुकशर्मणे
वसुरूपायेत्यादिविशेषः । मातुःपितामहीयान्नत्यागे विशेषः,
मातुःप्रपितामहीयान्नत्यागे विशेषश्च स्वयमूह्यः । मातुःपिता-
महादिस्थानेऽपि ब्राह्मणानेकत्वे पूर्वोक्तप्रकारेणान्नत्यागावृत्तिः ।
यदा तु पित्रादीनामेक एव ब्राह्मणस्तदा यावन्त उद्देश्या-
स्तावतो भागानेकस्मिन् भाजने परिविष्टस्यान्नादेर्बुद्ध्या कृत्वा
एकैकं भागमेकैकं पित्रादिकमुद्दिश्य त्यजेत् । यदा त्वतिथि-
र्भोजनार्थमुपविष्टस्तदा तं गन्धपुष्पादिभिरर्चयित्वा पितृभ्योऽ-
न्नत्यागानन्तरं अस्मै ब्राह्मणाय विष्णुरूपाय शिवरूपाय वा
इदमन्नमातृप्तेः परिवेक्ष्यमाणं च नमो न ममेति परिविष्टमन्नं
त्यजेत् । अत्र विष्णुपुराणं—
पिता पितामहश्चैव तथैव प्रपितामहः ।
तृप्तिं प्रयान्तु ते भक्त्या यन्मयैतदिहाहृतम् ॥
मातामहस्तृप्तिमुपैतु तस्य
तथा पिता तस्य पिता च योऽन्यः ।
विश्वे च देवाः परमां प्रयान्तु
तृप्तिं प्रणश्यन्तु च यातुधानाः ॥
यज्ञेश्वरो हव्यसमस्तकव्य-
भोक्ताऽव्ययात्मा हरिरीश्वरोऽत्र ।
तत्सन्निधानादपयान्तु सद्यः
रक्षांस्यशेषाण्यसुराश्च सर्वे ॥