सामग्री पर जाएँ
सर्वकोश
षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)

षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)

Shadvimsha Brahmana of the Samaveda with Commentary

सामवेदीय वैदिक ऋषि मण्डल द्वारा

DevanagariSanskritpublished226 पृष्ठ

पृष्ठ 209, कुल 226 में से

संदर्भ में पढ़ें
पृष्ठ 209

सप्तमः खण्डः
अथ अग्निदेवताकनिमित्तविशेषे होमविशेषं दर्शयितुं तदर्थमपि नियमं
दर्शयति—
स पृथिवीमन्वावर्तते ॥ १ ॥
स निमित्तविशेषवान् पृथिवीमन्वीक्ष्यावर्तते होमार्थं प्रवर्तते ।
वक्ष्यमाणनिमित्तानां पृथिव्याश्चाग्नेयत्वाविशेषात् ॥ १ ॥
इदानीं निमित्तविशेषान् दर्शयति—
अथ यदास्य पृथिवी तटति, स्फुटति, कूजति,
कम्पति, ज्वलति, रुदति, धूमायति, अकस्मात्सलिलमुद्गिरति,
प्लवन्न मज्जति, न निमग्नमुत्प्लवति, अकाले च पुष्पफलमभि-
निर्वर्तत्यश्वतरीगर्भो जायते ; यदा मज्जति हस्तिनी,
भूकम्पो जायते, प्रासादं भिनत्ति यत्र तत्र राजा विनश्यति
गौर्गृहमारोहेद् ग्राममहिषीत्येवमादीनि तान्येतानि
सर्वाण्यग्निदेवत्यान्यद्भुतानि प्रायश्चित्तानि भवन्ति ॥ २ ॥
अथ पुनरस्य संबन्धिनी पृथिवी तटति तटतटेति शब्दं करोति ।
स्फुटति भिद्यते । कूजति शब्दं करोति । कम्पति कम्पते । ज्वलति
2. JM. तदङ्गत्वेनादौ पृथिवीनिरीक्षणपूर्वकमावर्तनं for तदर्थमपि नियमं.
5. J. om. स निमित्त......न्वीक्ष्यावर्तते; JM. om. प्रवर्तते.
10. M. नमग्न for निमग्न ; KI. om. न before निमग्नम् .
11. RIS. निर्वर्तयति for निर्वर्तति; JRI. add इति after निर्वर्तति.
12. MSh Ms. प्रासादा[न्] for प्रासादं.
५० 14