षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)
Shadvimsha Brahmana of the Samaveda with Commentary
सामवेदीय वैदिक ऋषि मण्डल द्वारा
पृष्ठ 213, कुल 226 में से
संदर्भ में पढ़ेंषष्ठोऽध्यायः (८) २१३
अथ पुनरस्य देशा यदा विवाता वातमात्ररहिता अतिवाता
अतिशयितवाता वायन्ते । अय वय गताविति धातुः । स्वरितेत्
(Cp. पा. १.३.७२) । अग्रेषु च अपरूपणि पर्वतादिषु निर्निमित्तं भ्रंश-
कृतानि विरुद्धानि रूपाणि दृश्यन्ते । तथा अस्य गृहाणि । खरः गर्दभः ।
करभकः क्रमेलकः । मन्थो मृगविशेषः । कङ्कः पक्षिविशेषः । कपोतादयः
प्रसिद्धाः । गोमायुः क्रोष्टा । एतैः प्रविष्टानि दृश्यन्ते । किंच, उपरि
अन्तरिक्षे पांसवो धूलयः । मांसपेशी मांसखण्डः । अस्थिरुधिरे प्रसिद्धे । एतेषां
वर्षाणि प्रवर्तन्ते । तथा काकमिथुनानि काकमैथुनानि दृश्यन्ते । तथा रात्रौ
मणिधनुं इन्द्रधनुः पश्येत् । किं च शशकाः शशाश्च ग्रामं यदा प्रविशन्ति ।
वृक्षाश्च रुधिराणि स्रवन्ति । आकाशे राजकुलं वसति । गन्धर्वनगरादिक-
मवस्थितं दृश्यत इति शेषः । इत्येवमादीनि । तान्येतानि सर्वाणि वायुदेवत्या-
न्यद्भुतानि प्रायश्चित्तानि प्रायश्चित्तनिमित्तानि भवन्ति ॥ २ ॥
- J. यस्य देशोऽधिकभावान्मात्रअधिकाः for अस्य...रहिताः; M. adds
ते after विवाताः ; JM. om. अतिवाताः See CN. - J. adds वर्तन्ते after (अ)यन्ते.
- M. तद्वेषजारूपाणि, I. भेषजापरूपाणि for अग्रेषु च अपरूपणि ;
RJ. निर्निमित्तत्वं, M. निमित्त for निर्निमित्तं ; J. प्राकृतात् for भ्रंशकृतानि. - M. ॰कृतविरूपाणि for ॰कृतानि विरुद्धानि रूपाणि.
- M. करम्भकः for करभकः ; RI. om. करभकः; J. कङ्क॰ for
कङ्कः पक्षिविशेषः ; M. om. कङ्कः पक्षिविशेषः. - RI. गोमायवः क्रोष्टारः for गोमायुः क्रोष्टा ; RI. तथा for किं
च and add स्वस्य गृहस्य वा befor उपरि. - RI. ॰रुधिराणां च for अस्थिरुधिरे प्रसिद्धे । एतेषां.
- M. ॰मिथुनादि च, J. मिथुनानि च for ॰मिथुनानि ; MJ. om.
का कमैथुनानि. - RMI. मणिधनुः for मणिधनुं; J. इन्द्रधनुं for इन्द्रधनुः;
J. om. शशाः ; MIR. सग्रामं for ग्रामं ; RI. transp. यदा before ग्रामं. - J. वृक्षेभ्यः for वृक्षाः ; M. वसन्ति for वसति and om.
न्धर्व...विध्यन्त० (p. २१४. L. १.) - RI. पश्यत० for दृश्यत ; J. अर्थः for शेषः.
- J. om. प्रायश्चित्तानि.
16