षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)
Shadvimsha Brahmana of the Samaveda with Commentary
सामवेदीय वैदिक ऋषि मण्डल द्वारा
पृष्ठ 208, कुल 226 में से
संदर्भ में पढ़ेंविद्धिषन्ति । अथवा, अरिष्टानि दुःखसूचकानि । वयांसि काकादीनि
स्वगृहमध्यासते । वाल्मीकभौमानि भूमौ भवानि प्राणिजातानि जायन्ते ।
प्रादुर्भवन्ति । अथवा छात्राकं सिलिम्रह उपदृश्यते । अथवा मधूनि सरघा
वाभिनिलीयन्ते स्वगृहे । एवमादीनि तान्येतानि सर्वाणि अन्यान्यपि
अद्भुतानि वैश्रवणदेवत्यानि कौबेराणि प्रायश्चित्तानि प्रायश्चित्तनिमित्तानि
भवन्ति ॥ २ ॥
अथ तद्धेतुकदोषनिर्हरणसाधनं होमविशेषं सेतिकर्तव्यताकं
दर्शयति—
अभित्यं देवम् (सा. ४६४) इति स्थालीपाकं
हुत्वा पञ्चभिराज्याहुतिभिरभिजुहोति । वैश्रवणाय स्वाहा,
यक्षाधिपतये स्वाहा, हिरण्यपाणये स्वाहा, ईश्वराय स्वाहा,
सर्वपापशमनाय स्वाहा इति व्याहृतिभिर्हुत्वाथ साम
गायेत् ॥ ३ ॥
अ॒भि³ त्यं²उ देवँ॑³ ¹ सवितारमोण्योः² ³ १२ ३क कविक्रतुमर्चामि²र ³ १२ ३ सत्यसवँ¹ २ ३ १२
रत्नधाम॒भि³ २ ३ प्रियं² म॒तिम्³ २ । ऊ॒र्ध्वा³ यस्याम॑तिर्भा²उ ³ २ ३ १ अदिद्युतत्सवीमनि६र ३ १ ५ ३
हिरण्यपाणिरममीत¹ ३ सुक्रतुः³ १२ ३ १ कृपा स्वः² ॥ (सा. ४६४) इत्येषा ऋक् ।
अन्यत् पूर्ववद्व्याख्येयम् ॥ ३ ॥
इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे षड्विंशब्राह्मणे
षष्ठाध्याये षष्ठः खण्डः ॥ ६ ॥
- M. अध्यासन्ने for अध्यासन्ते; JM. add: गृहे after अध्यासन्ते.
- J. छिलिहिन्दः गृहजं, R. सिलिग्रहः M. सिलिकं for सिलिम्रहः;
उपदृश्यते See CN. - for तान्येतानि सर्वाणि अन्यानि JM. subst: अन्यान्यपि सर्वाणि.
- for निर्हरण० J. subst: ०निबर्हण० ; J. होमं, M. स्तोमं for होमविशेषं.
- JM. आज्याहुती: for आज्याहुतिभि:.