षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)
Shadvimsha Brahmana of the Samaveda with Commentary
सामवेदीय वैदिक ऋषि मण्डल द्वारा
पृष्ठ 210, कुल 226 में से
संदर्भ में पढ़ें२१० षड्विंशब्राह्मणम्
अग्न्यादिसंबन्धं विनैव। रुदति रोदिति। धूमायति अग्निं विनैव धूमप्रचुरो
भवति। अकस्मात्सलिलमुद्गिरति वृष्टिं विनैव। तथा सलिले प्रक्षिप्तः पाषाणः
प्लवन्न मज्जति प्लवमान एव तिष्ठति, न तु मज्जति। निमग्नं मृतशरीरम् उदके
प्रक्षिप्तं नोत्प्लवति, किं तु निमज्जति। किं च, अकाले पुष्पं च फलं च
पुष्पफलम् अभिनिर्वर्तति वृक्षमभितो जायते। तथा अश्वतर्यां गर्भो
जायते। अश्वतर्याः प्रजापतिना आत्तेरतस्कत्वात् गर्भाभावः। तस्मादश्वतरी
अप्रजा। आत्तरेता हि (तां. ब्रा. ६.१.४.) इति श्रुतेः। तथा
यदा यस्मिन् देशे हस्तिनी करिणी मज्जति निर्निमित्तमुदके निमज्जति।
तथा यत्र यस्मिन् देशे भूकम्पो जायते तत्र तदा तद्देशाधिपती राजा
विनश्यति। किं च यदा गौर्गृहमारोहेत् ग्राममहिषी वा। गृहमारोहेद्
इत्यनुषङ्गः। आरण्यकमहिष्या गृहारोहणासंभवाद् ग्राममहिषीति विशेषणम्।
इत्येवमादीनि ग्रामसूकरादेर्गृहारोहणादीनि इत्यादिशब्दार्थः। तान्येतानि सर्वा-
ण्यद्भुतान्यग्निदेवत्यानि प्रायश्चित्तानि प्रायश्चित्तनिमित्तानि भवन्ति॥ २॥
तत्र तद्धेतुदुरितापूर्वनिर्बर्हणसाधनं होमं सेतिकर्तव्यताकं दर्शयति—
अग्निं दूतं वृणीमहे (सा. ३) इति स्थालीपाकं हुत्वा
पञ्चभिराज्याहुतिभिरभिजुहोति। अग्नये स्वाहा, हविष्पतये
- J. om. अग्न्यादि०; R. om. एव.
- JM. transp. सलिलमुद्गिरति after विनैव.
- JM. om. न मज्जति. See CN; M. न नमं for निमग्नं.
- RI. उत्प्लवते for उत्प्लवति; M. adds च after अकाले.
- RI. निर्वर्तयति for निर्वर्तति; J. adds इति after निर्वर्तति;
JM. after तथा add सति; RI. अश्वतरी० for अश्वतर्यां. - R. आक्तेरतस्कत्वात्, JM. अरेतस्कत्वात् for आत्तेरतस्कत्वात्;
R. अश्वतरीयप्रजा, JM. अश्वतरी न जायते for अश्वतरी अप्रजा. - R. आक्तेरेता, J. अरेता, M. आर्तेरेता for आत्तेरेता; RI.
श्रुतिप्रसिद्धः, J. श्रुतिप्रसिद्धिः for श्रुतेः। - J. om. वा। गृहम्.
- M. adds. पूर्ववद् before अनुषङ्गः; J. ०मनुष्य० for ०महिष्या.
- J. om. (आ)देः; M. ०रोहणाद् for रोहणादीनि; RJI. om. इति.
- RMI. ०साधन० for ०साधनं; M. ०कर्तव्यत्वं for ०कर्तव्यताकं.
- JM. ०हुतीः for ०हुतिभिः.