षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)
Shadvimsha Brahmana of the Samaveda with Commentary
सामवेदीय वैदिक ऋषि मण्डल द्वारा
पृष्ठ 198, कुल 226 में से
संदर्भ में पढ़ेंद्वितीयः खण्डः
अथ प्रसङ्गाच्छत्रुकृतोपद्रवे प्राप्ते शत्रुविजयार्थं होमविशेषमाख्यायिक-
पुरःसरं दर्शयितुमुपक्रमते
देवाश्च वा असुराश्चैषु लोकेष्वस्पर्धन्त । ते देवाः
प्रजापतिमुपाधावन् । तेभ्य एतां दैवीं शान्तिं
प्रायच्छत् ॥ १ ॥
एषु लोकेषु पृथिव्यादिलोकविषये देवाश्चासुराश्च परस्परम् अस्पर्धन्त ।
असुरेभ्यः स्पर्धमाना देवाः प्रजापतिमुपाधावन् । ततः प्रजापतिस्तेभ्य
उपसन्नेभ्यो देवेभ्य एतां वक्ष्यमाणां दैवीं देवसंबंधिनीं शान्तिं शत्रुकृतोपद्रव-
निर्हरणसाधनभूतां प्रायच्छदिति ॥ १ ॥
ततः किमित्यत्राह—
ते ततः शान्तीका असुरानभ्यजयंस्ततो देवा
अभवन् । परासुरा भवत्यात्मना परास्य भ्रातृव्यो भवति ।
य एवं वेद ॥ २ ॥
ततः अनन्तरं ते देवाः शान्तीकाः । प्रहरणार्थे शक्तियष्ट्योरीकक्
(पा. ४.४.५९) इति विहित ईकक्प्रत्ययो बाहुलकाच्छान्तेरपि भवति ।
तेन प्रजापतिदर्शितशान्तिहोमायुधाः सन्तः असुरानभ्यजयन् ।
- J. अतः सप्रशंसं for अथ प्रसङ्गात् ; T. प्रशंसना for प्रसङ्गात् .
- M. om. एषु...देवसंबन्धिनीं (L.9.) ; RI. om. परस्परम् .
- MT. एते अतः for ते ततः; MTSh. शान्तिका for शान्तीका.
- JMT. अतः for ततः ; J. एव, MT. एते for ते ; RJMT.
शान्तिकाः for शान्तीकाः. - T. ०युधकाः for ०युधाः ; RI. om. असुरानभ्यजयन् ; T.
०जयन्त for ०जयन् .