स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
142 स्मृतिचन्द्रिकायां
अथ श्राद्धदेशाः.
तत्र विष्णुधर्मोत्तरे—
दक्षिणाप्रवणे देशे तीर्थादौ वा गृहेऽपि वा ।
भूसंस्कारादिसंयुक्ते श्राद्धं कुर्यात्प्रयत्नतः ॥
तीर्थं ऋषिसेवितं जलं, तत्समीपे । आदिशब्देन ऋषिसे-
विताश्रमादि * गृह्यते । भूसंस्कारादिसंयुक्ते भूसंस्कारो गो-
मयादिलेपनादिः । आदिशब्देन केशाद्यशुचिद्रव्यापसारणं गृ-
ह्यते । तथाचोक्तं तत्रैव—
गोमयेनोपलिप्तेषु विविक्तेषु गृहेषु च ।
कुर्याच्छ्राद्धमथैतेषु नित्यमेव यथाविधि ॥
इति । एतेषु पूर्वोक्तेषु गृहेषु गृहादिषु गोमयेनोपलिप्तेषु के-
शादिद्रव्यवियुक्तेषु श्राद्धं नित्यं कुर्यादित्यर्थः । मनुरपि—
शुचिं देशं विविक्तं तु गोमयेनोपलेपयेत् ।
दक्षिणाप्रवणं चैव प्रयत्नेनोपपादयेत् ॥
इति । अयमर्थः—स्वतश्शुचिं तीर्थादिप्रदेशं गृहप्रदेशं वा
परकृताशुचिपरिहारार्थं विविक्तं केशाद्यसंयुक्तं कृत्वा भूसं-
स्कारातिशयार्थं गोमयेनोपलेपयेत् । स्वतो दक्षिणाप्रवणत्वा-
भावेऽपि पितृयजनत्वसिद्धये दक्षिणाप्रवणत्वं चोद्धननादिना
प्रयत्नेनोपपादयेत् कुर्यादिति । अत्र यमः—
परकीयप्रदेशेषु पितॄणां निर्वपेत्तु यः ।
- ऋषिदेवताश्रयादि इति पाठान्तरम् .
...शाः 143
तद्भूमिस्वामिपितृभिश्श्राद्धकर्म विहन्यते ॥
तेन तत्र श्राद्धं न कुर्यादित्यभिप्रायः । परकीयप्रदेशाः पर-
परिगृहीतगृहगोष्ठादिप्रदेशाः, न पुनस्तीर्थादिप्रदेशाः । तथाच
पुराणम्—
अटवीपर्वताः पुण्या नदीतीराणि यानि च ।
सर्वाण्यस्वामिकान्याहुः न हि तेषु परिग्रहः ॥
वनानि गिरयो नद्यः तीर्थान्यायतनानि च ।
देवखाताश्च गर्ताश्च न स्वामी तेषु विद्यते ॥
इति । देवखाताश्च गर्ताश्च देवखातगर्ताश्चेत्यर्थः । कृत्रिमगर्त-
स्यास्वामिकत्वनियमासम्भवात् । यस्मादेतेषु परपरिग्रहा-
भावः, तस्मादेतेषु स्वगृहेष्विव श्राद्धं देयमित्युक्तम् । वि-
ष्णुधर्मोत्तरे—
तस्माच्छ्राद्धानि देयानि पुण्येष्वायतनेषु च ।
नदीतीरेषु तीर्थेषु स्वभूमौ च प्रयत्नतः ॥
इति । स्वभूम्यामपि कृत्रिमप्रदेशादन्यत्र देयानि, तत्र प्रति-
षेधात् । तथाच शङ्खः—
गोगजाश्वादिपृष्ठेषु कृत्रिमायां तथा भुवि ।
न कुर्याच्छ्राद्धमेतेषु पारक्याशुचिभूमिषु ॥
कृत्रिमायां भुवि वेदिकायामित्यर्थः । अनेन अकृत्रिमायामे-
व भुवि पितृतृप्तिर्भवतीत्यर्थादुक्तम् । उक्तं चसाक्षाद्देवलेन—
स्थलीषु गिरिपृष्ठेषु तीर्थेष्वायतनेषु च ।
144 स्मृतिचन्द्रिकायां
गोष्ठेषु च विविक्तेषु तुष्यन्ति पितरस्तथा ॥
स्थलीषु अकृत्रिमोन्नतदेशेष्वित्यर्थः । 'जानपदकुण्डगोळस्थल'
इत्यादिना पाणिनीयसूत्रेण स्थलशब्दादकृत्रिमार्थे ङीप्प्रत्य-
विधानात् । शङ्खोपि कृत्रिमस्थले निषेधमाह— 'नेष्टकाचिते
पितॄंस्तर्पयेत्' इति । यमस्तु वर्ज्यप्रदेशमाह—
रूक्षं क्रिमिहतं क्लिन्नं सङ्कीर्णानिष्टगन्धकम् ।
देशं त्वनिष्टशब्दं च वर्जयेच्छ्राद्धकर्मणि ॥
रूक्षं अस्निग्धम् । क्लिन्नं सकर्दमम् । सङ्कीर्णं पदार्थान्तरैरा-
कीर्णम् । अनिष्टगन्धिकं पूतिगन्धिकम् । अनिष्टशब्दं अश्रा-
व्यशब्दम् । मदालसावाक्यमपि—
वर्ज्या जन्तुमती रूक्षा क्षितिः प्लुष्टा तथाऽग्निना ।
अनिष्टदुष्टशब्दोग्रा दुर्गन्धा श्राद्धकर्मणि ॥
अग्निना प्लुष्टा दग्धा । उग्रा व्याघ्रादिसंनिकृष्टा ।
इति स्मृतिचन्द्रिकायां श्राद्धदेशाः.
अथ काम्यश्राद्धदेशाः.
तत्र व्यासः—
पुष्करे त्वक्षयं श्राद्धं जपहोमतपांसि च ।
महोदधौ प्रयागे च काश्यां च कुरुजाङ्गले ॥
इति । पुष्करे पुष्कराख्यतीर्थे । काशी वाराणसी । कुरुजा-
ङ्गलशब्दौ जनपदविशेषवचनौ । शङ्खोपि—
श्राद्धकाण्डे काम्यश्राद्धदेशाः 145
वाराणस्यां कुरुक्षेत्रे भृगुतुङ्गे हिमालये ।
नर्मदाबाहुदातीरे सर्वमानन्त्यमश्नुते ॥
गङ्गाद्वारे प्रयागे वा नैमिशे पुष्करे तथा ।
सन्निहत्यां गयायां च दत्तमक्षय्यतां व्रजेत् ॥
नैमिशे सरस्वतीतीरवर्तिनि नैमिशारण्ये । सन्निहतिः कुरुक्षे-
त्रवर्ती तीर्थविशेषः । गया प्रसिद्धा । गयाक्षेत्रस्य तु प्रमाणं
पुराणे दर्शितं—
महानदी देवनद्योः सर्वतीर्थाद्यनन्तरम् ।
उदक्कनकनन्दाया गयामध्यं प्रकीर्तितम् ॥
पञ्चक्रोशं गयाक्षेत्रं क्रोशमात्रं गयाशिरः ।
पञ्चक्रोशप्रमाणके गयाक्षेत्रे सारभूतं क्रोशमात्रं गयाशिर इति
प्रसिद्धमित्यर्थः । तच्च तत्रैव निरूपितं—
महानद्याः पश्चिमेन यावद्गृध्रेश्वरो गिरिः ।
उत्तरे ब्रह्मयूपस्य यावद्दक्षिणमानसम् ॥
एतद्गयाशिरो नाम त्रिषु लोकेषु विश्रुतम् ।
इति । गयाशिरोवदन्यान्यपि गयायां विश्रुतानि महानद्या-
दीनि श्राद्धस्थलानि तत्रैव दर्शितानि—
महानदी ब्रह्मसदोऽक्षयो वटः प्रभासमुद्यन्तमथो गयाशिरः।
सरस्वती धेनुकधर्मपृष्ठमेते कुरुक्षेत्रसमा गयायाम् ॥
इति । उद्यन्ताख्यः पर्वतविशेषः । सरस्वती प्राची सरस्वतीति
विश्रुता । व्यासोपि—
SMRITI CHA.—Vol. V. 19
146 स्मृतिचन्द्रिकायां
ब्रह्मारण्यं धर्मपृष्ठं धेनुकारण्यमेव च ।
त्रिष्वेतेषु पितॄनर्चन् वंशान् सप्त समुद्धरेत् ॥
ब्रह्मकैवर्तेऽपि—
गयायां मुण्डपृष्ठं तु अरविन्दं च पर्वतम् ।
तृतीयं क्रौञ्चपादं तु दृष्ट्वा पापैः प्रमुच्यते ॥
गयायास्तच्छिरसो मुण्डपृष्ठस्य च माहात्म्यं तत्रैव दर्शितं—
स्वर्गपातालमर्त्येषु नास्ति तीर्थं गयासमम् ।
पितरो यान्ति देवत्वं प्राप्तपिण्डा गयाशिरै ॥
गयाशीर्षे यदा पिण्डं नाम्ना येषां प्रकुर्वते ।
नरकस्था दिवं यान्ति स्वर्गस्था मोक्षगामिनः ॥
मुण्डपृष्ठे पदं न्यस्तं महादेवेन धीमता ।
बहून्यब्दसहस्राणि तपस्तप्त्वा सुदारुणम् ॥
अल्पेनाप्यत्र कालेन नरो धर्मपरायणः ।
पापं विमोचयत्याशु जीर्णां त्वचमिवोरगः ॥
इति । अक्षयवटस्य माहात्म्यं तत्रैव दर्शितं—
तत्राक्षयवटो नाम त्रिषु लोकेषु विश्रुतः ।
पितॄणां तत्र वै दत्तमक्षयं भवति प्रभो ॥
वटवृक्षं समासाद्य शाकेनाप्युदकेन वा ।
एकस्मिन् भोजिते विप्रे कोटिर्भवति भोजिता ॥
धेनुकारण्यमाहात्म्यं पुराणान्तरे दर्शितं—
ततो गच्छेत राजेन्द्र धेनुकां लोकविश्रुताम् ।
तत्र चिह्नं प्रदृश्येत अद्यापि हि न संशयः ॥
कपिलायास्सवत्साया दृश्यन्ते कुरुसत्तम ।
विचरन्त्याः पदानि स्युः दृश्यन्ते पश्च कृत्स्नवत् ॥
पदानि तानि संस्पृश्य कपिलाया नराधिप ।
तेषु दृष्टेषु यत्पुंसः पापं तत्संप्रणश्यति ॥
गृध्रेश्वरमाहात्म्यं तत्रैव दर्शितं—
ततो गृध्रनगं गच्छेत् स्थानं देवस्य धीमतः ।
स्नात्वा तु भस्मना तत्र अधिगच्छेन्महेश्वरम् ॥
ब्राह्मणेन भवेच्चीर्णं व्रतं द्वादशवार्षिकम् ।
इतरेषां तु वर्णानां सर्वपापक्षयो भवेत् ॥
इति । गृध्रेश्वरगिरिमाहात्म्यं तत्रैव दर्शितं—
ततो गच्छेत्समं त्वन्नपर्वतं गिरिवारितम् ।
सावित्र्यास्तस्य दृश्यन्ते पदानि भरतर्षभ ॥
तत्र सन्ध्यामुपासीत ब्राह्मणस्संशितव्रतः ।
तेनोपासिता भवति सन्ध्या द्वादशवार्षिकी ॥
धर्मपृष्ठस्य माहात्म्यं तच्च तत्रैव दर्शितम् ।
ततो गच्छेत राजेन्द्र धर्मपृष्ठं समाहितः ॥
यत्र धर्मो महाराज नित्यमास्ते युधांवर ।
तत्राधिगम्य राजेन्द्र हयमेधफलं भवेत् ॥
तीर्थान्तराणां च गयायां प्रसिद्धानां माहात्म्यं दर्शितम्—
ततो विशालामासाद्य नदीं त्रैलोक्यविश्रुताम् ।
148 स्मृ
अग्निष्टोममवाप्नोति स्वर्गलोकं च गच्छति ॥
अथ माहेश्वरं धाम समासाद्य नरश्शुचिः ।
हयमेधमवाप्नोति कुलं चैव समुद्धरेत् ॥
दिवौकसां पुष्करिणीं समासाद्य नरश्शुचिः ।
न दुर्गतिमवाप्नोति विष्णुलोकं च गच्छति ॥
तत्र कोटिस्तु तीर्थानां विश्रुता भरतर्षभ ।
कूर्मरूपेण राजेन्द्र दानवेन दुरात्मना ॥
ह्रियमाणोद्धृता राजन् विष्णुना प्रभविष्णुना ।
तत्राभिषेकं कुर्वीत तीर्थकोट्या युधांवर ॥
पौण्डरीकमवाप्नोति विष्णुलोकं च गच्छति ।
गोप्रचारसमीपस्था आम्रा ब्रह्मप्रकल्पिताः ॥
तैस्सिकैः पुरुषस्येह पितरो मोक्षमाप्नुयुः ।
एको मुनिः कुम्भकराग्रहस्तः
आम्रेषु नित्यं सलिलं ददाति ।
आम्राश्च सिक्ताः पितरश्च तृप्ताः
एका क्रिया द्व्यर्थकरी बभूव ॥
या सा वैतरणी नाम त्रिषु लोकेषु विश्रुता ।
साऽवतीर्णा गयाशीर्षे पितॄणां तारणाय वै ॥
तत्र स्नात्वा महाराज गोदानं यः प्रयच्छति ।
एकविंशतिं वंश्यांस्तान् तारयेन्नात्र संशयः ॥
तत्र धेनुप्रदानेन पितरो मोक्षमाप्नुयुः ।
इति । पौण्डरीकं पौण्डरीकाख्ययज्ञफलम् । ब्रह्मकैवर्तेऽपि—
ब्रह्महा च कृतघ्नश्च गोघाती पञ्चपातकी ।
सर्वे निष्कृतिमायान्ति गयायां पिण्डपातनात् ॥
ब्रह्मघ्नश्च सुरापश्च बालवृद्धगुरुद्रुहः ।
नाशमायाति वै पापं गयायामनुयाति यः ॥
आत्मजत्वमवाप्तस्तु गयाकूले यथातथा ।
यन्नाम्ना पातयेत्पिण्डं तं नयेद्ब्रह्म शाश्वतम् ॥
इति ।
मकरे वर्तमाने तु ग्रहणे चन्द्रसूर्ययोः ।
दुर्लभं त्रिषु लोकेषु गयायां पिण्डपातनम् ॥
ब्रह्मणा सह शाश्वतं ब्रह्मप्राप्त्यापादकं ब्रह्मलोकं नयेदित्यर्थः ।
व्यासोपि—
गयां गत्वा तु यः कश्चित्पितॄन् संतर्पयेन्नरः ।
दश पूर्वापरान् वंश्यानात्मानं च पुनाति सः ॥
पुराणान्तरे—
स्नानं देहपरित्यागो गङ्गायां तु विशिष्यते ।
श्राद्धं पिण्डप्रदानं च गयायां तु विशिष्यते ॥
ब्रह्मज्ञानं गयाश्राद्धं गोगृहे मरणं तथा ।
वासः पुंसां कुरुक्षेत्रे मुक्तिरुक्ता चतुर्विधा ॥
गयाशीर्षे वसेन्नित्यं स्नानं फल्गौ समाचरेत् ।
गयाशीर्षे सदा पिण्डमेतत्स्वर्गेऽपि दुर्लभम् ॥
150 स्मृ न्द्रिकायां
फल्गुतीर्थे नरस्नात्वा देवं दृष्ट्वा गदाधरम् ।
गयाशिरः परिक्रम्य मुच्यते ब्रह्महत्यया ॥
गयायां पितृरूपेण स्वयमेव जनार्दनः ।
तं दृष्ट्वा पुण्डरीकाक्षं मुच्यते च ऋणत्रयात् ।
येनाक्रान्तं सकृदपि धर्मपृष्ठं गयाशिरः ॥
नश्यति ब्रह्महत्यादि पातकं नात्र संशयः ।
त्रिर्दत्पृथिवीं कृत्स्नां न मुच्येतपैतृकादृणात् ॥
यावच्छ्राद्धं न वै पुत्रः कुर्याद्गत्वा गयाशिरः ।
गयायां धर्मपृष्ठे च सदसि ब्रह्मणस्तथा ॥
गयाशीर्षे पदे चैव पितॄणां दत्तमक्षयम् ।
शमीपत्रप्रमाणेण पिण्डं दद्याद्गयाशिरे ॥
नरकस्था दिवं यान्ति स्वर्गस्था मोक्षमाप्नुयुः ।
इति । शमीपत्रग्रहणं स्ववित्तानुसारेण पिण्डदानमावश्यकमिति
ज्ञापनाथं, अत एवोक्तं तत्रैव—
वित्तशाठ्यं न कुर्वीत गयां प्राप्य सदा नरः ।
वित्तशाठ्यं च कुर्वाणो न तीर्थफलभाग्भवेत् ॥
अतो वित्तानुसारेण शरीरबलानुसारेण च गयाश्राद्धं कार्यम् ।
एतदपि तत्रैवोक्तम्—
अतो निर्वर्तयेच्छ्राद्धं यथाशक्ति यथाबलम् ।
कामान् स लभते दिव्यान् स्वर्गद्वारं तु तत्स्मृतम् ॥
[Page 151]
श्राद्धकाण्डे काम्यश्राद्धदेशाः 151
ति। तेन सति सम्भवे सवर्णादिभ्योऽपि कृपया पिण्डदाना-
दिकं देयं एतदपि तत्रैवोक्तम्—
सवर्णा ज्ञातयो ये च बान्धवास्सुहृदश्च ये।
तेभ्यो भूप गयाभूमौ पिण्डा देया विधानतः॥
दौहित्रेभ्यश्च पुत्रेभ्यः कनिष्ठेभ्योपि सर्वशः।
ये मृताश्चान्यजन्मानः पिण्डांस्तेभ्यो विनिर्वपेत्॥
तेऽपि यान्ति दिवं सर्वे पिण्डे दत्त इति श्रुतिः।
वर्णादीनां गोत्रादीनाम ज्ञाने तु तेषां पिण्डदानमन्त्रोपि तत्रैव
र्शितः—
पितृवंशसमुत्पन्ना मातृवंश्यास्तथैव च।
गुरुश्वशुरबन्धूनां ये चान्ये मानवा द्विजाः॥
ये मे कुले लुप्तपिण्डाः पुत्रदारविवर्जिताः।
विरूपा आमगर्भाश्च ज्ञाताज्ञातास्तथैव च॥
क्रियालोपगता ये च ये चान्ये गर्भसंस्थिताः।
तेभ्यो दत्तो मया पिण्डो ह्यक्षय्यमुपतिष्ठताम्॥
ामगर्भा अपक्वगर्भा अपूर्णगर्भा इति यावत्। सवर्णादिभ्यः
ण्डदानवदात्मार्थमपि तिलरहितं पिण्डं जनार्दनदेवसंनिधौ नि
पदव्यस्थापनवनिर्वपेत्। एतदपि तत्रैवोक्तम्—
आत्मनस्तु महाबुद्धे गयायां तु तिलैर्विना।
पिण्डनिर्वापणं कार्यं मृतानां तु तिलैस्सह॥
ते। गयायां यत्रयत्र श्राद्धादिकं क्रियते तत्रतत्रत्याएव
152 स्मृतिचन्द्रिकायां
विप्राः जातिमात्रोपजीविनोपि ब्राह्मणार्थे परिग्राह्याः । तथाच
पुराणान्तरं—
यदि पुत्रो गयां गच्छेत् कदाचित्कालपर्ययात् ।
तानेव भोजयेद्विप्रान् ब्राह्मणा ये प्रकल्पिताः ॥
एषां ब्रह्मसमं स्थानं सोमपानं तथैव च !
ब्रह्मकारितसंस्थाना विप्रा ब्रह्मसमास्मृताः ॥
अमानुषा गयाविप्रा ब्राह्मणा ये प्रकल्पिताः ।
तेषु तुष्टेषु संतुष्टाः पितृभिस्सह देवताः ॥
पितृरूपान् गयाविप्रान् पूजयित्वा समाहितः ॥
सर्वपापविशुद्धात्मा स्वर्गलोके महीयते ॥
तेषां च हस्तदत्तं वै गयायां च विशेषतः ।
तदक्षयं भवेत्तस्य पितॄणां नात्र संशयः ॥
न विचार्यं कुलं शीलं विद्या च तप एव च ।
पूजितैस्तैस्तु सन्तुष्टाः देवास्सपितृगुह्यकाः ॥
इति । 'यदि पुत्रो गयां गच्छेत्' इत्यत्र पुत्रग्रहणं पौत्रादीनां
पित्रादिगतश्रेयस्कामानां सर्वेषां गयागन्तॄणामुपलक्षणार्थं अत
एव ब्रह्मकैवर्ते—
उद्यतस्तु गयां गन्तुं श्राद्धं कृत्वा विधानतः ।
विधाय कर्मशेषं च ग्रामं कृत्वा प्रदक्षिणम् ॥
ततो ग्रामान्तरं गच्छेच्छ्राद्धशेषान्नभुङ्नरः ।
ततः प्रतिदिनं गच्छेत्प्रतिग्रहविवर्जितः ॥
श्राद्धकाण्डे काम्यश्राद्धदेशाः 15
इति सामान्येनैवोक्तम् । अत एव महाभारते व्यासेनापि सा-
मान्येनैवोक्तं—
गृहे श्राद्धं प्रकुर्वीत सम्यक्सङ्कल्प्य बुद्धिमान् ।
पितृतीर्थं समुद्दिश्य सङ्कल्प्य पितृसन्निधौ ॥
प्रतिग्रहं परान्नं च कालिं चैव द्विजोत्तमः ।
इति । पितृसन्निधौ पित्रर्थं निमन्त्रितब्राह्मणसन्निधौ पितृतीर्थं
समुद्दिश्य गयायात्रार्थं श्राद्धं करिष्ये इति सम्यग्भक्तिपूर्वकं
सङ्कल्प्य स्वगृहे यात्रार्थं श्राद्धं कुर्यादित्यर्थः । कालिः कलहः
वर्ज्यान्तरमपि तेनैवोक्तम्—
केशश्मश्रुनखादीनां वपनं न च शस्यते ।
अतो न कार्यं वपनं गयाश्राद्धार्थिना सदा ॥
इति । एवं गयायात्रां कुर्वतः फलमपि तत्रैवोक्तम्--
ये भारतेऽस्मिन् पितृकर्मतत्पराः
सन्धार्थ केशानतिभक्तिनम्राः ।
ऋणक्षयार्थं पितृतीर्थमागताः
तेषामृणं संक्षयमेष्यति ध्रुवम् ॥
इति । भारते भारतवर्षे ऋणक्षयार्थं देवर्षिपितृऋणक्षयार्थं
पितृतीर्थं गया ॥
इति स्मृतिचन्द्रिकायां काम्यश्राद्धदेशाः
Smriti Cha.—Vol. V. 20
154 स्मृतिचन्द्रिकायां
श्राद्धे भोजनीयब्राह्मणनिरूपणम्.
तत्र मनुः—
तत्र ये भोजनीयास्स्युर्यै च वर्ज्या द्विजोत्तमाः ।
यावन्तश्चैव यैश्चान्नंस्तान् प्रवक्ष्याम्यशेषतः ॥
तत्र श्राद्धकर्मणीत्यर्थः । द्विजोत्तमाः द्विजेषु त्रैवार्णिकेषूत्तमाः ब्रा-
ह्मणा इति यावत् । भोजनीयानभोजनीयांश्च ब्राह्मणान्
वेत्तुं गुणदोषादिपरीक्षणं कार्यमित्याह स एव—
दूरादेव परीक्षेत ब्राह्मणं वेदपारगम् ।
इति । भोजनीयब्राह्मणस्य प्रपितामहादारभ्य भोजनीयपर्यन्तं
परीक्षा दूरात्परीक्षा । वेदपारगग्रहणमुपादेयगुणानामुपलक्षणा-
र्थम् । अत एव छागलेयः—
उक्तलक्षणसंयुक्तैः विद्याशीलगुणान्वितैः ।
पुरुषत्रयविख्यातैस्सर्वं श्राद्धं प्रकल्पयेत् ॥
उक्तलक्षणैर्विप्रैस्सर्वं पार्वणाभ्युदयिकादिश्राद्धं प्रकल्पयेन्निर्वर्त-
येदित्यर्थः । पुराणेऽपि—
जातकर्मादिभिर्यस्तु संस्कारैस्संस्कृतश्शुचिः ।
वेदाध्ययनसम्पन्नष्षट्सु कर्मस्ववस्थितः ॥
शौचाचारे स्थितस्सम्यक् विघसाशी गुरुप्रियः ।
नित्यं व्रती सत्यपरः स वै ब्राह्मण उच्यते ॥
तपश्श्रुतं च योनिश्चाप्येतद्ब्राह्मण्यकारणम् ।
सत्यं दानं तपो द्रोहमानृशंस्यं क्षमा घृणा ॥
श्राद्धकाण्ड भाजनीयब्राह्मणनिरूपणम् 155
तपश्च दृश्यते यत्र स ब्राह्मण इति स्मृतः ।
इति । षट्सु यजनयाजनाध्ययनाध्यापनदानप्रतिग्रहात्मकेषु ।
विघसो यज्ञशेषः । अतिथिप्रभृतिभिः भुक्तशेषश्च । योनिरन्वयशुद्धिः।
आनृशंस्यं अक्रूरता । हारीतोपि—कुलीनाःश्रुतशीलवन्तो वृत्त-
स्थाः सत्यवादिनोऽव्यङ्गाः पाङ्क्तेयाः' इति । स्वयमेव कुला-
दीन् विवृणोति—स्थितिः अविच्छिन्नवेदवोदिता अयोनिसं-
कारित्वं आर्षेयत्वं चेति कुलगुणाः । वेदा अङ्गानि धर्मोऽध्या-
त्मं विज्ञानं स्मृतिश्चेति षड्विधं श्रुतम् । ब्रह्मण्यता देवपितृभ-
क्तता समता सौम्यता अपरोपतापिता अनसूयता अनुद्धतता
अपारुष्यं मित्रता प्रियवादित्वं कृतज्ञता शरण्यता प्रशान्ति-
श्चेति त्रयोदशविधं शीलम् । क्षमा दया दमो दानं अहिंसा
गुरुपूजनं शौचं स्नानं जपो होमः तपः स्वाध्यायस्सत्यवचनं
सन्तोषो दृढव्रतत्वं उपव्रतत्वमिति षोडशगुणं वृत्तमिति । स्थितिः
संततिरूपेण च कालस्थितिः । अविच्छिन्नवेदवेदितेत्यत्र वेदि-
शब्देन हविरासादनार्थदेशविशेषवाचिना हविस्साध्यो याग
उपलक्ष्यते । एतदुक्तं भवति—पूर्वपुरुषेष्वपि वेदाध्ययनयागा-
नुष्ठानयोः सत्ता कुलगुणा इति । आर्षेयत्वं स्वीयप्रवरागतऋषि-
जातत्वम् । धर्मो धर्मशास्त्रम् । विज्ञानं वैशेषिकादिशास्त्रज्ञानम् ।
स्मृतिः वेदादीनामविस्मरणम् । उपव्रतत्वं दशम्यादावेकभक्त-
निष्ठत्वम् । विष्णुरपि—
156 स्मृतिचन्द्रिकायां
ये क्षान्तदान्ताः श्रुतिपूर्णकण्ठाः
जितेन्द्रियाः प्राणिवधे निवृत्ताः ।
प्रतिग्रहे सङ्कुचिताग्रहस्ताः
ते ब्राह्मणास्तारयितुं समर्थाः ॥
इति । मत्स्यपुराणेऽपि—
अर्थज्ञो वेदवित्सत्री ज्ञातवंशः कुलान्वितः ।
पुराणवेत्ता सर्वज्ञः स्वाध्यायजपतत्परः ॥
शिवभक्तः पितृपरः सूर्यभक्तोऽथ वैष्णवः ।
ब्रह्मण्यो योगविच्छान्तो विजितात्माऽथ शीलवान् ॥
इति । श्राद्धे नियोजनीया इति शेषः । मनुरपि—
गायत्रीमात्रसारोपि वरं विप्रस्सुयन्त्रितः ।
नायन्त्रितश्चतुर्वेदी सर्वाशी सर्वविक्रयी ॥
मत्स्योपि—
गायत्रीजप्यनिरतं हव्यकव्ये नियोजयेत् ॥
पापं तिष्ठति नो तस्मिन्नब्बिन्दुरिव पुष्करे ॥
व्यासोपि—
चीर्णव्रता गुणैर्युक्ता भवेयुर्ये च कर्षकाः ।
सावित्रीज्ञाः क्रियावन्तः ते राजन् केतनक्षमाः ॥
सावित्रीं तु जपेद्यस्तु द्विकालं भरतर्षभ ।
भैक्षवृत्तिः क्रियावांश्च स राजन् केतनक्षमः ॥
केतनं निमन्त्रणम् । क्षमो योग्यः । यमोपि—
श्राद्धकाण्डे भोजनीयब्राह्मणनिरूपणम्
पूर्वमेव परीक्षेत ब्राह्मणान् वेदपारगान् ।
शरीरप्रभवैर्दोषैर्विशुद्धांश्चरितव्रतान् ॥
पूर्वमेव निमन्त्रणात्प्रागेवेत्यर्थः । चरितव्रतान् स्नातकान् ।
तथा च स एव—
गृहस्थो ब्रह्मचारी च यजुर्वेदविदेव च ।
वेदविद्याव्रतस्नातः ब्राह्मणः पङ्क्तिपावनः ॥
चशब्दाद्यतिरप्युक्तः । उक्तं च साक्षाद्वासिष्ठेन—
‘यतीन् गृहस्थान् साधून्वा’ इति । भोजयेदिति शेषः । ब्रह्माण्ड-
पुराणेऽपि—
शिखिभ्यो धातुरक्तेभ्यः त्रिदण्डिभ्यश्च दापयेत् ।
इति । शिखिनो ब्रह्मचारिणः । धातुरक्ता धातुरक्तवस्त्रधारिणः
वानप्रस्थाः । अत्र परः परश्श्रेष्ठः । अत एव नारदः—
यो वै यतीननादृत्य भोजयेदितरान् द्विजान् ।
विजानन् वसतो ग्रामे कव्यं तद्याति राक्षसान् ॥
ग्रामे स्वग्रामे वसतो यतीन् जानन्नपि ताननादृत्येतरान्
द्विजान् वानप्रस्थादीन् यो भोजयेत्, तत्तदीयं कव्यं पित्र-
र्थं सङ्कल्पितं अन्नादिकं राक्षसानेव गच्छतीत्यर्थः । तेन सति
सम्भवे यतीन् भोजयेत् । तेषामभावे वानप्रस्थान्, तेषाम-
भावे ब्रह्मचारिणः, तेषामभावे गृहस्थानिति मन्तव्यम् । अत
एव ब्रह्माण्डपुराणे—
158 स्मृतिचन्द्रिकायां
अलाभे ध्यानिभिक्षूणां भोजयेद्ब्रह्मचारिणम् ।
तदलाभे ह्युदासीनं गृहस्थमपि भोजयेत् ॥
ध्यानमस्यास्तीति ध्यानी वानप्रस्थः । भिक्षुर्यतिः । उदासीनो
दातुरसंबन्धी । तथाचापस्तम्बः—
‘ब्राह्मणान् भोजयेत् ब्रह्मविदः योनिगोत्रमन्त्रान्तेवास्य-
सम्बन्धान्’ इति । योनिसम्बन्धा मातुलादयः, गोत्रसम्बन्धाः
सपिण्डादयः, मन्त्रसम्बन्धा वेदाध्यापकादयः, अन्तेवासिस-
म्बन्धाः शिष्यशास्त्रोपाध्यायादयः । एवंविधसम्बन्धव्यतिरि-
क्तान् ब्राह्मणान् गृहस्थान् भोजयेत् । ब्रह्मज्ञान् ब्राह्मणान् ।
यत्नेन भोजयेदित्यर्थः । तथा च पितृगाथा—
अपि स्यात् स कुले जन्तुः भोजयेद्यस्तु योगिनम् ।
विप्रं श्राद्धे प्रयत्नेन तेन तृप्यामहे वयम् ॥
प्रयत्नेन भोजयेदित्यनेन अत्यन्तश्रैष्ठ्यं योगिन उक्तम् । उक्तं च
सुस्पष्टं पुराणे—
गृहस्थानां सहस्रेण वानप्रस्थशतेन च ।
ब्रह्मचारिसहस्रेण यो योगी स विशिष्यते ॥
पद्मपुराणेऽपि—
साङ्गान् यश्चतुरो वेदानधीते संस्कुतोऽर्थवित् ।
जन्मवाक्कर्मसंशुद्धः स श्राद्धे प्रथमो मतः ॥
तादृशादयुताच्छ्रेयान्नरो योगं समाश्रितः ।
श्राद्धकाण्डे भोजनीयब्राह्मणनिरूपणम् 159
वृद्धशातातपोऽपि—
योगिनं भोजयेन्नित्यं दृष्टतत्त्वं मनीषिणम् ।
तेषां तु दत्तमक्षय्यं भवतीति न संशयः ॥
यत्तूशनसोक्तम्—
यथाकथंचिदपि यो योगधर्मं समाश्रितः ।
सम्यग्वर्णाश्रमास्तेभ्यः तत्पात्रं परमं विदुः ॥
ये सम्यग्वर्णाश्रमाचाराः तेभ्यस्तत्पूर्वार्धेनोक्तं परमं पात्रमित्यर्थः ।
एतद्योगिनां प्रशंसामात्रं, शातातपेन 'दृष्टतत्त्वं मनीषिणम्' इति
विशेषितत्वात्।
ये तु वृत्ते स्थिता नित्यं ज्ञानिनो ध्यानिनस्तथा ।
इति ब्रह्माण्डपुराणे वृत्तस्थानामेव ज्ञानिनां ध्यानिनां च
भोजनीयत्वाभिधानाच्च । आत्मादिस्वरूपपरिच्छित्तिः ज्ञानम् ।
ध्यानं तु विजातीयप्रत्ययतिरस्कारेणात्मादेस्स्वरूपसाक्षात्कार-
णम् । एवञ्च यदुक्तं वृद्धशातातपेन—
ज्ञानी यस्य गृहेऽश्नाति उदकं वा पिबेद्यदि ।
कृतं तेनेह यत्कृत्यं तारितं च कुलत्रयम् ॥
योगिनं समतिक्रम्य गृहस्थं यदि भोजयेत् ।
न तत्फलमवाप्नोति स्वर्गस्थमपि पातयेत् ॥
योगिनं तु व्यतिक्रम्य पूजयन्ति परस्परम् ।
भोक्तारस्त्वथ दातारो नरके स्युस्सबान्धवाः ॥
इत्येतत्सर्वं वृत्तस्थदृष्टतत्त्वयोगिविषयमिति मन्तव्यम् । तत्र मनुः—
160
एषामन्यतमो यस्य भुञ्जीत श्राद्धमर्चितः ।
पितॄणां तस्य तृप्तिस्स्याच्छाश्वती साप्तपौरुषी ॥
एष वै प्रथमः कल्पः प्रदाने हव्यकव्ययोः ।
अनुकल्पस्त्वयं ज्ञेयः सदा सद्भिरनुष्ठितः ॥
मातामहं मातुलं च स्वस्त्रीयं श्वशुरं गुरुम् ।
दौहित्रं विट्पतिं बन्धुं ऋत्विग्याज्यौ च भोजयेत् ॥
इति । एषां पूर्वोक्तानां वेदपारगादीनां एषः भिन्नो विप्रव-
र्गः प्रथमः श्रेष्ठः । अनुकल्पः प्रथमकल्पादधमकल्पः । 'मुख्य
स्यात्प्रथमः कल्पोऽनुकल्पस्तु ततोऽधमः' इत्यमरसिंहाभिधानात् ।
अयं 'मातामहं मातुलं च' इत्यादिना वक्ष्यमाणः अधमः कल्पः
सदा सद्भिरनुष्ठित इत्यर्थः । गुरुरत्र विद्यागुरुः, न तु पिता ।
विट्पतिः जामाता अतिथिर्वा, अतिथिरित्यन्ये वदन्तीति देव-
स्वामिनाऽभिधानात् । प्रथमकल्पलाभेऽनुकल्पानुष्ठाने तु दोषमाह
स एव—
प्रभुः प्रथमकल्पस्य योऽनुकल्पेन वर्तते ।
न सांपरायिकं तस्य दुर्मतेर्विद्यते फलम् ॥
प्रभुः संपादने समर्थः । साम्पराय उत्तरकालः । 'युद्धायत्योः
साम्परायः ' इत्यमरसिंहाभिधानात् । एवञ्चायमर्थः—साम्पराये
भविष्यत्काले स्वर्गादिकं फलं न विद्यते न सिद्ध्यति । विष्णु-
पुराणेऽप्यनुकल्प उक्तः—
पितृव्यगुरुदौहित्रान् ऋत्विक्स्वस्त्रीयमातुलान् ।
पूजयेद्धव्यकव्येन वृद्धाननतिबान्धवान् ॥
161
स्वस्रीयो भागिनेयः। अत्र पितृव्यमृत्विजं च हव्येन पूजयेत्।
गुरुदौहित्रादीतरान् कव्येनेति सम्बन्धः कार्यः। 'षड्भ्यस्तु पुरुषे-
भ्योऽर्वाक्श्राद्धेयास्तु गोत्रिणः' इति षड्भ्योऽर्वाचीनस्य पितृ-
व्यादेः कव्येन पूजनस्यात्रिणा निषेधात्, तथा—
पिता पितामहो भ्राता पुत्रो वाऽथ सपिण्डकः।
न परस्परमर्घ्यास्स्युर्न श्राद्धे ऋत्विजस्तथा॥
ऋत्विक्पुत्रादयो ह्येते सकुल्या ब्राह्मणा द्विजाः।
वैश्वदेवे नियोक्तव्याः यद्येते गुणवत्तराः॥
इति हव्येन पूजनीयत्वस्य तेनैव विधानाच्च। यद्याम-
न्त्रयीतेत्यनुवृत्तौ कात्यायनेनोक्तम्—'अभावे शिष्यान् स्वाचा-
र्यान्' इति। अत्रापि वैश्वदेवार्थमिति शेषो द्रष्टव्यः। 'गुण-
वदलाभे सोदर्योपि भोजयितव्यः' इत्यभिधायानन्तरं 'एतेनान्ते-
वासिनो व्याख्याताः' इत्यापस्तम्बेनाभिधानात्। सोदर्योपि
वैश्वदेवस्थाने भोजयितव्यो न पुनः पित्रादिब्राह्मणस्थान
इति हि प्राक्प्रतिपादितम्। तेन अन्तेवासिनामपि तत्स्थान
एव निषेधः। यत्तु पङ्क्तिपावानानुक्त्वा बोधायनेनोक्तं 'तदभावे रहस्यं
ऋचो यजूंषि सामानि श्राद्धमहिमानः तस्मादेवंविदं सपि-
ण्डमप्याशयेत्' इति, तदप्यात्रेयवचनानुरोधाय षड्भ्यः पुरुषे
भ्योऽर्वाचीनसपिण्डविषयं न भवति, किन्तु समानोदकविषयं,
सपिण्डशब्दस्य समानोदकेऽप्युपचारेण प्रयोगसम्भवात्। अ-
त्रिणा तु स्पष्टमुक्तं—
Smriti Cha.—Vol. V 21