षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)
Shadvimsha Brahmana of the Samaveda with Commentary
सामवेदीय वैदिक ऋषि मण्डल द्वारा
पृष्ठ 197, कुल 226 में से
संदर्भ में पढ़ेंषष्ठोऽध्यायः (१) १९७
कुर्यादित्यर्थः । तथा च सति एषां यजमानानां स्वस्ति अनिष्टपरिहारद्वारेण
मङ्गलं भवत्येव ॥ ५ ॥
स्वस्तिवाचनमन्त्रान् प्रतीकैः दर्शयति—
स्वस्तिदा विशस्पतिः (ऋ. वे. १०.१५२.२)
स्वस्त्ययनं तार्क्ष्यमरिष्टनेमिं (ऋ. वे. खि. २.४.१) त्यमूषु
वाजिनं देवजूतम् (ऋ. वे १०.१७८.१) आयुर्विश्वायुः
(ऋ. वे. १०.१७.४) शतं जीव शरदो वर्धमान (ऋ. वे.
१०.१६१.४) इति ॥ ६ ॥
एते मन्त्रा उत्तरग्रन्थे स्पष्टमस्माभिः व्याख्याताः ॥ ६ ॥
स्वस्तिवाचनमन्त्राणां होमसंभारोपस्थाने विनियोगं दर्शयति—
एतैः संभाराणामुपस्थापनं कृत्वा स्वस्ति वाचयित्वा
स्वस्ति हास्य भवति । स्वस्ति हास्य भवति ॥ ७ ॥
एतैः स्वस्तिदाविशस्पतिरित्याद्यैर्मन्त्रैः संभाराणामुपस्थानं कृत्वा शेषं
कर्म समापयेदित्यर्थः । तथा च सति अस्य यजमानस्य स्वस्ति मङ्गलं
भवत्येव । द्विरुक्तिरादरार्था । शान्तिप्रशंसार्था च । लिङ्गादन्यत्र विनियुक्ता-
नामप्येषां मन्त्राणां श्रुत्या संभारोपस्थाने विनियोगः । यथा ऐन्द्रया
गार्हपत्यमुपतिष्ठते (?) इति श्रुत्या ऐन्द्रया ऋचो गार्हपत्योपस्थाने
विनियोगः ॥ ७ ॥
इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे षड्विंशब्राह्मणे
षष्ठाध्याये प्रथमः खण्डः ॥ १ ॥
- RI. om. तथा च सति; RI. हैषां for एषां.
- MT. ०वाचने for ०वाचन०; MJT. add. एव after दर्शयति.
- MTI. om. अस्माभिः; M. समाख्याताः for व्याख्याताः.
- M. ०वाचनं for ०वाचन०.
- M. om. स्वस्ति वाचयित्वा.
- अर्थालिङ्गाद् for ०(अ)र्था च । लिङ्गाद्.
- RI. एतेषां for एषां; M. adds एव after श्रुत्या
- RI. add ऐन्द्रयास्तद्वत after विनियोगः.