षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)
Shadvimsha Brahmana of the Samaveda with Commentary
सामवेदीय वैदिक ऋषि मण्डल द्वारा
पृष्ठ 199, कुल 226 में से
संदर्भ में पढ़ेंततो देवाः शत्रुकृतोपद्रवरहिता अभवन् । असुरास्तु पराभूता आसन् ।
किं च, य एवमुक्तप्रकारेण वेद तस्यास्य भ्रातृव्यः शत्रुः आत्मना स्वेनैव
परामवति ॥ २ ॥
यदर्थमाख्यायिका दर्शिता तं होमं सेतिकर्तव्यताकं दर्शयति—
अथ पूर्वाह्ण एव प्रातराहुतिं हुत्वा दर्भाञ्छमीं
वीरणान् दधि सर्पिः सर्षपान् फलवतीमपामार्गं शिरीष-
मित्येतान्याहरेदाहारयेद्वा स्नातः प्रयतः शुचिः शुचि-
वासाः स्थण्डिलमुपलिप्य प्रोक्ष्य लक्षणमुल्लिख्याद्भिरभ्यु-
क्ष्याग्निमुपसमाधाय नित्यतन्त्रेणौदनकृसरयवागूरक्तपायस-
दधिक्षीरघृतपायसघृतमिति घृतोत्तराः पृथक् चरवः सर्वे ।
सर्वेषां वा पायसः ॥ ३ ॥
अथशब्दो वाक्योपक्रमे । पूर्वाह्ण एव प्रातः [आहुतिं] नैत्यका-
ग्निहोत्रहोमं हुत्वा वीरणान् तत्संज्ञकान् तृणविशेषान् । फलवतीं
प्रियङ्गुम् । अन्यत् प्रसिद्धम् । इत्येतानि दर्भादीनि संभारद्रव्याणि स्वयमेव
आहरेद् यजमानः । पुत्रादिना वा आहारयेत् । आहृत्य च तानि स्नातः
प्रयतः वाग्यतः शुचिः सन् शुद्धवासाः नित्यतन्त्रेण नैत्यकेन तन्त्रेण
स्थण्डिलमुपलिप्य गोमयेन । तत्स्थण्डिलम् अद्भिः प्रोक्ष्य । लक्षणं
स्वशाखोक्तविधिमनतिक्रम्य दर्भैः स्थण्डिलम् उलिख्य पुनरद्भिः अभ्युक्ष्य
- RIT ते for ततो.
- J. om. तस्य.
- J. om. प्रातः ; TKM. नित्यकर्म for नैत्यक.
- JMT. ०होत्रं for ०होत्रहोमं ; J. ०संज्ञान् for संज्ञकान् ; Rl.
फलवती for फलवतीं. - RI. प्रियङ्गुः, J. प्रियङ्गुकां for प्रियङ्गुं ; J. अपामार्गं for अन्यत्.
- KI. शुक्लवाससा for शुद्धवासाः ; J. om. नैत्यकेन तन्त्रेण.
- J. om. लक्षणं.
- RMI. om. अद्भिः; M. प्रोक्ष्य for अभ्युक्ष्य.