सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)

Shadvimsha Brahmana of the Samaveda with Commentary

सामवेदीय वैदिक ऋषि मण्डल द्वारा

DevanagariSanskritpublished226 पृष्ठ

तृतीयः खण्डः
अथ सर्वयज्ञाव्याप्तानि विज्ञातव्यानि दर्शयितुं प्रथमं प्रातःसवने
विज्ञेयं दर्शयति—
एकच्छन्दः प्रातःसवनं तस्मादेकपात् पुरुषो हरत्यन्यं
प्रत्यन्येन तिष्ठति ॥ १ ॥
प्रातःसवनमेकच्छन्दः एकं गायत्रमेव छन्दो यस्य तत् तथोक्तम् ।
बहिष्पवमानीयानाम् आज्यस्तोत्रीयाणां च ऋचां सर्वांसामपि गायत्रच्छन्दस्कत्वात् ।
तस्मात् तत एव पुरुष एकपाद् भवति । कथमेकपात् पुरुषः ? द्विपाद्धि
सर्वत्र दृश्यते । श्रूयते च द्विपाद्वै पुरुषः (ऐ. ब्रा. ५. २३. २) इति ।
अत[एवम]उक्तम् यद्यपि द्विपात् पुरुषः तथापि पथि गच्छन् अन्यमेकं
पादमन्यत्र पुरोदेशे हरति क्षिपति अन्येनैकेन पादेन भूमौ प्रतितिष्ठति । अत
एकपात् पुरुष इति ॥ १ ॥
अथ माध्यंदिने सवने विज्ञेयं दर्शयति—
त्रिच्छन्दा माध्यंदिनः पवमानस्तस्मात् त्रयोऽधःप्राणाः॥ २ ॥
माध्यंदिनो मध्यंदिनसवनसंबन्धी पवमानः त्रिच्छन्दाः त्रीणि
गायत्रीबृहतीत्रिष्टुबाख्यानि छन्दांसि यस्य सः तथोक्तः । तस्मात् तत एव
2. BK Bh ०यज्ञस्याप्तानि, RJA ०यज्ञस्य for ०यज्ञाव्याप्तानि;
RJA. विज्ञेयानि for विज्ञातव्यानि.
4. M. एकं for एक०.
6. M. om. एकं; M. एकं for एव.
7. BMAK बहिष्पवमानिनाम्, बहिष्पवमानम् for बीहष्पवमानी-
यानाम; Bh A add भवति after सर्वासां; MIS ०च्छन्दस्त्वात्, K. ०छन्दत्वात्
for ०छन्दस्कत्वात् .
10. RB Bh JA add इति after अतः; JA अयुक्तम् for उक्तम्;
RSI. अन्यम् for अग्रम् .
11. Bh (ऐ) कैकेन पादेन for (ए) केन पादेन.
15. Bh MJA माध्यं० for मध्यं०.
16. Bh JA om. तस्मात्...अधः.

पुरुषस्य अधः अवाञ्चः प्राणास्त्रयः । एको मूत्रविसर्जनस्य हेतुः । अपरः
पुरीषविसर्जनस्य । अन्यो रेतोविसर्जनस्य इति । त्रयोऽवाञ्चो रेतस्यो
मूत्र्यः पुरीष्य (ऐ. ब्रा. १. ४. ३.) इति श्रुतेः ॥ २ ॥
तत्रैव विज्ञेयान्तरमाह--
द्वे गायत्र्यां सामनी । तस्माद् द्वयमधरेण प्राणेन
करोति ॥ ३ ॥
माध्यंदिने पवमाने गायत्र्यां गायत्रीछन्दस्कायाम् ऋचि द्वे सामनी
गायत्र्यामहीयवनामधेये क्रियेते । तस्मात् तत एव द्वयं मूत्रविसर्जनं
पुरीषविसर्जनं चेत्येतद् द्वयम् अधरेण अधोवर्तिना प्राणेन करोति पुमान् ।
यद्यपि रेतोविसर्जनं तृतीयमपि कर्म अधरेण प्राणेन करोति तथापि
रेतोमूत्रयोरेकीकरणेन द्वयमधरेण करोतीत्युच्यते ॥ ३ ॥
तत्रैव विज्ञेयान्तरमाह—
द्वे बृहत्यां सामनी । तस्माद् द्वयमुत्तरेण ॥ ४ ॥
बृहत्यां बृहतीछन्दस्कायामृचि द्वे सामनी रौरवयौधाजयनामधेये
क्रियेते । तस्मात् तत एव द्वयं प्राणनमपाननं चेत्येतद् द्वयम् उत्तरेणो-
र्ध्ववर्तिना प्राणेन करोति पुमान् ॥ ४ ॥

  1. T. अथ अर्वाञ्चः for अधः अवाञ्चः; T. adds एव after त्रयः
  2. Bh JA (अ)र्वाञ्चो० for (अ)वाञ्चो०; Bh JA रेतसः मूत्रपुरीषः
    for रेतस्यो...
  3. M. मूत्रीयः for मूत्र्यः.
  4. Bh JA विज्ञाना० for विज्ञेया०.
  5. M. adds करोतीत्युच्यते । after अधरेण.
  6. R Bh J नामनी for ०नामधेये; AM प्राणनमपाननं, Bh.
    प्रीणनमवयाननं for मूत्रविसर्जनं पुरीषविसर्जनं.
  7. Bh A चेत्येव च द्वयमुत्तरेणोध्र्ववर्तिना प्राणं for चेत्येतद् ०...
    करोति; S आसन०, BI आसवन० for अधो०; Bh om. पुमान्.
  8. BI विसर्जनीयं for विसर्जनं M. om. तथापि.
  9. M. एकं सामौशनाख्यं क्रियते for द्वे सामनी...क्रियते.
  10. M. om. तत एव द्वयं...तत एव (p. 21 L. 4) T. प्रीणनम् for
    प्राणनम्.

प्रथमोऽध्यायः (३)
विज्ञेयान्तरमाह—
एकं त्रिष्टुभि साम । तस्मादेकैव नाभिः ॥ ५ ॥
तत्रैव त्रिष्टुभि त्रिष्टुप्छन्दस्कायाम् ऋचि एकं सामौशनाख्यं क्रियते ।
तस्मात् तत एव एकैव नाभिः । नाभिरिव मध्यवर्ती प्राणः । नव वै पुरुषे
प्राणाः । नाभिर्दशमी (तै. ब्रा. १. ३. ७. ४) इति श्रुतेः । स तु एक एव । 5
इतरप्राणवत्तस्य वृत्तिभेदाभावात् ॥ ५ ॥
नाभेः किं कर्मेत्यत्राह—
प्राणानामिव तु विधृतिः ॥ ६ ॥
नाभिस्तु प्राणानामूर्ध्वाधोभागवर्तिनामुभयेषामपि विधृतिर्विधारिका ।
यथा इतरप्राणानां प्राणधारणादन्यत् कर्मास्ति तद्वदस्य कर्मान्तरं नास्ति । 10
किंतु प्राणधारणमेकमेव कर्मेत्यभिप्रायः ॥ ६ ॥
एवं पुरुषविधस्य यज्ञस्य प्रातःसवनं पादस्थानीयम् । प्राणस्थानीयो
माध्यंदिनः पवमानः एत्र इत्यभिहितम् । अथेदानों तत ऊर्ध्वं क्रियमाणानि
चत्वारि स्तोत्रीयाणि किमात्मकानीत्यत्राह—
अथ यदेव तत ऊर्ध्वं तानि पृष्ठानि ॥ ७ ॥ 15
अथ पुनः ततो माध्यंदिनात् पवमानात् ऊर्ध्वं यदेव स्तोत्रं क्रियते ।
यच्छब्देन सर्वस्तोत्राणां सामान्येन निर्देशात् यानि स्तोत्राणि क्रियन्ते इत्यर्थः ।
तानि पृष्ठानि—पृष्ठं मध्यदेहस्य पश्चाद्भागः । तत्स्थानीयानि ॥ ७ ॥
कथमित्यत्राह—
बार्हतान्येकगायत्रीकाणि । तस्माद् बृहत्य एव 20
पर्शवो बृहत्य एव कीकसाः पृष्ठमभिसमायन्ति ॥ ८ ॥ 21

  1. Bh. विज्ञातव्या० for विज्ञेया०
  2. Bh JA om. नाभिरिव; MT. add नाभिः after (इ)व; M. मध्यं
    प्राण [न]म् for मध्यवर्ती प्राणः.
  3. BT om. ०भाग०.
  4. Bh. प्रमाणम् for प्राणधारणम् .
  5. T. om. प्रातःसवनं; Bh KT. ०सवनीयं for ०सवनं; Bh JA.
    om. पादस्थानीयं.
  6. Bh T. om. बृहत्य एव पर्शवो०.
  7. RSh परिशवो० for पर्शवो०.

२२ षड्विंशब्राह्मणम्
तानि पृष्ठानि बार्हतानि बृहतीषु भवन्ति । तत्र बृहद्रथन्तरयोर्बृहती-
प्रमुखत्वात् श्यैतनौधसकालेयानां पुनर्बृहतीष्वेवोत्पन्नत्वात् । किंच ।
तान्येकगायत्रीकाणि । वामदेव (व्य ?) नामकस्यैकस्य साम्नो गायत्र्यामुत्पन्नत्वात् ।
यस्मादेवं तस्मात् पुरुषे पर्शवः पार्श्वस्थीनि बृहत्य एव भूयस्यो बृहत्यः
पार्श्वस्थिस्थानीयाः । तथा बृहत्य एव कीकसाः पृष्ठास्थ्यवयवाः तत्स्थानीयाः ।
पृष्ठमभिसमायन्ति । पृष्ठस्थानीयामेकां गायत्रीं समागच्छन्ति ॥ ८ ॥
तत ऊर्ध्वं क्रियमाणं किमात्मकमित्यत्राह—
अथ यदेव तत ऊर्ध्वं स आर्भवः पवमानः ॥ ९ ॥
अथ पुनः ततो माध्यंदिनात् पवमानादूर्ध्वं यदेव क्रियमाणं स्तोत्रं स
आर्भवः पवमानः । पुरुषविधस्य यज्ञस्य मुखं भवति । मुखे संभूत-
त्वादित्यर्थः ॥ ९ ॥
मुख्यानां गायत्र्यादीनां प्राणादिरूपतामाह—
प्राणो गायत्री श्रोत्रे उष्णिक्ककुभौ वागनुष्टुप्
चक्षुर्जगती ॥ १० ॥
मुखरूपे आर्भवपवमाने विद्यमाना गायत्री प्राणस्थानीया । प्राणापान-
व्यानैस्त्रिवृत्प्राणः । गायत्र्यपि त्रिपदेति गायत्र्याः प्राणसाम्यम् । उष्णिक्ककुभौ
श्रोत्रे । अनुष्टुप् वाक्स्थानीया । वाग्वा अनुष्टुप् (श. ब्रा. १.३.२.१६)
इति श्रुतेः । जगती चक्षुः ॥ १० ॥
यदत्रानुदाहृतमक्षरपङ्क्त्यादिकं विकृतिषु क्रियमाणं छन्दस्तत् किमात्म-
कमित्यत्राह—
3. R Bh JA add: बृहत्य एव कीकसाः पृष्ठमभिसमायान्तीति तानि
पृष्ठानि बार्हतानि after ०गायत्रीकाणि.
4. T. परिशवः for पर्शवः; Bh. om. बृहत्य एव...तत्स्थानीयाः.
5. JA. पार्श्वस्थीनि for पार्श्वस्थिस्थानीयाः; R Bh KSJB पृष्ठस्या०
for पृष्ठास्थ्य०.
9. R. दिन० for ०दिनात्, Bh. ०दिनः पवमानः पवमानात्,
TJA ०दिनपवमानात् for ०दिनात् पवमानात् •
12. BSI. ०रूपताद्या० for रूपता०.
15. SI. आर्भवे for आर्भव०.
19. R. अतो० for अत्रा०; RA add अनुक्तम् before अनुदाहृतं;
R. ०पङ्क्त्यादि, Bh पङ्क्त्यादिषु for पङ्क्त्यादिकं.

प्रथमोऽध्यायः (३) ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ २२

पुष्टिय॑दन्यत् ॥ ११ ॥
यदन्यदुदाहृतेभ्यो व्यतिरिक्तमक्षरपङ्क्त्यादि तत् पुष्टिः गायत्र्यादीनां
मुख्यानामपि पुष्टिहेतुः ॥ ११ ॥
एवं छन्दोविभागं दर्शयित्वा इदानीं साम्नां विभागं दर्शयति—
द्वे गायत्र्यां सामनी । तस्माद् द्वयं प्राणेन करोति ।
प्राणिति चापानिति च । एकं छन्दः ककुबुष्णिहौ द्वे सामनी ।
तस्मात् समानं सत् श्रोत्रं द्वेधैव शृणोति । द्वे अनुष्टुभि
सामनी । तस्माद् द्वयं वाचा करोति । सत्यं चानृतं च
वदति । एकं जगत्यां साम । तस्माद् द्वे अक्षिणी सती
समानं पश्यतो न हि पश्चादायन्तं पश्यति ॥ १२ ॥
गायत्र्याम् ऋचि द्वे गायत्रसंहिताख्ये सामनी क्रियेते। तस्मात् पुरुषः
प्राणेन द्वयं प्राणनमपाननं च करोति । तस्यैव विवरणम् । प्राणिति
चापानिति चेति । ककुबुष्णिहौ द्वे अपि एकमेव छन्दः । द्वयोरपि
अष्टाविंशत्यक्षरात्मकत्वात् । तत्र ककुभि द्वौ प्रथमतृतीयौ पादाव-
ष्टाक्षरौ मध्यमः पादो द्वादशाक्षरः । उष्णिहि तु प्रथमद्वितीयावष्टाक्षरौ तृतीयो
द्वादशाक्षर इति विशेषः । तत्र द्वे सफपौष्कलाख्ये सामनी क्रियेते । तस्मात्
पुमान् समानम् ऐक्ये सत् श्रोत्रम् एकेनैव श्रोत्रेन्द्रियेण द्वेधैव द्विधैव
पुरस्तात् पश्चाच्च शृणोति । अनुष्टुभि द्वे श्यावाश्वान्धीगवनामके सामनी
भवतः । तस्मात् पुरुषो द्वयं सत्यमनृतं चैकया वाचा करोति वदति ।


  1. BTSI om. अपि.
    5 6&8. TSK साम्नी for सामनी.
  2. Sh K एक० for एकं.
  3. Bh. समानसस्थं for समानं सत् श्रोत्रं; RT. द्वेधेव for द्वेधैव.
  4. A Bh. repeat द्वे अपि एकमेव.
  5. KM ऐक्यं, JA Bh. अन्येन for ऐक्ये; R. द्वेधेव द्विधेव for द्वेधैव द्विधैव.
  6. B पुरस्ताच्च for पुरस्तात् ; Bh MK. ०गवानामेके for गवनामके.
  7. Bh MJA om. (ए)कया.

२४ षड्विंशब्राह्मणम्
तस्यैव विवरणम् । सत्यं चानृतं च वदतीति । जगत्यां कावाख्यम् एकं
साम भवति । तस्माद् अधिष्ठानभेदाद् अक्षिणी द्वे सती समानम् अवैलक्षण्येन
पुरस्तादायन्तं पदार्थं पश्यतः । करणे कर्तृत्वोपचारः । न तु पश्चात् पृष्ठत
आयन्तं भावं चक्षुषा पुमान् पश्यति । श्रोत्रेण यथा पृष्ठतः शब्दं
शृणोति न तद्वदित्यर्थः ॥ १२ ॥
अवशिष्टस्य यज्ञायज्ञीयस्य मूर्धात्मकत्वं दर्शयति—
अथ यदेव तत ऊर्ध्वं मूर्धा तद्यज्ञायज्ञीयम् ॥ १३ ॥
अथ पुनः ततो यथोक्तेभ्यो गायत्र्या(त्रा?)दिभ्यः सामभ्यः ऊर्ध्वं
यदेव साम भवति तद्यज्ञायज्ञीयम् मूर्धा पुरुषविधस्य यज्ञस्य शिरस्थानीयम् ।
उत्तमत्वात् ॥ १३ ॥
यथोक्तं यज्ञायज्ञीयविदं स्तौति—
मूर्धा स्वानां भवति य एवं वेद ॥ १४ ॥
यः पुमान् एवं यज्ञायज्ञीयं मूर्धानं वेद स स्वानां ज्ञातीनां मध्ये
मूर्धा श्रेष्ठो भवति ॥ १४ ॥
एतदेव विवृणोति—
अध इव वा अन्यान्यङ्गान्युपरीव मूर्धा अध इवास्मादन्ये
स्वा भवन्त्युपरीव स्वानां भवति । य एवं वेद ॥ १५ ॥
मूर्ध्नोऽन्यान्यङ्गानि अध इव वै अधस्तादेव भवन्ति खलु । मूर्धा तु
एषामुपरीव उपर्येव भवति । यः पुमानेवं यज्ञायज्ञीयं मूर्धानं वेद अस्माद्

  1. Bh. om. एव.
  2. JA. तस्याधिष्ठानम्। तदा अक्षिणी for तस्माद. . .अक्षिणी.
  3. J. om. पदार्थं.
  4. RBSIK add: नहि पश्चादायन्तं पश्यतीति after इत्यर्थः
  5. RS मूर्धात्मतां for मूर्धात्मकत्वं.
  6. J. तथान्ते, Bh A तथान्तो० M. तथा for ततो०.
  7. Bh JA om. एव; T संभवति for भवति.
  8. RSTK यथोक्त for यथोक्तं; J. ०विदः for विदं.
  9. S. adds. यः पुमानेवं वेदेति after एवं वेद.
  10. MTSIK. अथ० for अध० Bh MSK. अथ० for अध०.
  11. M. om. तु.

प्रथमोऽध्यायः (३) २५

एवंविदुषोऽन्ये स्वा ज्ञातयोऽध इव अधरा एव भवन्ति । विद्वांस्तु स्वानां
ज्ञातीनामुपरीव श्रेष्ठ एव भवति ॥ १५ ॥
अथ यज्ञप्रतिपादकस्य वेदस्यार्थतो विज्ञानं तत्प्रवचनं च प्रशंसति—
यज्ञो वा अथ जज्ञ इत्याहुरेष वाव जात एषोऽव-
लुप्तजरायुरेष आर्त्विजीनो य एतं वेदमनुब्रूते यदा वा एतं
वेदमनुब्रूते, अथ हैनं शृण्वन्त्यसावन्ववोचतेति तद्धै स
जायते ॥ १६ ॥
अथशब्दो वाक्यादौ समवैति । यज्ञो वै जननहेतुत्वाज्जज्ञः । अयमेव
यज्ञ इति परोक्षं नाम आहुः । तद्विदः व्यवहरन्ति । यः पुमान् एतं यज्ञप्रति-
पादकं वेदं विदित्वा अनुब्रूते प्रवचनं करोति एष वाव अयमेव खलु जातः
सफलजन्मा भवति । अन्यस्तु जातोऽप्यजातप्राय इत्यभिप्रायः । किं च
एषोऽयमेव अवलुप्तजरायुः अवलुप्तं जरायुः गर्भवेष्टनं तत्स्थानीयमाच्छादकं
वेद । तदर्थविषयमज्ञानं जरायुशब्देन विवक्षितम् । तदवलुप्तं यस्य स
तथोक्तः । किं च । एषोऽयमर्त्विजीनः ऋत्विकर्मार्हः । अनुष्ठानस्य ज्ञान-
पूर्वकत्वात् । अपि च यदा वै यस्मिन् एव काले एवं यज्ञप्रतिपादकं वेदमनु-
ब्रूते । अथ ह तदैव एतमनुब्रुवाणं शृण्वन्ति । असावन्ववोचतेति सम्यगनु-


  1. R BBh JA एव for एवं.
  2. R Bh BJIA अध for अथ; R BBh JSIA Sh Ms. यज्ञो० for जज्ञः
  3. Bh. यज्ञ० for वेद०.
  4. Bh JA om. है.
  5. RSI समन्वेति for समवैति ; BBh JA यज्ञः; for जज्ञः.
  6. JA यज्ञम for परोक्षं नाम; M परोक्ष० for परोक्षं ; BBh. MSIA एवं for एतं.
  7. MTIJ वा for वाव.
  8. R. तत्स्थानम्, Bh A तत्संस्थानम् for तत्स्थानीयम्.
  9. B वेदार्थ०, M वैतदर्थे, I वेदार्थ for वेद तदर्थ०.
  10. Bh JA एष त्वेव० for एषोऽय०
  11. Bh JA om. एवं.
  12. R. तथैव, BMIK तदेव for तदैव; Bh A एवम् for एतम्.

वचनमकार्षीदिति । प्रसूतकीर्तिर्भवतीत्यर्थः । तद्वै यदा अयं विख्यातो
भवति तदा खलु सोऽनुवक्ता जायते पुण्यजन्मा भवति ॥ १६ ॥
यज्ञेषु प्रातःसवनादिषु बहुषु प्रदेशेषु गायत्र्यादीनां छन्दसां
न्यूनाक्षरत्वमस्ति । तत्र प्रातःसवने सामान्येन गायत्र्या ऊनाक्षरत्वं स्तौति—
ऊनाक्षरा गायत्री प्रातःसवने प्रजानां प्रजात्या
ऊनादिव हि प्रजाः प्रजायन्ते ॥ १७ ॥
प्रातःसवने गायत्री ऊनाक्षरा । तद्यथा—बहिष्पवमाने उपास्मै
गायत नरः (सा. ६५१) इत्येषा गायत्री ऊनाक्षरा । पवमानायेन्दवे
(सा. ६५१ᵇ) इति द्वितीयपादस्य सप्ताक्षरत्वात् तथा तत्रैव दविद्युतत्या
रुचा (सा. ६५४) इत्येषा गायत्री न्यूनाक्षरा । तथा आज्येष्वपि
होतुराज्ये तं त्वा समिद्भिरङ्गिरः (सा. ६६१) इत्येषा गायत्री । तत्र
बृहच्छोचा यविष्ठ्यः (सा. ६६१ᶜ) इति तृतीयः सप्ताक्षरः । तथा आनो
मित्रावरुणा (सा. ६६३) इत्ययं पादः सप्ताक्षरः । अच्छावाकान्त्येऽपि
इन्द्राग्नी आगतं सुतम् (सा. ६६९) इत्येषा गायत्री । तत्र गीर्भिर्नभो
वरेण्यम् (सा. ६६९ᵇ) इति द्वितीयः पादः सप्ताक्षरः । एवमन्यदपि
उदाहार्यम् । एतद् गायत्र्या ऊनाक्षरत्वं प्रजानां प्रजात्यै प्रजननाय भवति ।
तथा हि लोके प्रजाः सर्वाः ऊनादिव न्यूनादेव देशात् परिच्छिन्नदेशात्
प्रजायन्ते १७ ॥
3. Bh MJA om. प्रातःसवनादिषु बहुषु; Bh MJA add य० before
प्रदेशेषु
4. RBJ ऊना० for न्यूना०; MA सवन० for सवने.
7. M. om. बहिष्पवमाने.
8. Bh JA add प्रातःसवने प्रजानां प्रजात्यै before पवमानायेन्दवे.
12. RBSI add तथा स नः पृथु श्रवाय्यं बृहदग्ने सुवीर्यं (सा. 662 a&c) after सप्ताक्षरः ।
13. Bh MT. मैत्रा० for मित्रा० ; JA अच्छावकस्यापि for अच्छावकान्त्येऽपि.
15. BM¹S. om. पादः.
16. BIS उदाहरणीयम for उदाहार्यम् .
17. RJA add गुह्यप्रदेशात् after ऊनादिव.

प्रथमोऽध्यायः (३) २७

एवं सामान्यतः प्रातःसवने गायत्र्या न्यूनाक्षरत्वं प्रदर्श्य इदानीं
तत्रैवामहीयवे गायत्र्या न्यूनाक्षरत्वं स्तौति—
ऊनाक्षरा गायत्र्यामहीयवे प्रजानां प्रजात्या
ऊनादिव हि प्रजाः प्रजायन्ते ॥ १८ ॥
आमहीयवे साम्नि गायत्री न्यूनाक्षरा । तद्यथा—उच्चा ते जातमन्धसः
(सा. ४६७) इत्येषा गायत्री न्यूनाक्षरा । दिवि सद्भूम्‍या ददे (सा. ४६७b)
इति द्वितीयस्य सप्ताक्षरत्वात् । तथा एना विश्वान्यर्य आ (सा. ५९३)
इत्येषापि । आद्यद्वितीययोः सप्ताक्षरत्वात् । प्रजानाम् इत्यादि पूर्ववत् ॥ १८ ॥
माध्यंदिने सवने पृष्ठेषु वामदेव्ये गायत्र्या ऊनाक्षरत्वं स्तौति —
ऊनाक्षरा गायत्री पृष्ठेषु वामदेव्ये यजमानलोक
एव स मध्ये हि यज्ञस्य यजमानः ॥ १९ ॥
पृष्ठेषु स्तोत्रेषु वामदेव्ये साम्नि अभीषुणः सखीनाम् (सा. ६८४)
इत्येषा गायत्री न्यूनाक्षरा । त्रयाणामपि पदानां सप्ताक्षरत्वात् । तथा सति
यजमानलोक एव यजमानस्थान एव न्यूनता भवेत् । अन्यैश्चानाक्रान्ते एव
हि देशे यजमानस्तिष्ठति । न त्वन्यैराक्रान्ते । अतः तत्स्थाने गायत्र्या
न्यूनाक्षरत्वं गुण एव । वामदेव्यस्य यजमानस्थानत्वोपपादनम् । तथा हि—यदा
यज्ञस्य मध्ये वामदेव्यं क्रियते स यजमानश्च तदानीं यज्ञस्य मध्ये [हि]
एव वर्तत इति ॥ १९ ॥
तृतीयसवन आर्भवपवमाने संहितसाम्नि गायत्र्या न्यूनाक्षरत्वं प्रशंसति—
ऊनाक्षरा गायत्री संहिते प्राणापानयोः उच्चार
ऊनादिव हि प्राणापानावुच्चरतः ॥ २० ॥

  1. Bh JA प्रशस्य for प्रदर्श्य.
  2. JA तत्रैवामहीयवं for तत्रैवामहीयवे; J गायत्र्यां साम भवति; A
    गायत्र्यां यौधाजयं च साम भवति for गायत्र्या...स्तौति
  3. R. om. पृष्ठेषु...न्यूनता भवेत् (L. 14)
  4. RBMSI अन्यैरना० for अन्यैश्चना०.
  5. Bh. ०रज्ञाते for ०राक्रान्ते.
  6. R. ०चारः for ०पादनम्; Be. MJA om यदा.

संहितनामधेये साम्नि वरिवोधातमो भुवः (सा. ६९.१) इत्येषा
गायत्री न्यूनाक्षरा । पर्षि राधो मघोनाम् (सा. ६९१.c) इति तृतीयस्य
सप्ताक्षरत्वात् । यदेतन्न्यूनाक्षरत्वं गायत्र्यास्तत् प्राणापानयोरुच्चारे संचरणे
तन्निमित्तमेव भवतीत्यर्थः । तथा हि—प्राणापानावूनादिव परिच्छिन्नादेव
नासाविवराद् उच्चरतः संचरतः । अतो न्यूनाक्षरत्वं प्रशस्तम् इत्यर्थः ॥ २० ॥
तत्रैव यज्ञायज्ञीये, सतो बृहत्या न्यूनाक्षरत्वं स्तौति—
ऊनाक्षरं यज्ञायज्ञीयं प्राणानामुत्सृष्ट्यै ॥ २१ ॥
यज्ञायज्ञीयं साम ऊनाक्षरम् । तदीयप्रगाथे ऊर्जो नपातम् (सा.
७०४) इत्येषा सतो बृहती न्यूनाक्षरा । तृतीयपादस्यैकादशाक्षरत्वाच्चतुर्थस्य
सप्ताक्षरत्वात् । ततः तत्र गीयमानं यज्ञायज्ञीयं न्यूनाक्षरमित्युच्यते ।
तदेतन्न्यूनत्वं प्राणानामुत्सृष्ट्यै भवति । स्वावकाशप्रदेश एव प्राणानां
गतिर्नान्यत्रेति न्यूनाक्षरत्वं गुण एव ॥ २१ ॥
तदेतत्सोदाहरणमुपपादयति—
यो हि पूर्णमुपधमेद्यदि प्रतीयाद्विपदेद् यदि न
प्रतीयाद्विष्यन्देत ॥ २२ ॥
यो हि पुमान् लोके नालाद्यन्तर्गततृणाद्यपनयनायोदकपूर्णं करकादिकं
यद्युपधमेत् यदि च तदुपधमनं प्रतीयात् प्रतिगच्छेत् तर्हि स उपधमाता
2. RJA add अत्र after इति.
3. RSM रुच्चारः for ०रुच्चारे; MTK संचरेण for संचरणे.
8. BMIA ०प्राणार्थे, S ०प्राणनार्थे; Bh ०प्रमाथो, T ०प्रमाणार्थे
for प्रगाथे.
10. Bh JA न्यूनम्, MT न्यूनाक्षरत्वम् for न्यूनाक्षरम्.
11. M. न्यूनाक्षरत्वं for न्यूनत्वं; R सावकाश० for स्वावकाश०,
Bh य एवकार प्रकारा, KT. [स्वा]वकाशप्रकश०, JA एवंप्रकारा for
स्वावकाशप्रदेश०; Bh adds च and J यत् after एव.
14. T पुण्यं० for पूर्णं०; MT ०यमे०, SK ०यन्ये० for ०धमे०.
16. J om. यो हि पुमान्...गायेदित्यर्थः (p. 29. L. 5)
17. Bh A न हि for तर्हि.

प्रथमोऽध्यायः (३) २९

विदेपत् विपन्नो भवति । व्यर्थप्रयासो भवतीत्यर्थः । यद्युपधमनं न प्रतीयात् ।
न कुर्यादित्यर्थः । तर्हि विष्यन्देत करकादिनालशुद्धेरभावादभीष्टादुदपाना-
द्धीयेतेत्यर्थः । तस्मादपूर्णमेव करकादिकं तृणापनयनायोपधमेत् । तथा
सति वायोः संचरणात् तृणापनयो भवति । तद्वदत्रापि न्यूनाक्षरमेव यज्ञा-
यज्ञीयं प्राणानामुत्सृष्टयै गायेदित्यर्थः ॥ २२ ॥
त्रिष्वपि सवनेषु गायत्र्या न्यूनाक्षरत्वं समानं प्रशंसति —
तदाहुः सवनानां च वा एत उदानाः प्राणानां
चोत्सृष्टिरिति ॥ २३ ॥
तत्रैतमाहुर्ब्रह्मवादिनः—सवनानां वै सवनानामेव खलु एते गायत्र्यादि-
रूपाः प्राणाः उदानाः संचारहीनास्तिष्ठन्ति । तेषां सवनत्रयसंबन्धिनां
गायत्र्यादीनां न्यूनाक्षरत्वेन प्राणानामुत्सृष्टिरेव भवतीति ॥ २३ ॥
इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे षड्विंशब्राह्मणे
प्रथमाध्याये तृतीयः खण्डः ॥ ३ ॥


  1. R om. व्यर्थप्रयासो भवति; A यथो० for यद्यु०.
  2. Bh A न हि for तर्हि; B विष्ण०, Bh M विश्व०, T विव्व०,
    A विष्ट० for विष्य० ; BS ०ध्माते० for ०शुद्धे० ; Bh A नालशु (A श्व)
    राद्धे (A द्धे) मावर्त (A र्ते) for नालशुद्धेरभावा०.
  3. MTK ०हीयते for ०हीयेत.
  4. M. गायत्र्यां for गायत्र्या.

चतुर्थः खण्डः
ज्योतिष्टोमे सुत्येऽहनि प्रातरनुवाकात् पूर्वं विश्वरूपगानं विधातुं तत्र
किंचित् प्रकारमादौ विधत्ते—
अध्वर्यवित्याहोद्गाता मा स्म मेऽनिवेद्य होत्रे प्रातरनु-
वाकमुपाकरोरिति ॥ १ ॥
हे अध्वर्यो ! मे मह्यमुद्गात्रे मानिवेद्य निवेदनमामन्त्रणमकृत्वा होत्रे
प्रतारनुवाकं शस्त्रं मा स्मोपाकरोः उपाकरणं मा कार्षीरित्युद्गाताध्वर्युं प्रति
आह वदेदित्यर्थः । इतिशब्दोऽवान्तरवाक्यपरिसमाप्तिद्योतनार्थः । तथा च
द्राह्मायणः—न मामनामन्त्र्य प्रातरनुवाकमुपाकुर्यादित्यध्वर्युं ब्रूयात्
(२. ४. ७; ला. १. ८. ६) इति ॥ १ ॥
ततः किमित्यत्राह —
सोऽध्वर्युः प्राह ॥ २ ॥
स एवमुद्गात्रोक्तोऽध्वर्युः प्राह प्रातरनुवाकोपकरणात् पूर्वम्
एवामन्त्रयेदित्यर्थः ॥ २ ॥
ततः किं कुर्यादुद्गातेत्यत्राह—
स हूतो व्रजति स पूर्वया द्वारा हविर्धाने प्रपद्यते ॥३॥
स उद्गाता हूतः अध्वर्युणामन्त्रितः सन् व्रजति हविर्धानमण्डपं
गच्छेत् । गत्वा च स पूर्वया द्वारा हविर्धानमण्डपस्य पूर्वेण द्वारेण
हविर्धाने सोमात्मकस्य हविषः आधारभूते द्वे शकटे प्रपद्यते प्रपद्येत ॥ ३ ॥
2. K. ०वाकपूर्वे for ०वाकात् पूर्वं.
8. KTMS om. ०परि०.
14. J एनम् for एव; Bh तमाश्रयेत, J. आश्राक्येत, A [ए]नमाश्रयेत्
MT. मन्त्रयेत् for (आ)मन्त्रयेत्.
17. R. trans व्रजति after ०मण्डपं; Bh IS om. हविर्धान०...द्वारेण.
19. R. om. प्रपद्यते; R. प्रपद्येते for प्रपद्येत; Bh MJSI om. प्रपद्येत.

अत्र हविर्धानद्वयं प्रातस्योद्गातुः सनियमं विश्वरूपगानं विधत्ते—
स दक्षिणस्य हविर्धानस्योत्तरं चक्रमभ्यपश्रयमाण
उदङ्ङासीनो विश्वरूपा गायति ॥ ४ ॥
ततः स उद्गाता दक्षिणस्य दक्षिणतः स्थितस्य हविर्धानस्य शकटस्य
उत्तरं चक्रम् अभ्यपश्रयमाणः उदङ्ङासीनः उदङ्मुखो मन्त्रवर्जमुपविष्टो
विश्वरूपाः विश्वरूपशब्दवतीः युञ्जे वाचं शतपदीं (सा. १८२९) इत्येतस्यां
पङ्क्तौ गायत्रीकारं प्रगाथगानेनोत्पन्नास्तिस्रः स्तोत्रीयाः गायति । तथा च
द्राह्मायणः—पूर्वया द्वारा प्रपद्यान्तरेण हविर्धाने पूर्वेण चक्रे उदङ्मुख
उपविशेत्तूष्णीम् (२. ४. ९. ला. १. ८ ७.) इति । अस्यार्थः—पूर्वया
द्वारा हविर्धानं प्रपद्य अन्तरेण हविर्धाने शकटयोर्मध्ये पूर्वेण चक्रे चक्रयोः
पुरस्तादुदङ्मुखस्तूष्णीं स्तोत्रीयधर्ममात्रम् आस्ते । उपदेशनं हित्वा
उपविशेदिति । विश्वरूपगानविधिर्न नित्यः । किंतु, षोडशिग्रहविधिवद्
वैकल्पिकः । तथा चोपपादितं द्राह्मायणेन पूर्वोत्तरपक्षोपन्यासेन—विश्वरूपाणां
गानं ज्योतिष्टोमे यजमानेनोक्तं प्रत्याचक्षीत । चतुष्टोमस्तोम संपदति-
रेकाद्ग्रहशस्त्राभावाच्च । वसतीवर्यो ग्रहः प्रातरनुवाकः शस्त्रमासां न च
संपत्कोपो यथान्यैः परिसामभिः गायेति चेत् ब्रूयात् (२.४.६-७.)
इति । अस्यार्थः—यजमानेन चोदितोऽपि उद्गाता विश्वरूपाणां गानं

  1. JA अतः, M तद् for अत्र.
  2. JA om. दक्षिणस्य.
  3. Bh A मित्र० for मन्त्र०; JA ०विश्य for ०विष्टो.
  4. Bh. गायत्रीप्रणवप्रग्रथनेन, M. गायत्रीगारं प्रगीयते नोत्पन्नाः, JA
    गायत्रीप्रगाथप्रप (A ०ग०) थनेन for गायत्रीकारं... ; JA Bh. ०त्पन्नानि
    स्तोत्रीयाणि for ०त्पन्नास्तिस्रः स्तोत्रीयाः.
  5. Bh A प्रपद्योत्तरेण, SK. प्रतिपाद्यान्तरेण for प्रपद्यान्तरेण.
  6. S. ०र्धाने for ०र्धानं; Bh SK प्रपाद्य for प्रपद्य; I. om.
    हविर्धानं प्रपद्यान्तरेण; M. पूर्वेण च तयोः for पूर्वेण...; TISK om. चक्रे.
  7. R. स्तोत्रधर्मे मन्त्रवदुपवेशनं for स्तोत्रीयधर्ममात्रम्...देशनं; MTS.
    स्तोत्रीयं for स्तोत्रीय०.
  8. JA om. ज्योतिष्टोमे.
  9. Bh M. ०वर्योर्ग्रहः for ०वर्यो ग्रहः.
  10. KR. गायेवेति Bh MTA गायेवेति for गायेति.

३२ षड्विंशब्राह्मणम्
प्रत्याचक्षीत न कुर्यात् । अन्यथा चतुष्टोमस्याग्निष्टोमस्य स्तोमानां त्रिवृत्पञ्चदश-
सप्तदशैकविंशानां तस्य नवतिशतं स्तोत्रीयाः (तां. ब्रा. १६. १. ८) इति
ब्राह्मणेऽभिहितायाः संख्यायाः संपत्तेरतिरेकप्रसङ्गाद्विश्वरूपगाने तिस्रः स्तोत्रीया
अतिरिच्येरन् इति । किं च । गानपक्षे ग्रहं वा गृहीत्वा चमसं वोन्नीय
स्तोत्रमुपाकुर्यात् (तै. सं. ३.१.२.४) इति । स्तुतम(स्तुतमेव तद्०?)नुशं-
सति (तां. ब्रा. ४. ९. १३) इति ग्रहशस्त्रयोरनावश्यकत्वात् तयोरत्राभावा-
द्विश्वरूपगानं न कुर्यादिति गाननिषेधः । अथ तदुपपादनम् । वसतीवर्य एव
ग्रहः । प्रातरनुवाक एव शस्त्रम् । आसामामिर्विश्वरूपाभिः संपन्नत्वाद्विरोधोऽपि
नास्ति । सोमस्य तद्देवतानां वा स्तुतेरभावात् । यथान्यैः संपद्विरोधो नास्ति
तद्वत् । तस्मात् , हे उद्गातः त्वं विश्वरूपा गायेति यदि यजमानो ब्रूयात् तदा
गायेदेव । न ह्यत्र यजमाननियोगः प्रधानम् , किंतु, यथोक्तग्रहशस्त्रक्लृप्तिः । तथा
सति यदीच्छेत् तर्हि यजमानेनानुक्तोऽपि गायेदिति विवक्षितार्थोऽपि । अतो
विधिप्रतिषेधयोरुभयोरपि सूत्रकारेण दर्शितत्वात् वैकल्पिकोऽयं विधिरित्य-
वगम्यते ॥ ४ ॥
विश्वरूपगानं प्रशंसति—
3. Bh TIA संख्यासं० for संख्यायाः सं०; RS add इति after
०गाने; K. त्रिस्रिः for तिस्रः; JA. तु for तिस्रः.
4. Bh JA. प्रातरनुवाकमेकसृजासामाभिर्विश्वरूपाभिः संपन्नत्वादिव for
गानपक्षे ग्रहं ; Bh JA अगृहीत्वा for गृहीत्वा.
6. RK. (ए)कस्यापि for (अ)त्र ; MT. (आ)दौ for (अ)भावात्.
7. JA तदनुप० for तदुप०
8. Bh आसाविति, JA आसाभिति for आसामाभिः.
9. R. adds परिसामभिः after यथान्यैः.
10. Bh. ते, JA तद् for हे; JA उद्गातारं for उद्गातः; Bh. om. त्वं.
MT तं for त्वं; Bh. गानं नयतीति for गायेति ; Bh JA. om. यदि ; JA.
तदीयगाने for तदा गायेदेव.
11. M om. एव; Bh JA न तत्र for न ह्यत्र ; RSIK. शस्त्रादिकमपि
for शस्त्रक्लप्तिः ; RTKSI add च after तथा.
12. R Bh TJSIAK यदि for यदी०.
13. R Bh MJA ०निषेधयो० for प्रतिषेधयो०.

क्षत्रं वै स्तोत्रं विट् शस्त्रं क्षत्रेणैवास्मै विशमनु
वीर्यमनु वर्त्मानं करोत्यथो स्तुतशस्त्रयोरेव समारम्भायाव्यव-
संसाय संतत्यै ॥ ५ ॥
प्रगीतमन्त्रसाध्या स्तुतिः स्तोत्रं, क्षत्रं वै क्षत्रमेव । यागरक्षाहेतुत्वात् ।
अप्रगीतमन्त्रसाध्या स्तुतिः शस्त्रं विट् । यागसंपद्धेतुत्वात् । यद् विश्वरूपा
गायति इति, तत् अस्मै यजमानाय क्षत्रेण विशमनु पुष्टिमनुसृत्य वीर्यमनु
वर्त्मानं संततगामिनं करोति । अथो अपि च स्तुतशस्त्रयोरेव
समारम्भाय सम्यगुत्पत्तये एव अव्यवसंसाय अविच्छेदाय संतत्यै च
विश्वरूपागानं भवति ॥ ५ ॥
विश्वरूपागानस्य कर्तृविशेषप्रदर्शनात् परीक्षया कर्तव्यतां द्रढयति—
एतद्ध स्माह ग्लावो मैत्रेयः प्राह्ने वा अद्याहं
पापवसीयसं व्याकरिष्यामीति स ह स्म सदस्येवोपवसथ्येऽ-
हन्युदङ्ङासीनो विश्वरूपा गायति ॥ ६ ॥
मित्रायुसुतो ग्लावो ग्लावनामा कश्चिदृषिः एतद्वक्ष्यमाणमाह उक्तवान्
किल । अद्य प्राह्ने वै प्रातरेव । पापवसीयसं व्याकरिष्यामीति इदं श्रेष्ठमिदम-
श्रेष्ठमिति विभागं करोमीति । एवमुक्त्वा स ग्लावः उपवसथ्ये अग्नीषोमीयेऽहनि
5. Bh KJA यदि, MT यद्यपि, S यदपि for यद्.
6. R Bh JA गायेत् MT गायत्रे for गायति; TJA om. इति;
R. यत् for तत्; JA ०सृज्य for ०सृत्य.
7. Bh MSI ०गामी for ०गामिनं; Bh. माङ्गीकरोति for करोति;
M. om. करोति
8. S. adds अस्य after सम्यग्; A उपपत्तये for उत्पत्तये; MSI add
च after अविच्छेदाय.
10. RSI ०दर्शनेन, for ०दर्शनात्; RSI प्रशंसया, A परीक्ष्या
for परीक्षया.
12. TSIK om. स ह स्म...व्याकरिष्यामीति (L. 15)
15. Bh JA अश्रेष्ठमन्यत् for इदं श्रेष्ठम्; R. श्रेष्ठम् for अश्रेष्ठम्;
M. अत्र एतच्छ्रेष्ठम् for इदं श्रेष्ठमिदमश्रेष्ठम्.
16. MIK अग्निषोमीये for अग्नीषोमीये.
प० ३

पञ्चविंशब्राह्मणम्

अपररात्रे प्रातरनुवाकात् पूर्वमित्यर्थः । सदस्येवोदङ्मुख आसीन उपविष्टो
विश्वरूपा गायति । अगासीत् । सदसीत्येतत् समीपस्थं हविर्धानमण्डपं
लक्षयति । स पूर्वया द्वारा हविर्धाने प्रपद्यत (ष. वि. ब्रा. १. ४. ३)
इति पूर्वत्र विधानात् । सदसि हविर्धानयोरभावात् ॥ ६ ॥
विश्वरूपगाने ज्योतिर्गानं दर्शयितुं कंचिदुपवादं दर्शयति—
तदुपवादोऽस्त्यध्वर्यो किं स्तुतं स्तोत्रं होता प्रातरनु-
वाकेनान्वशंसीदिति स ब्रूयादकार्षमहं तद्यन्मम कर्म होतारं
पृच्छतेति । होतः किं स्तुतं स्तोत्रं प्रातरनुवाकेनान्वशंसीरिति
स ब्रूयादकार्षमहं तद्यन्मम कर्म उद्गातारं पृच्छतेति ।
उद्गातः किं स्तुतं स्तोत्रं होता प्रातरनुवाकेनान्वशंसीदिति स
ब्रूयादकार्षमहं तद्यन्मम कर्मागासिषं यद्ध्येयमिति ॥ ७ ॥
तत्रोपवादोऽन्योन्यस्य संवादः कश्चित् अस्ति । तस्यैव प्रदर्शनम् —
हे अध्वर्यो ! स्तुतं स्तोत्रमनु होता प्रातरनुवाकेन शस्त्रेण किमन्वशंसीत् इति
शंसनमकार्षीदिति । एवमुपवक्तृभिः पृष्टः सोऽध्वर्युः ब्रूयात् यन्मम कर्म
तदहमकार्षं तद् होतारं पृच्छतेति । तेन प्रयुक्ता उपवक्तारो हे होतः किं स्तुतं
स्तोत्रमनु प्रातरनुवाकेन शस्त्रेण त्वमशंसीरिति अपृच्छन् । ततः सः होता
ब्रूयात् यन्मम कर्म तदहमकार्षम् । तदुद्गातारं पृच्छतेति । तेन प्रयुक्ताः

  1. RJA प्राक् for पूर्वम् .
  2. MIJK किंचिद् for कंचिद्; R. ०वादनं for ०वादं.
  3. R Bh JA. अन्योन्यसंवादः for अन्योन्यस्य संवादः.
  4. Bh. त्वयोक्तं for स्तुतं.
  5. RJ add ततः before तेन; RJ add वदेयुः after ०वक्तारो०.
  6. Bh. A add होता before प्रात० ; MKSI om. शस्त्रेण; Bh T तं,
    RK किम् for त्वम्; R. किमकार्षीरिति, T किंत्वसाविति, I. किमन्वशंसारिति for
    त्वमशंसीरिति; RJA om. अपृच्छन्; IS अपृच्छत for अपृच्छन्; RJ पृष्टः,
    A तैरूदित् for ततः; Bh om. किमशंसीरिति...किमशंसीदिति (P. 35. L. 2)•
  7. A om. ब्रूयात्...तैरूदितः स (P. 35. L. 2); R. एवं होत्रा,
    for तेन.

सन्तः उद्गातारं पृष्टवन्तः हे उद्गातः स्तुतं स्तोत्रमनु होता प्रातरनुवाकेन
शस्त्रेण किमशंसीदिति । तैरूदितः स उद्गाता ब्रूयात् यन्मम कर्म तदहम-
कार्षम् । तस्यैव प्रदर्शनम् — यद्ध्येयं तदगासिषमिति ॥ ७ ॥
ततः किमित्यत्राह—
तं चेद् ब्रूयुस्तमो वै त्वमगासीर्न ज्योतिरिति ॥ ८ ॥
तम् उद्गातारं चेत् उपवक्तारः एवं ब्रूयुः—हे उद्गातः! त्वं तमो वै
तम एव ज्योतिरहितमेव सामगासीः ज्योतिर्नागासीरिति ॥ ८ ॥
तत्रोद्गात्रा यद्वक्तव्यं तदाह—
स ब्रूयाज्ज्योतिस्तेन येन ज्योतिः ज्योतिस्तेन येन-
र्ग् ज्योतिस्तेन येन गायत्री ज्योतिस्तेन येन च्छन्दो ज्योतिस्तेन
येन साम ज्योतिस्तेन येन देवता ज्योतिरेवाहमगासिषं
न तमो युष्माँस्तु पाप्मना तमसा विध्यानीत्याह
पाप्मनैवैनाँस्तत्तमसा विध्यति ॥ ९ ॥
सः एवं तैः पर्यनुयुक्तः उद्गाता, एवं ब्रूयात् । तेन प्रसिद्धेन येन
ज्योतिषा । ज्योतिः सूर्यात्मकं तेज। ज्योतिः प्रकाशकमभूत् । तेन येन ऋग्
ज्योतिः ऋगपि ज्योतिः अभिव्यक्ताक्षरा भवति । यद्वा, ऋक्शब्देन तदधिष्ठाना-
ग्रिर्लक्ष्यते । किं च, तेन येन गायत्री ज्योतिः । अपि च तेन येन छन्दः
छन्दोमात्रं ज्योतिः । तथा तेन येन सामापि ज्योतिः । तेजो वै सामरूपम्
(तै. सं. ३. २. ९. ३) इति श्रुतेः । यद्वा साम्नामधिष्ठाता सूर्यो लक्ष्यते ।

  1. R. ते for सन्तः.
  2. RKIS उक्तः for उदितः.
  3. Bh T. om. एव.
  4. S. तत्र तत् for ततः.
  5. Bh A add तेन प्रसिद्धेन after ब्रूयुः.
  6. RTSIK om. ऋग् ; M. येन वार्कज्यो० for येनर्ग्ज्यो०.
  7. Bh MTJA. om. first ज्योतिः ; K रगपि, M. वागपि for ऋगपि ; R तत् ऋक् ०, SI तच् ० for ऋक् .
  8. JA किंच for अपि च.
  9. K सामाधिष्ठाता, M. साम्नोऽधिष्ठाता, J साम्नां तद्विशिष्टतया, A साम्नां तदविद्यतया for साम्नामधिष्ठाता ...

किं बहुना । तेन येन गायत्री ज्योतिः । तेन येन सर्वाणि देवता ज्योतिः ।
ज्योतिराख्यं सामैवाहमगासिषं न तम इति । किंच, युष्मांस्तु प्रतिवक्तॄन्
युष्मानेव पाप्मना पापरूपेण तमसा विध्यानि बाधे । युष्मानेव अज्ञान्
करोमीत्याह ब्रूयात् । तत्रैवं सति एनान् प्रतिवक्तॄन् पाप्मनैव तमसा
विध्यतीति । एवमतिप्रशस्तत्वात् विश्वरूपगानपक्षे ज्योतींषि गायेदित्यर्थः ।
यत् स्तूयते तद् विधीयते इति न्यायेन स्तुत्या विधिकल्पनस्य युक्तत्वात् ।
अत एव द्राह्मायणो विश्वरूपगानपक्षे ज्योतिर्गानं कालं प्रकारं च दर्शया-
मास । विश्वरूपाश्चेद्गायेज्ज्योतींष्यपि गायेत् । परिहिते प्रातरनु-
वाकेऽपोनप्त्रीयं नाम सूक्तं पुरा तस्मात्तद्धोतारमारमयित्वाग्रयणस्य
वानुहिंकारं पवित्रं धारयन्नास्तावे वा प्राप्य पुरा स्तोमयोगादग्निर्ज्योतिर्ज्योति-
रग्निरिन्द्रो ज्योतिर्ज्योतिरिन्द्रः सूर्यो ज्योतिर्ज्योतिः सूर्य (सा. १८४१)
इत्येतेषु पादेषु त्रिस्त्रिरेककमभ्यासं मनसा गायत्रं गायेत् (२.४.१८-२२;
ला. १. ८. १३-१४) इति । अस्यार्थः । यदि विश्वरूपा गायेत् तर्हि होत्रा
प्रातरनुवाके शस्त्रे समापिते सति तेनैवानुवक्तव्यमपोनप्त्रीयं नाम किंचित्
सूक्तमस्ति । तदनुवचनात् पूर्वं होतारमारमेत्युक्त्वा उद्गाता ज्योतींषि गायेत् ।

  1. M. before सर्वाणि adds: किं बहुना गायत्री ज्योतिस्तेन येन
    बहुनोक्तेन येन तेन ; Bh AI after ज्योतिः adds: अभवत् । तज्ज्योतिः
    and A after तज्ज्योतिः and before सामैव adds: ज्योतिराख्यं साम ।
  2. M. ज्योतिर्ज्योतिरवश्यं for ज्योतिराख्यं; JA ॰वक्तृषु for
    ॰वक्तॄन्.
  3. M. (अ)ज्ञानात् for (अ)ज्ञान्.
  4. TM. add अत्र after इति ; RA एतान् for एनान्.
  5. R विध्यानीति for विध्यतीति ; RKSI अतिप्रशस्तानि, Bh JA
    अपिपुरा for अतिप्रशस्तत्वात्; R अतिप्रशस्तानि कृत्वा for अतिप्रशस्तत्वात्.
  6. T. परीक्षते for परिहिते; Bh adds अपि after हिते.
  7. Bh साम for नाम ; RT Bh MJSA om. तद्.
  8. Bh A add इति after गायेत् ; J. after गायेत् adds: तदा
    ज्योतिर्गानमपि कर्तव्यं इत्यर्थ इति विश्वरूपा गायेदिति.
  9. RA ॰वाकाख्ये for ॰वाके ; J. om. प्रातरनुवाके ; Bh JA
    वक्तव्यम् for अनुवक्तव्यम् .
  10. R. SI. आरमय्य for आरमेत्युक्त्वा; Bh. संनतानि, JA संततानि for

यद्वा । आग्रयणं गृह्णतोऽध्वर्योः हिंकारवेलायां दशापवित्रं धारयन् तानि
गायेत् । अथवा आस्तावं बहिष्पवमानस्तुतिदेशं प्राप्य स्तोमयोगात् पूर्व-
मग्निर्ज्योतिर्ज्योतिरग्निरित्येवं प्रथमः पादः । इन्द्रो ज्योतिर्ज्योतिरिन्द्र इति
द्वितीयः । सूर्यो ज्योतिर्ज्योतिः सूर्य इति तृतीयः । एवमेतांस्त्रीन् पादान्
प्रत्येकं त्रिरभ्यस्य, प्रथमे पादे त्रिरभ्यस्ते मनसा गायत्रम् [अ] निरुक्तं गायेत् ।
एवमुत्तरयोरपि ॥ ९ ॥
विश्वरूपगानस्य ऋचः प्रथमं पादमनूद्य व्याचष्टे—
युञ्जे वाचं शतपदीम् (सा. १८२९) इत्याह ।
वाग्वाव शतपद्यृक् शतपदी शतसनिमेव तदात्मानं च
यजमानं च करोति ॥ १० ॥
शतपदीं वाचं युञ्जे साम्ना युनज्मीति यदाह वाग्वाव वाचा वै
शतपदी बहुपादयुक्ता ऋगपि शतपदी गायत्र्यादिभेदेन बहुपादोपेता । तदा
तया शतपथा आत्मानं यजमानं च, शतसनिं, सनिः दानं बहुदानमेवोद्गाता
करोतीति ॥ १० ॥
द्वितीयपादमनूद्य व्याचष्टे—
गाये सहस्रवर्तनीति साम वै सहस्रवर्तनि सहस्र-
सनिमेव तदात्मानं च यजमानं च करोति ॥ ११ ॥

  1. JA अथवा for यद्वा.
  2. K. आस्तवं for आस्तावं; M. adds प्राप्य after आस्तावं; Bh.
    ०मानं स्तुतिं for ०मानस्तुति०
  3. KT एकः for. एवं प्रथमः
  4. T. is blank from सूर्यो upto पादान् and then adds:
    [प]ञ्चविंशब्राह्मणे इडान्ताः पवमाना भवन्तीति ज—
  5. T. गायत्री, SK. गायत्रीं for गायत्रं; अनिरुक्तं See CN.
  6. TK. इति for अपि.
  7. R. ०गानाश्रय, JA ०गानाश्रयस्य for गानस्य; T. विश्व[—]
    र्थमेतत् तनुं यदि गायत्रः प्रथमस्त्रिरात्रः तर्हि प्र[—]पदीमित्याह for विश्वरूपा...
    शतपदीम् (सा. १८२९) इत्याह.
  8. Sh M ०वर्तनी for ०वर्तनि.

३८ षड्विंशब्राह्मणम्

सहस्रवर्तनि स्तोभादिभेदेन बहुवर्तनि साम गायेदिति । साम वै
सहस्रवर्तनि, तत् तदा तेन साम्ना आत्मानं च यजमानं च सहस्रसनिमेव
उद्गाता करोतीति ॥ ११ ॥
तृतीयपादमनूद्य व्याचष्टे—
गायत्रं त्रैष्टुभं जगदिति गायत्रं वै प्रातःसवनं
त्रैष्टुभं माध्यंदिनं सवनं जागतं तृतीयसवनं सवनान्येव
तद्यथास्थानं यथारूपं कल्पयति ॥ १२ ॥
किंच गायत्रं त्रैष्टुभं जगद् (सा. १८२९ᶜ&१८३०ᵃ) इति यदाह
गायत्रमेव प्रातःसवनम् । तच्चुरस्त्वात् । त्रैष्टुभं त्रिष्टुप्छन्दस्कं माध्यंदिनं
सवनम् । त्रिष्टुब्बहुलत्वात् । जागतं तृतीयसवनम् । तच्छन्दोयुक्तत्वात् । तत् तेन
त्रीण्यपि सवनानि यथास्थानं स्वस्वस्थानमनतिक्रम्य यथारूपं गायत्र्याद्यु-
पेतत्वादिरूपमनतिक्रम्य कल्पयति उद्गाता समर्थयति ॥ १२ ॥
चतुर्थं पादमनूद्य व्याचष्टे —
विश्वा रूपाणि संभृता (सा. १८३०ᵇ) इति विश्वमेव
तद्वित्तमात्मने च यजमानाय च संभरति ॥ १३ ॥
विश्वा सर्वाणि रूपाणि धनानि संभृता तैः सवनैः संभृतानि संपा-
दितानि तेष्वेव समस्तकार्यकरणात् इति यदाह तत् तेन विश्वं सर्वम् एव


  1. Bh IS ॰वर्तिनि, K ॰वर्तिन: for ॰वर्तनि.
  2. Bh. ॰वर्तिनिनिति, IS ॰वर्तिनी, K. ॰वर्तिनि for ॰वर्तनि.
  3. Bn. om. गायत्रं...व्याचष्टे (L. 13).
    8 JA. om. किं च गायत्रं...समर्थयति (L. 12)
  4. M. after ॰चुरस्त्वात् adds प्रातःसवनस्य । तथा.
  5. RIS om. त्रिष्टुब ॰ ; M. after ॰बहुलत्वात् adds माध्यंदिनस्य । तथा; M. after ॰युक्तत्वात् adds तृतीयसवनस्य ।
  6. R. समर्द्वयति for समर्थयति; M. after समर्थयति adds इत्यर्थः.
  7. Bh. om. विश्वा; KMIS. om. रूपाणि; J निधनानि for धनानि; M. om. संभृता तैः सवनै; IA संभृतानि सवनानि for संभृता; JA संभृतैः for तैः;
  8. M. adds सवनेषु after तेषु ; Bh A add अपि and J एव after विश्वम् ; J. अपि for एव.