सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)

Shadvimsha Brahmana of the Samaveda with Commentary

सामवेदीय वैदिक ऋषि मण्डल द्वारा

DevanagariSanskritpublished226 पृष्ठ

[Header]
प्रथमोऽध्यायः (४) ३९

वित्तम् आत्मने च यजमानाय च संभरति उद्गाता संपादयति ॥ १३ ॥
पञ्चमं पादमनुवदति—
देवा ओकांसि चक्रिरे इति ॥ १४ ॥
देवा इन्द्रादयश्च एतानि सत्राणि ओकांसि स्थानानि चक्रिरे
कृतवन्तः ॥ १४ ॥
इति वेदितारं प्रशंसति—
ओको हास्मिन् यज्ञः कुरुते य एवं वेद ॥ १५ ॥
यः पुमान् एवम् उक्तप्रकारेण विश्वरूपागानं वेद अस्मिन् यज्ञो
ज्योतिष्टोमादिः ओकः स्थानमेव कुरुते । तत्रैव प्रतितिष्ठतीत्यर्थः ॥ १५ ॥
पुनराख्यायिकया विश्वरूपागानं स्तौति—
असितमृगा ह स्म वै पुरा कश्यपा उद्गायन्त्यथ ह
युवानमनूचानं कुसुरुबिन्दमौद्दालकिं ब्राह्मणा उद्गीथाय
वव्रे । ते होचुः परि वै नोऽयमार्त्विज्यमादत्ते हन्तेममनु-
व्याहरामेति तं हानुव्याहरिष्यन्त उपनिषेदुः । स होवाच
ब्राह्मणा नमो वो अस्तु प्राह्णे वा अहं यज्ञं समस्थापयं
यथा तु वै ग्रामस्य यातस्य शीर्णं वा भग्नं वा अनु
समावहेदेवं वा अहं यज्ञस्यातोऽधिकरिष्यामीति । ते ह
हिंकृत्योत्तस्थुः क इदमस्मा अवोचदिति ॥ १६ ॥
पुरा पूर्वं कश्यपाः तद्गोत्रोत्पन्ना ऋषयः असितमृगाः सन्तः विश्वरूपाः
उद्गायन्ति स्म खलु । अथ पुनस्तत्र युवानमनूचानं साङ्गवेदाध्यायिनम्


  1. M. adds धनम् after वित्तं; Bh IA om. च after आत्मने;
    M. adds स्वस्मै स्वात्मने after आत्मने च.
  2. Bh JA om. स्थानानि.
  3. R Bh IS. यज्ञे for यज्ञो.
  4. Bh ०बिन्दुं for बिन्दं; TIA ब्राह्मण० for ब्राह्म०.
  5. Bh. om. ब्राह्मणा; Bh TSK. संस्था० for समस्था०.
  6. J. असितमृग० for सन्तः विश्व०.
  7. J. साम० for साङ्ग०. •

४० षड्विंशब्राह्मणम्

औद्दालकिम् उद्दालकस्यापत्यं कुसुरुबिन्दनामानमृषिं ब्राह्मणाः केचि-
दुद्गीथाय उद्गीथभक्तिगानाय वव्रे वव्रिरे वृतवन्तः । ततः ते ब्राह्मणा ऊचुः
परस्परमेवमवोचन् किल । अयं कुसुरुबिन्दः नः अस्माकम् आर्त्विज्यम्
ऋत्विक्कर्म पर्यादत्त एव । हन्तेति प्रश्ने । इमं कुसुरुबिन्दम् अनुव्याहराम
यत्किंचित् पृच्छाम इति । ते पुनः अनुव्याहरिष्यन्तः सन्तः
तमुपनिषेदुः समीपं प्राप्ताः । स पुनस्तेषामभिप्रायं ज्ञात्वा एवमुवाच—हे
ब्राह्मणाः ! वः युष्मभ्यं नमः नमस्कारः अस्तु । प्राह्णे वै प्रातरेव अहं यज्ञं
समस्थापयं परिसमापयामि । यथा तु वै यथा तु खलु यातस्य गतस्य
ग्रामस्य शीर्णं कीटाद्युपहतं वाहनं वा गृहादिकं वा भग्नम् अनुसमादधेत्
(०वहेत् ?) । कश्चित् समर्थः समादधीत एवं वै एवमेव अहं यज्ञस्य
अतोः वैकल्यपरिहाराय । अनेन यजमानेन अधिकरिष्यामि नियुक्तोऽस्मीति ।
तेनोक्तास्ते ब्राह्मणाः अस्मै कुसुरुबिन्दाय इदम् अस्मन्मनसि स्थितम्
अभिप्रायजातं कः खलु अवोचदिति ब्रुवाणाः हिंकृत्य हिंकारं कृत्वा
उत्तस्थुरिति । इतिशब्दो वाक्यसमाप्तिद्योतनार्थः ॥ १६ ॥
इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे षड्विंशब्राह्मणे
प्रथमाध्याये चतुर्थः खण्डः ॥


  1. Bh TSK. कुसुविन्द० for कुसुरुबिन्द०; JA ब्राह्मणः कश्चिद् for ब्राह्मणाः केचित् ।
  2. JA अग्रणीरित्यर्थः for आर्त्विज्यं.
  3. ISK add ऋत्विजं before ऋत्विक्कर्म; Bh. ०बिन्दुं for बिन्दं.
  4. Bh T यं, JA वयं for यत्; SI. तेन for ते.
  5. Bh SI. संस्था० for समस्था०.
  6. JA om. वाहनं, Bh TI ग्रहा० for गृहा०; Bh TAJ om. वा भग्नं.
  7. Bh JA किंचित् for कश्चित्; JA ०धत्ते for ०दधीत.
  8. JA अर्थिना० for अतो०.
  9. Bh JA तस्मै for अस्मै; TK कुसुविन्दाय for कुसुरुबिन्दाय; JA om. इदम् अस्मन् ० K Bh. अस्मिन् ० for अस्मन् ०.
  10. KT ०जातकं for ०जातं; JA कश्चित् for खलु.
  11. Bh A ins परि before समाप्ति०.

पञ्चमः खण्डः
वाङ्मनसस्वरूपविदं वासिष्ठं वा ब्रह्माणं कुर्यादिति विधातुमादौ
तत्प्रशंसार्थमिदमाम्नायते—
इन्द्रो ह वै विश्वामित्रायोक्थमुवाच । वसिष्ठाय ब्रह्म ।
वागुक्थमित्येव विश्वामित्राय । मनो [वाव] ब्रह्म वसिष्ठाय ॥१॥
इन्द्रो ह इन्द्रः किल विश्वामित्रायैवोक्थमुवाच । वसिष्ठाय ब्रह्म
उक्तवान् । कथम् ? वागेवोक्थमिति विश्वामित्राय । मनो वाव ब्रह्मेति
वसिष्ठाय ॥ १ ॥
तद्वा एतद्वासिष्ठं ब्रह्म ॥ २ ॥
तद्वै तस्मादेव । एतद्ब्रह्म वासिष्ठं वसिष्ठस्यैवासाधारणम् । स एव ब्रह्म-
विदामग्रणीरित्यर्थः ॥ २ ॥
एवं वाङ्मनसे वसिष्ठं च प्रशस्य इदानीं तद्विदं वासिष्ठं वा ब्रह्माणं
कुर्वीतेति विधत्ते—
अपि हैवंविदं वा वासिष्ठं वा ब्रह्माणं कुर्वीत ॥ ३ ॥


  1. SIA ०मनः, T ०मनसः for ०मनस; AJ om. वाङ्मनस...
    ०माम्नायते.
  2. S. ०योक्थ्यम् T ०योऽर्थम् for ०योक्थम् .
  3. मनो वाव See CN.
  4. J. वाङ्मनसस्वरूपविदे खलु for इन्द्रो ह इन्द्रः किल.
  5. R. वागेव कथम्, J. कथं चोक्तम् । वागित्‍येवम् उक्थम् for कथं
    वागेवोक्थम् ; I मन इति J एवं for मनो वाव.
  6. JA विन्दति for विदाम् and om. अग्रणीरित्यर्थः.
  7. JA ०मनसयोर्वेदितारं वासिष्ठं for वाङ्मनसे...
  8. KTJA Bh. ब्राह्मणं for ब्रह्माणं.

४२ षड्विंशब्राह्मणम्

अपि ह अत एव एवंविदं यथोक्तप्रकारेण वाङ्मनसयोर्वेदितारं, वासिष्ठं
वसिष्ठगोत्रोत्पन्नं वा त्रयीविदं ब्रह्माणं कुर्वीत ॥ ३ ॥
सोदाहरणं वाङ्मनसयोर्यज्ञनिर्वाहकत्वं दर्शयति --
तद्यथोभयवर्तनिना रथेन यां यां दिशं प्रार्थयते
तां तामभिप्राप्नोत्येवमेतेनोभयवर्तनिना यज्ञेन यं कामं
कामयते तमभ्यश्नुते ॥ ४ ॥
तत्रैवं सति यथा लोके कश्चित् समर्थ उभयवर्तनिना उभे वर्तन्यौ
चक्रे यस्य तेन रथेन यां यां दिशं गन्तुं प्रार्थयते कामयते तां तां
दिशम् अभिमुखं प्राप्नोति, एवं तथैव उभयवर्तनिना,-उभे वाङ्मनसे वर्तन्यौ
चक्रस्थानीये यस्य तेन-, एतेन यज्ञेन यं कामम् इष्टं पदार्थं कामयते
यजमानः तमभ्यश्नुते अभितः प्राप्नोति । तथा च बह्वृचब्राह्मणे पठ्यते-
अथ केन ब्रह्मत्वं क्रियत इति त्रय्या विद्ययेति ब्रूयात् । अयं वै यज्ञो योऽयं
पवते तस्य वाक् च मनश्च वर्तन्यौ वाचा हि मनसा च यज्ञो वर्तते
(ऐ. ब्रा. ५. ३३. २) इति ॥ ४ ॥
ब्रह्मकर्तव्यं वाग्यमनं विधातुं तत्प्रशंसार्थं तस्य वाग्व्यवहारं
निन्दति-
अथार्धभाग्वै मनः । प्राणानां स यद्व्याहरति वाचि
तन्मनः प्रतिष्ठापयति । तद्यथैकवर्तनिना रथेन न कांचन
दिशं व्यश्नुते तादृगेतत् ॥ ५ ॥


  1. JA स्वत० for अत०; RI. ०मनसो० for ०मनसयो०.
  2. TR. Bh यशे for यज्ञ.
  3. T. एवमेव तेन for एवमेतेन.
  4. R यद्युभे, Bh JAK यद्यो for यथा.
  5. Bh JA om. कामयते.
  6. Bh JA add कामम् after तम्.
  7. RS. कथं for अथ.
  8. Bh MTKSA वर्तन्या for वर्तन्यौ; R Bh JA add च after वाचा.

अथैति ब्रह्मकर्तव्यविध्युपक्रमे । प्राणानाम् इन्द्रियाणां मध्ये मनो
यज्ञस्यार्धमार्गवै । तद्वर्त्तन्यात्मकत्वात् । तथा च सति स ब्रह्मा यद्व्याहरति
वाग्विसर्जनं करोति तत् तदा वाचि मनः प्रतिष्ठापयति । वाङ्मनसे
एकीकुर्यादित्यर्थः । मनःपूर्वकत्वाद्वाक्प्रवृत्तेः । तत् तत्रैवं सति यथा लोके
कश्चित् एकवर्तनिना एकचक्रेण रथेन कांचन कामपि दिशं न व्यश्नुते न
प्राप्नोति । एतद् वाचा व्याहरणमपि तादृक् । तेन यज्ञफलं न सिध्येत ।
वैकल्यादित्यर्थः ॥ ५ ॥
एवं प्रशस्य वाग्यमनं विधत्ते—
यावदृचा यजुषा साम्ना कुर्युस्तावद् ब्रह्मा वाचंयमो
बुभूषेत् ॥ ६ ॥
ऋग्यजुःसामभिर्होत्राध्वर्युद्गातारो यावत् स्वस्वकर्म कुर्युः तावत्
तावन्तं कालं ब्रह्मा वाचंयमो वाग्यमनवान् बुभूषेद्भवेत् । अत्र विशेषमाह
द्राह्यायणः—प्रणीतासु प्रणीयमानासु वाचं यच्छेदा तासां विमोचनात् ।
तास्वेव प्रणीयमानास्वाहविष्कृतस्तम्बयजुषश्चाध्यासमिधः प्रस्थानीयाया
इति वा । यत्राध्वर्युर्बह्वृचौ चेष्टेतां यत्र न चेष्टेतां वाग्यतः प्रायस्त्वेव
स्यात् (१२.२.३२-३४; ला.४.११.१-३) इति । अस्यार्थः—प्रणीताप्रण-
यनमारभ्य तद्विमोचनपर्यन्तम् । अथवा । प्रणीताप्रणयनप्रभृति आहविष्कृतः
हविष्कृदेहीति संप्रैषपर्यन्तम् । यद्वा, स्तम्बयजुरारभ्य आसमिधः प्रस्थानीयायाः—
प्रस्थानम् अनुयाजप्रचारः तदर्था समित् प्रस्थानीया तस्या आधानपर्यन्तं वा ।
2. RSI om. तद्; RKTMJ om. स; Bh JA यद्वाचा
व्या० for यद्व्या०.
3. RS add वाक् before मनः.
4. S. om. मनः...वैकल्यादित्यर्थः (L. 7).
5. RJAK. add न after रथेन.
6. R Bh M. व्याप्नोति for प्राप्नोति.
12. MSI om. बुभूषेत् ; RJSIK तत्र for अत्र.
14. R. ०श्चाराध्या for ०श्चाध्या०.
17. T. adds तत् before तद्विमो० ; RJ ०णयनमारभ्य for ०णयनप्रभृति.

अथवा, अध्वर्युहोत्रोः यावत्कर्म तावत् । यद्वा, उभयोः कर्माभावेऽपि ब्रह्मवाचो
न कामचारः । किंतु, तत्रापि ब्रह्मा प्रायेण वाग्यत एव स्यादिति ॥ ६ ॥
ऋग्वेदादिविहितकर्मन्यूनातिरेके प्रायश्चित्तत्वेन ब्रह्मणा कर्तव्यं व्याहृति-
होमं विधातुमादौ वेदत्रयसारत्वेन लोकत्रयसारत्वेन च व्याहृतीः प्रशंसति—
प्रजापतिर्वा इमांस्त्रीन् वेदानसृजत । त एनं सृष्टा
नाधिन्वन् तानभ्यपीडयत् । तेभ्यो भूर्भुवःस्वरित्यक्षरत् ।
भूरित्यृग्भ्योऽक्षरत् । सोऽयं लोकोऽभवत् । भुवरिति
यजुर्भ्योऽक्षरत् । सोऽन्तरिक्षलोकोऽभवत् । स्वरिति
सामभ्योऽक्षरत् । स स्वर्गो लोकोऽभवत् ॥ ७ ॥
प्रजापतिः ब्रह्मा सर्गादौ इमान् प्रसिद्धान् ऋगादीन् त्रीन् वेदान्
असृजत । तेन सृष्टास्ते वेदाः एनं प्रजापतिं नाधिन्वन् नाप्रीणयन् । ततः
प्रजापतिः तेभ्यः सारजिघृक्षया तानभ्यपीडयत् । तेभ्यः पीडितेभ्यः
भूर्भुवःस्वरिति व्याहृतित्रयमक्षरत् निरगच्छत् । तस्य विवरणम्—ऋग्भ्यः
ऋग्वेदात् भूरित्यक्षरत् । सः व्याहृतिरूपः रसः अयं भूलोकोऽभवत् ।
यजुर्भ्यो यजुर्वेदाद् भुव इत्यक्षरत् । सः रसो अन्तरिक्षलोकोऽभवत् ।
सामभ्यः सामवेदात् स्वरित्यक्षरत् । स रसः स्वर्गो लोकोऽभवत् ॥ ७ ॥
प्रथमं व्याहृतिहोमं सस्तुतिकं विधत्ते—

  1. T अध्वर्युहोत्रेः for उभयोः; Bh. ०वयो, T ०वर्चो for ०वाचो.
  2. IS. om. ब्रह्मा; R Bh JA om. एव.
  3. Bh J स्वर्ग० for स्वर्गो०.
  4. Bh JA om. सर्गादौ; SK स्वर्गादौ for सर्गादौ; RJA ऋग्वेदा०
    for ऋगा०.
  5. Bh A add किल after अक्षरत्.
  6. I सस्तुतिं for सस्तुतिकं.

प्रथमोऽध्यायः (५)
४५

तद्यदृक्त उल्बणं क्रियेत गार्हपत्यं परेत्य भूः स्वाहेति
जुहुयात् । अयं वै लोको गार्हपत्योऽयं लोक ऋग्वेदस्तद्वा
इमं च लोकमृग्वेदं च स्वेन रसेन समर्द्धयति ॥ ८ ॥
तत्र यदृक्तः ऋग्वेदविहितात् कर्मण उल्बणं न्यूनमधिकं वा
होत्रादिभिः क्रियेत तर्हि ब्रह्मा गार्हपत्यम् अग्निं परेत्य भूःस्वाहेति अनया
व्याहृत्या जुहुयात् । अयं वै अयमेव भूलोको गार्हपत्यः । अयम् एव लोकः
ऋग्वेदः । तद्वै तेनैव होमेन इमं च लोकम् ऋग्वेदं च स्वेन स्वकीयेन
रसेन सारेण समर्द्धयति समृद्धं करोति ॥ ८ ॥
द्वितीयव्याहृतिहोमं सप्रशंसं विधत्ते—
अथ यदि यजुष्ट उल्बणं क्रियेतान्वाहार्यपचनं परेत्य
भुवः स्वाहेति जुहुयात् । अन्तरिक्षलोको वा अन्वाहार्य-
पचनोऽन्तरिक्षलोको यजुर्वेदः । तद्वा अन्तरिक्षलोकं च
यजुर्वेदं च स्वेन रसेन समर्द्धयति ॥ ९ ॥
अथेत्यवान्तरवाक्योपक्रमे । यजुष्टो यजुर्वेदविहितात् कर्मणो
यद्युल्बणं न्यूनमधिकं वा अध्वर्वादिभिः क्रियेत तर्हि अन्वाहार्यपचनं
दक्षिणाग्निं परेत्य भुवः स्वाहेति ब्रह्मा जुहुयात् । अन्तरिक्षलोको वै अन्त-
रिक्षलोक एव अन्वाहार्यपचनः । अन्तरिक्षलोक एव यजुर्वेदः । तद्वै तेनैव
होमेन अन्तरिक्षं च यजुर्वेदं च स्वेन रसेन सारेण समर्द्धयति ॥ ९ ॥
तृतीयव्याहृतिहोमं सप्रशंसं विधत्ते—
अथ यदि सामत उल्बणं क्रियेताहवनीयं परेत्य स्वः
स्वाहेति जुहुयात् । स्वर्गो वै लोक आहवनीयः । स्वर्गो


  1. TI. क्रियते for क्रियेत.
  2. Bh. adds वै after अयं.
  3. I. क्रियते for क्रियेत; Bh K तत्र for ब्रह्मा; TISA. om. ब्रह्मा;
    KTS add तत्र I. अत्र after परेत्य.
  4. Bh TISAK add च after लोकं.
  5. R. om. सारेण; Bh समृद्धि०, T समृद्धी० for समृद्धं.
  6. RK om. सारेण; JA om. रसेन.
  7. Bh. (आ) हवनीय० for व्याहृति०.

लोकः सामवेदः । तद्वै स्वर्गं च लोकं सामवेदं च स्वेन
रसेन समर्धयति ॥ १० ॥
स्पष्टमेतत् ॥ १० ॥
एवं विशेषेण प्रायश्चित्तं विधायेदानीं साधारणेन दर्शयति—
अतो वाव यतमस्मिन्नेव कतमस्मिंश्चोल्बणं क्रियेत
सर्वेष्वेवानुपर्यायं जुहुयात् । तथा हास्य यज्ञोऽस्कन्नः
स्वगाकृतो भवतीति ॥ ११ ॥
अतो वाव अग्नौ वा यतमस्मिन् कतमस्मिन् च कर्मणि उल्बणं
न्यूनमधिकं वा क्रियेत तदा सर्वेषु अग्निषु अनुपर्यायं क्रमेण व्याहृतिभिः ब्रह्मा
जुहुयात् । तथा च अस्य यजमानस्य यज्ञः अस्कन्नः अन्यथाकृतो न
भवति । किं तु, स्वगाकृतो यथोक्तमार्गेणैव कृतो भवति ॥ ११ ॥
हविषः स्कन्दने पात्रादीनां च भेदने प्रायश्चित्तं विधातुम् आदौ दोषं
दर्शयति—
अथ स्कन्नाद्वा भिन्नाद्वा त्रेधा यज्ञ उत्क्रामति देवान् दिवं
तृतीयमन्तरिक्षं मनुष्यांस्तृतीयं पृथिवीं पितॄंस्तृतीयम् ॥ १२ ॥
अथ पुनः स्कन्नाद् हविषः स्कन्दनाद् वा भिन्नात् पात्रादीनां
भेदनाद् वा यज्ञस्त्रेधा त्रिप्रकारेण उत्क्रामति । कथम्? देवान् दिवं
3. R Bh JA add अथ यदि सामत इत्यादि समर्द्धयतीति before
स्पष्टमेतत् .
4. Bh T. विशेषणं for विशेषेण; SIK साधारण्येन for साधारणेन
R Bh JA प्रदर्शयति for दर्शयति.
5. S. क्रियते for क्रियेत.
7. Bh. स्वागा० for स्वगा०.
8. Bh T अथो० for अतो०; TJA add कस्मिंश्चित् after
कतमस्मिन्.
10. M. आहविष्कृतः for यज्ञः अस्कन्नः.
11. Bh. स्वागा० for स्वगा०.
12. R Bh JA हविषां KM हविष् ० for हविषः; MTIKS ०स्कन्दे
for स्कन्दने; TMIKS भेदे for भेदने.
16. R Bh IJSAMs अध for अथ.
17. S. अयं for कथं; I om. कथम्.

तदधिष्ठितद्युलोके(कं ?) चेति । तृतीयं गगनं, त्रित्वसंख्यापूरकत्वात् । एवमन्यदपि
व्याख्येयम् ॥ १२ ॥
तत्र प्रायश्चित्तं विधत्ते—
तदभिमृशेद्दे॒वान् दि॒वं य॒ज्ञोऽगा॒त्ततो॒ मा द्रवि॑ण-
मष्टु । अ॒न्तरि॑क्षं मनु॒ष्या॒न्य॒ज्ञोऽगा॒त्ततो॒ मा द्रवि॑णमष्टु । पृथि॒वीं
पि॒तॄन् य॒ज्ञोऽगा॒त्ततो॒ मा द्रवि॑णमष्टु । यत्र॑ क्व च
य॒ज्ञोऽगा॒त्ततो॒ मा द्रवि॑णमष्टु । इति । तद्वा आ॒त्मानं॑ च॒
यज॑मानं च॒ स्वेन॒ रसे॑न॒ समर्ध॑यति ॥ १३ ॥
देवान् इन्द्रादीन् दिवं च यज्ञोऽगात् अगमत् । ततः तत्सकाशात्
मा मां द्रविणम् अष्टु प्राप्नोतु । एवमन्यदपि व्याख्येयम् । देवानित्यारभ्य यत्र
क्व च यज्ञोऽगात्ततो मा द्रविणमष्ट्वित्यन्तेन मन्त्रेण तत् स्कन्नं हविर्बर्हिः
च पात्रादिकमभिमृशेत् । तद्वै तेनैव अभिमर्शनेन आत्मानं च यजमानं च
स्वेन रसेन यज्ञफलेन समर्द्धयति ॥ १३ ॥
यज्ञहविरुल्बणे वैष्णववारुण्यार्चा अपामुपनिनयनं प्रायश्चित्तत्वेन
विधातुं तदर्थवादत्वेनेदमाम्नायते—
वरुणो वा एतद्विष्णौ यज्ञमुपार्पयति ॥ १४ ॥
वरुणो वै अपां पतिः वरुण एव । एतत्,--लिङ्गव्यत्ययः,--
विष्णावुपार्पयति स्थापितवानिति ॥ १४ ॥

  1. ISK. तदधिष्ठितद्विलोके, R Bh MTIA तदधिष्ठितद्युके यदधिष्ठितं
    for तदधिष्ठितद्युलोकं See CN; MTSK त्रिक० for त्रित्व०.
  2. Bh MTJA om. इन्द्रादीन् Bh JA उदगमत्, M अक्रामत् for
    अगमत्; T Bh तत्काशाच्च मां, JA तत्कारणं मा मां, RSI तत्सकाशात् आत्मा
    for तत्सकाशात् मा मां.
  3. BhA add ततः and J तद् after द्रविणं.
  4. Bh JA om. तत्; M. एतत for तत्.
  5. R Bh JA om. first च; SIK om. एव.
  6. Bh JA ०हविषाम् for हविः; Bh JA om. उल्बणे; M.
    ०वारुण्याभ्याम्, for ०वारुण्यार्चा; Bh JA. नयनं for नि नयनम्.
  7. IS. om. एव; MT तल्लि० for एतल्लि०; Bh. adds दृष्ट्वा
    after यज्ञम्.

अथ प्रायश्चित्तं विधत्ते—
यद्यज्ञ उल्बणं क्रियते तदप उपनिनयेद्ययोरोजसा
स्कभिता रजांसि वीर्यैर्भिर्वीरतमा शविष्ठा या पत्येते अप्रतीता
सहोभिर्विष्णू अगन्वरुणा पूर्वहूतौ स्वाहेति तद्वा आत्मानं
च यजमानं च स्वेन रसेन समर्द्धयति ॥ १५ ॥
यद् यदि यज्ञे उल्बणं क्रियते तत् तर्हि ययोरोजसा इत्यादिना
स्वाहान्तेन मन्त्रेण अपः उदकानि तस्मिन् हविषि उपनिनयेत् पाकवेलायां
हविर्द्रुतं चेत् । तद्वै तेनैव अपामुपSecondaryनिनयेन आत्मानं च यजमानं च स्वेन रसेन
यज्ञफलेन समर्द्धयति इति । वरुणेन यज्ञस्य विष्णौ समर्पितत्वात् वैष्णववा-
रुण्यर्चा अपामुपSecondaryनिनयने कृते यज्ञः समाहितो भवतीत्यर्थः । अस्य मन्त्रस्यायमर्थः ।
ययोः विष्णुवरुणयोरोजसा तेजसा च रजांसि लोकाः स्कभिता स्कभितानि
यथावत् स्थापितानि । किं च । [या] यौ वीर्यैभिः वीर्यैः बलैः वीरतमा
अतिशयेन वीरौ तथा शविष्ठा शविष्ठौ अतिशयेन बलवन्तौ । अपि च या यौ
सहोभिः अन्यदीयैः बलैः अप्रतीता अप्रतिगतौ पत्येते ईश्वरौ भवतः ।
पत्यतिरीश्वर्यकर्मा । पूर्वहूतौ पूर्वं प्रथमम् आह्वातव्यौ विष्णू वरुणौ । उभयत्र
द्विवचनं परस्परसाहित्यापेक्षया । विष्णुवरुणावित्यर्थः । तावगन् यज्ञोऽगमत् ।
गमेर्लुङि लेर्लुकि मो नो धातोः (पा. ८. २. ६४) इति नकारे कृते रूपम् ।
स्वाहा सुहुतमस्त्विति ॥ १५ ॥
इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे षड्विंशब्राह्मणे
प्रथमाध्याये पञ्चमः खण्डः


  1. Bh K. क्रियेत for क्रियते.
  2. A मन्त्रेण स्कन्नं हविर्भिन्नं for स्वाहान्तेन मन्त्रेण; J om. स्वाहान्तेन
    and adds स्कन्नं हविर्भिन्नं पात्रादि after मन्त्रेण.
  3. Bh K उद्गच्छेत् for उद्गतं चेत् ; Bh ०नयने, TIA ०निनयने for ०निनयेन.
  4. JA विष्णोः for विष्णौ.
  5. JA पात्राणम् for अपाम् ; RSI. समर्पितो० for समाहितो०.
  6. RJSIA om. स्कभिता; MTSI•
  7. यद्यावत् for यथावत्.
  8. IS. add इति after ०वरुणौ.

षष्ठः खण्डः
विराजोऽतिरेके तन्न्यूनतायां च प्रायश्चित्तं दर्शयितुमाह—
ये विराजमतियजन्ते विराजमेव त ईप्सन्तोऽमुष्मिन्
लोके श्राम्यन्ति । अथ य एनामर्वाग्दम्भ्नुवन्ति विराजमेव त
ईप्सन्तोऽमुष्मिन् लोके श्राम्यन्ति । तेषां तथा श्राम्यतां सुकृतं
क्षीयते । न हि तदमुष्मिन् लोके शक्नुवन्ति यदस्माल्लोकाद्-
कृत्वा प्रयन्ति ॥ १ ॥
ये ऋत्विजः विराजं दशसंख्याम्, दशाक्षरा विराड् (श. ब्रा.
१.१.२२, ऐ. ब्रा. ३.४१.४) इति श्रुतेः । चतुष्टोमस्य ज्योतिष्टोमस्य
तस्य नवतिशतं स्तोत्रीया (तां ब्रा. १६.१.८) इति स्तोत्रीयाणां संख्या-
संपत्तिर्ब्राह्मणेऽभिहिता । ताश्च विराजा संपाद्यन्ते । अतस्तत्संपत्तिहेतुर्दशसंख्या
विराट् । तां यदि अतियजेरन् अतिक्रम्य

५० षड्विंशब्राह्मणम्
अथ पुनः ये ऋत्विजः एनां विराजं अर्वाग् दम्भ्नुवन्ति [ते] उक्तस्तोत्रीया-
संख्यां न्यूनां कुर्युरित्यर्थः । अन्यत् समानम् । किं च, तथा श्राम्यतां
व्यर्थमास्यतां तेषां सुकृतं पूर्वार्जितमपि पुण्यं क्षीयते । तथा हि—यत्
कर्म अकृत्वास्माल्लोकात् प्रयन्ति परलोकं, तत्कर्मफलं प्राप्तुममुष्मिन् लोके
न शक्नुवन्ति इति विराजोऽतिरेकन्यूनत्वे प्रत्यवायहेतुत्वात् प्रायश्चित्तनिमित्ते ।
तत्र प्रायश्चित्तविशेषस्यानुक्तत्वात् पूर्ववत् सामोल्बणे यत् आहवनीये स्वः
स्वाहा (ष.विं.ब्रा.१.५.१०) इति प्रायश्चित्तमुक्तं तदेवात्रापीत्युपगन्तव्यम् ॥ १ ॥
होत्रादीनां व्यापाराभावेऽपि ब्रह्मणो वाग्यमनलोपे प्रायश्चित्तविधानाय
तत्रापि ब्रह्मणो वाग्यमनमाख्यायिकापूर्वं विधातुम् उपक्रमते—
एतद्ध स्माहोद्दालक आरुणिः कथं ते यजेरन् कथं
वा याजयेयुर्ये यज्ञस्य व्यृद्धेन न नन्दन्ति । नन्दन्ति
यत्समृद्धेनेति ॥ २ ॥
एतत् वक्ष्यमाणम् आरुणिः अरुणपुत्रः उद्दालकनामा ऋषिः [ह] एव
आह स्म उक्तवान् किल । ये ऋत्विजः यज्ञस्य व्यृद्धेन समृद्धयभावेन ।
अङ्गवैकल्येनेत्यर्थः । न नन्दन्ति दुःखिता भवन्ति । यत्समृद्धेन यस्य
यज्ञस्य संपूर्त्या नन्दन्ति हृष्टा भवन्ति । ते कथं केन प्रकारेण कस्मिन् काले
यजेरन् वा अथवा कथं याजयेयुरिति ॥ २ ॥

  1. MSI. om. ऋत्विजः; Bh. एनं for एनां; MSI स्तुवन्ते for
    दम्भ्नुवन्ति.
  2. RK Bh MS कृत्वा for अकृत्वा; RJ om. परलोकं.
  3. Bh M add तन्० before न्यूनत्वे.
  4. Bh J ०श्चित्तेति for ०श्चित्त०.
  5. RKJSI. ०त्यव० for ०त्युप०.
  6. R Bh MJ add स्व० before व्यापार; MJ om. ०ऽपि.
  7. K. वृद्धयै for व्यृद्धेन.
  8. J उद्दालको नाम for उद्दालकनामा; R J Bh om. एव.
  9. R. समृद्धाङ्गाभावेन for समृद्धयभावेन.

प्रथमोऽध्यायः (६)     ५१


ततः किमित्यत्र आह—
अहं वाव काले यजेय । अहं काले याजयेयम् । योऽहं
यज्ञस्य व्यृद्धेन न नन्दामि । नन्दामि यत्समृद्धेनेति ॥ ३ ॥
अहं वाव अहमेव काले यजेय । अहमेव काले याजयेयम् ।
मत्तोऽन्यः कः काले यजेत याजयेद्वा । अन्यदतिरोहितार्थम् ॥ ३ ॥
कथमित्यत्राह—
अपि ह स्वादेव कामाद्यज्ञस्य व्यर्द्धयति । भूयसी-
रुपाप्सीरुपाप्स्यामि भिषक्कृत्वा ॥ ४ ॥
यो ब्रह्माणमकृत्वा काले न यजेत याजयेद्वा। स यज्ञस्य संबन्धिनः
स्वात् स्वीयात् कामादपि व्यर्द्धयत्येव हीयते एव खलु । अतोऽहं भिषक्कृत्वा
ब्रह्माणं भिषजं प्रायश्चित्तविदं कृत्वा भूयसीरुपाप्सीः प्राप्तव्यान् बहून् कामान्
उपाप्स्यामीति ॥ ४ ॥
ब्रह्मकरणे विद्वत्संमतिं दर्शयति—
एतद्ध स्म वै तद्विद्वानाह— यावद्वा ऋचा होता
करोति होतृष्वेव तावद्यज्ञः । यावद्यजुषाध्वर्युराध्वर्युष्वेव
तावत् । यावत्साम्नोद्गातोद्गातृष्वेव तावद् । ब्रह्मण्येव
तावद्यज्ञो यत्रोपरताः ॥ ५ ॥
तदेतत् वक्ष्यमाणं विद्वानाह स्म उक्तवान् किल । यावद्वै यावत्येव काले
होता ऋचा करोति शस्त्रादिकं पठति तावद्धोतृष्वेव यज्ञस्तिष्ठति । यावदेव


पादटिप्पण्यः (Footnotes)

  1. MSIK किं तत्र for किमित्यत्र
  2. RSI. अन्यो, J अपि for मत्तो०.
  3. R उक्त्वा, T कृत्वा for अकृत्वा ; J om. यो ब्रह्माणम् ... याजयेद्वा;
    Bh T. यज्ञसं० for यज्ञस्य सं; J यजमानसंबन्धिनः स यज्ञफलानि सत्त्वान्नाश्रीयात् स्वस्मात् for यज्ञस्य...स्वीयात् .
  4. Bh. सत्त्वान्नाश्रीयात् for स्वीयत् .
  5. R. विद्वत्त्वम् अङ्गं, J विद्वत्सज्ञां, SI विवर्थङ्गम for विद्वत्संमतिम . see CN.
  6. SK om. एव; M. adds यत्र यस्मिन् काले before यावदेव
    L. om. यावदेव...यज्ञस्तिष्ठति (P. 52. l. 1)

५१ षड्विंशब्राह्मणम्

अध्वर्युर्यजुषा यजुर्वेदविहितं कर्म करोति तावदध्वर्युष्वेव यज्ञस्तिष्ठति ।
यावदुद्गाता साम्ना स्तोत्रादिकं पठति तावदुद्गातृष्वेव यज्ञस्तिष्ठति । यत्र
यस्मिन् काले उपरता होत्रादयः कर्मरहितास्तिष्ठन्ति तावद् ब्रह्मण्येव यज्ञ-
स्तिष्ठतीति ॥ ५ ॥
अस्त्वेवम्, ततः किम्? तत्राह—
तस्मात्तस्मिन्नन्तर्धौ ब्रह्मा वाचंयमो बुभूषेत् ॥ ६ ॥
यस्मादेवं तस्मात्तस्मिन्नन्तर्धौ होत्रादीनां व्यापाराभावकाले ब्रह्मा
वाचंयमो बुभूषेत् सावधानो भवेदेवेत्यर्थः ॥ ६ ॥
एवं वाग्यमनं विधाय तल्लोपे प्रायश्चित्तमाह—
स यदि प्रमत्तो व्याहरेदेता वा व्याहतीर्मनसानु-
द्रवेत् । भूर्भुवःस्वरिति ॥ ७ ॥
यदि ब्रह्मा प्रमत्तः अनवहितः सन् व्याहरेत् मौनं परित्यजेत् तर्हि
भूर्भुवःस्वरिति एता व्याहृतीः मनसा अनुद्रवेत् चिन्तयेत् ॥ ७ ॥
वाशब्दसूचितं प्रायश्चित्तान्तरमाह—
वैष्णवीं वर्चम् ‘इदं विष्णुर्विचक्रमे’ (सा. २२२) ॥ ८ ॥
यदि प्रमादाद् ब्रह्मा तदा व्याहरेत्तर्हि इदं विष्णुर्विचक्रमे (सा. 222)
इति वैष्णवीमृचं वा मनसा अनुद्रवेदित्यनुषङ्गः ॥ ८ ॥
अथ सर्वप्रायश्चित्ततया महाव्याहृतिभिः होमं विधातुम् उपक्रमते—

  1. J adds करोति after साम्ना.
  2. Bh MI. om. तावद्.
  3. R. किं तत इत्यत्राह for ततः किं ? तत्राह...
  4. SI. om. यस्मादेवं; Bh T. ०भावात् for ०भाव०.
  5. Bh एवेत्यवधारणो, M साधारणो० J एवेत्यवधारणं, T अवधारणे
    for सावधानो०.
  6. M. तस्य लोपे for तल्लोपे.
  7. M प्रमादेन सः for अनवहितः सन .
  8. MKSI. om. ब्रह्मा तदा.
  9. TJ ०व्याहृत्या होमं SK ०व्याहृति होमं for ०व्याहृतिभिः होमं,
    Bh JR add होमम् after विधातुम्.

प्रथमोऽध्यायः (६) ५३
राज्ञो ह मितस्य मर्कटोऽशूनादाय वृक्षमपुप्लुवे ॥ ९ ॥
मितस्य मुष्टिभिः परिमितस्य राज्ञः सोमस्य अंशून् अवयवान् आदाय
मर्कटः मर्कटवेषधारी इन्द्रः । उत्तरत्र मघवन्निति मर्कटस्य संबोध्यमानत्वात् ।
वृक्षमपुप्लुवे उदपतत् ॥ ९ ॥
ततः किमित्यत्राह—
स हारुणिराहुतिमुद्यत्योवाच पुनः वैनान्निवप्स्यस्यतो
वाव मृतोऽवपप्स्यस इति ॥ १० ॥
पश्चाव् आरुणिः उद्दालकः प्रायश्चित्तं कर्तुम् आहुतिमुद्यत्य एवम्
उवाच—हे मर्कट ! त्वम् एनान् अंशून् पुनः निवप्स्यसि प्रक्षेप्स्यसि वा,
अथवा मृतः सन् अतो वृक्षाद् अवपप्स्यसे अवपत्स्यसीति ॥ १० ॥
मर्कटस्योत्तरं दर्शयति—
स होवाच किं होष्यसीति ॥ ११ ॥
पुनरारुणेर्वचनं दर्शयति—
प्रायश्चित्तमिति ॥ १२ ॥
प्रायश्चित्तं होष्यामीति ॥ १२ ॥
पुनर्मर्कटस्य प्रश्नमाह--
किं प्रायश्चित्तमिति ॥ १३ ॥
आरुणिरुत्तरमाह—
सर्वप्रायश्चित्तमिति ॥ १४ ॥

  1. K Bh MT आपुप्लुवे for अपुप्लुवे.
  2. R. ०रूपः, MK. ०रूपी for ०वेषधारी.
  3. Bh MTSK. om. ह; T. आहुतीः for आहुतिम् ; Bh निवप्स्य
    ह्यवः प्रपश्यते, for निवप्स्यस्यतो.
  4. MJSTK. om. प्रायश्चित्तं.
  5. RJS add क्त्वा before निवप्स्यति; Bh MJ. om. प्रक्षेप्स्यसि.
  6. J om. अवपत्स्यसीति.
  7. J मर्कटः for मर्कटस्य and om. प्रश्नम्.

५४ षड्‌विंशब्राह्मणम्
पुनर्मर्कटः पृच्छति--
किं सर्वप्रायश्चित्तमिति ॥ १५ ॥
आरुणिरुत्तरमाह--
महाव्याहतीरेव मघवन्निति ॥ १६ ॥
हे मघवन् ! महाव्याहतीरेव प्रायश्चित्तार्थं होष्यामीति शेषः ॥ १६ ॥
पुनः आरुणिं मर्कटः पृच्छति--
स होवाचोम् आरुणे यदाहुतिमनूचिषे कथं नु विदां-
चकर्थ मर्कटोऽशूनादत्तेति ॥ १७ ॥
सः मर्कटः ओमिति अङ्गीकृत्य एवमुवाच ह — हे आरुणे! आहुतिमन् !
उद्यताहुतियुक्तस्त्वं, मर्कटोऽशून् आदत्त आजहार अतः सर्वप्रायश्चित्तं
होष्यामीति, यदूचिषे कथं नु कथमिव तत् विदांचकर्थ अस्येदं प्रायश्चित्तमिति
कथमज्ञासीरित्यर्थः ॥ १७ ॥
पुनरारुणेरुत्तरमाह—
स होवाच यच्चावगतं यच्चानवगतं सर्वस्यैषैव
प्रायश्चित्तिरिति ॥ १८ ॥
स एवमुवाच ह यत् कर्मणो न्यूनत्वमधिकत्वं वा अवगतं ज्ञातं
यदपि चानवगतं तस्य सर्वस्य ज्ञातस्याज्ञातस्याविहितविशेषप्रायश्चित्तस्यैषैव
महाव्याहतिरेव प्रायश्चित्तिरिति शास्त्रतोऽवगच्छामीति ॥ १८ ॥
अस्तु, प्रस्तुते किमायातम् ! इत्यत्राह—
तस्मादेतामेव जुहुयात् ॥ १९ ॥

३. M. adds पुनः before आरुणिः.
५. Bh MJ. om. होष्यामीति...पृच्छति.
७. T. आहुतिमान for आहुतिमन्.
९. JTM आहुतिमान् for आहुतिमन्.
१०. RS उद्यताहुतिः यत् यतः तत्स्त्वं, KI. उद्यताहुतियत्तस्त्वं for
उद्यताहुतियुक्तस्त्वं.
११. Bh TJ कथमिति for कथमिव; Bh J कस्य for अस्य.
१२. RSI अविज्ञासी० for अज्ञासी०.
१७. M Bh SI. om. (अ)ज्ञातस्य; T. विहित० for (अ)विहित.
१८. MSI. ०व्याहृती० for ०व्याहृति०.

प्रथमोऽध्यायः (६) ५५
यस्मादेवं तस्मात् एतां महाव्याहृतिमेव सर्वप्रायश्चित्तार्थं
जुहुयात् । १९ ॥
तत्रैव प्रायश्चित्तान्तरमाह—
अपि वाज्ञातं यदनाज्ञातं यज्ञस्य क्रियते मिथुवग्ने
कल्पय त्वम् । हि वेत्थ यथायथं स्वाहेति । अपि वा
प्राजापत्यां प्रजापते न त्वदेतान्यन्यो विश्वा जातानि परिता
बभूव । यत्कामास्ते जुहुमस्तन्नो अस्तु वयं स्याम पतयो
रयीणां स्वाहेति । तद्द्वा आत्मानं च यजमानं च स्वेन
रसेन समर्द्धयति ॥ २० ॥
अपि वा अथवा आज्ञातम् अवगतं यन्न्यूनत्वम् अधिकत्वं वा यदपि च
अनाज्ञातं यज्ञस्य संबन्धि मिथु मिथः क्रियते हे अग्ने अस्य यज्ञस्य संबन्धि
तद् उभयं कल्पय फलसमर्थं कुरु । हि यस्मात् त्वं यथायथं कर्मणः स्वरूपं
वेत्थ जानासि स्वाहा सुहुतमस्तु इति अनेन मन्त्रेण जुहुयात् । अपि वा
अथवा हे प्रजापते ! यान्येतानि विश्वा विश्वानि जातानि भुवनानि [त्वत् ]
त्वत्तोऽन्यो न परिता बभूव । त्वमेव परिभवसीत्यर्थः । वयं यत्कामाः
यदभीष्टं कामयमानाः ते तुभ्यं जुहुमः नः अस्माकं तद् अभीष्टम् अस्तु ।
किं च, वयं रयीणां धनानां पतयः स्याम स्वाहेति अनेन मन्त्रेण प्राजापत्यां
प्रजापतिदेवताकाम् आहुतिं जुहुयात् । तद्वै तेनैव आत्मानं च यजमानं च
स्वेन अभीष्टेन रसेन यज्ञफलेन समर्द्धयति समृद्धं करोति इति ॥ २० ॥
10. RSI. om. यन्० ; RSIT om. वा after अधिकत्वं; Bh. यावद्
for यद्; J. वा for च.
11. J. adds ऋत्विग्भिः after मिथु.
12. MSK ०तथं for यथं.
13. M. om. मन्त्रेण.
14. Bh J. om. अथवा; Bh J. प्राजापत्यां प्रजापत इत्यस्य व्याख्यानं
त्यक्तं भवतीत्यर्थः for हे प्रजापते...०भवसीत्यर्थः ।
15. RSI. परिता भवसि for परिभवसि.
16. J. यदित्थं for यदभीष्टं ; R adds इति after अस्तु.
19. SIK समर्थं, Bh समृद्धि for समृद्धं; RKSI. om. इति.

द्वितीय प्रपाठक (त्रिवृत् स्तोम एवं सोमयाग विधि)

५६ षड्विंशब्राह्मणम्
अथ यज्ञे मृण्मयपात्रभेदने प्रायश्चित्तं दर्शयति—
अथ यद्वै किंच यज्ञे मृन्मयं भिद्येत तदभिमृशेत् ,
भूमिर्भूमिमगान्म्राता मातरमप्यगाद् । भूयाम पुत्रैः पशुभि-
र्योऽस्मान् द्वेष्टि स भिद्यतामिति । तद्वा आत्मानं च यजमानं
च स्वेन रसेन समर्धयति ॥ २१ ॥
अथ पुनः यद्वै किंच यदपि शरावोदञ्चनादिकं मृन्मयं पात्रं यज्ञे
भिद्येत तद् भिन्नं पात्रं भूमिर्भूमिम् इत्यादिना मन्त्रेण अभिमृशेत् । अस्य
मन्त्रस्य अयमर्थः—भूमिः विकारात्मिका भूमिः प्रकृतिभूतां भूमिं पृथिवीम्
अगात् । अपि च, माता सर्वस्य जगतो निर्मात्री पृथिवी मातरं
पृथिवीमेवागात् । द्यौः पिता पृथिवी माता (तै. ब्रा. 2.8.6.5) इति श्रुतेः ।
वयं तु पुत्रैः पशुभिश्च समृद्धा भूयाम भूयास्म । यः शत्रुः अस्मान् द्वेष्टि
स भिद्यतां विदीर्यताम् इति । तद्वै तेनैव तदभिमर्शनेन आत्मानं च यजमानं च
स्वेन रसेन यज्ञफलेन समर्धयति इति ॥ २१ ॥
इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे षड्विंशब्राह्मणे
प्रथमाध्याये षष्ठः खण्डः ॥ ६ ॥

  1. Bh MI. भेदेन for भेदने; RS add इति after दर्शयति.
  2. RS मृण्मयं for मृन्मयं.
  3. M. सर्वमृदां K. समृदाभोगतां for सर्वस्य जगतो; MKI निर्मा
    for निर्मात्री.

निनेदुः । कथं नु तेषां शर्करा अक्ष्सु
Line 20: 6. Bh. प्रदीव्य० for दीप्य०; T ओषधीपति for ओषध्यधिपति.
Line 21: 7. RSIK. add इति after प्रमीयते; M. इति प्रभवतीति for इव
Line 22: भवति ; Bh MSIT. एवं for एनं.
Line 23: 14. R. तद्देवताभ्यः, K. एताभ्यां for यदेवाभ्यां.

Looks very precise and complete.सप्तमः खण्डः
अर्थवादपुरःसरं सौम्यं चरुं विधत्ते--
घ्नन्तीव वा एतत्सोमं राजानं प्रेव मीयते ।
यदेनमभिषुण्वन्ति तस्यैतामनुस्तरणीं कुर्वन्ति यत्सौम्यं
चरुम् । तस्मात् पुरुषाय पुरुषायानुस्तरणी क्रियते ॥ १ ॥
राजानं दीप्यमानमोषध्यधिपतिं वै सोमं घ्नन्तीव हिंसन्तीव । स च
सोमः तेन प्रमीयते इव भवति । यद् यस्माद् एनं सोमम् अभिषुण्वन्ति ।
तस्याभिषुत

५८ षड्विंशब्राह्मणम्

जायेरन् यास्त्वं विद्या इति । तेभ्य एतत्सौम्ये चरौ
श्यावमाज्यं प्रायच्छत् । तदवेक्षन्त । ते प्रापश्यन् । प्रपश्यत्य-
नन्धो भवति य एवं विद्वान्सौम्यं चरुम् अवेक्षते ॥ २ ॥
पुरा सत्रं बहुकर्तृकं द्वादशाहादिबहुदिनसाध्यं यागम् आसीनानाम्
अनुतिष्ठतां साध्यानाम् एतन्नामकानां देवानाम् अक्षसु चक्षुषु शर्कराः
सिक्ता जज्ञिरे जाताः । ते देवा इन्द्रमुपनिषेदुः उपागमन् । गत्वा
चैवमवोचन् । तेषां सत्रमासीनानाम् अस्माकं चक्षुषु शर्कराः कथं नु
जायेरन् । हे इन्द्र ! त्वं याः चक्षुषु उत्पन्नाः शर्करा विद्या जानीषे इत्येवंपृष्ट
इन्द्रः तत्परिहाराय तेभ्यो देवेभ्यः सौम्ये चरावेतत् प्रसिद्धं श्यावम् आज्यं
प्रायच्छत् । ततस्ते तदाज्यमवेक्षन्त । तदवेक्षणेन ते देवाः प्रापश्यन् । तेषां
चक्षूंष्यपनीतशर्कराण्येभूवन्नित्यर्थः । अतो यः कश्चित् पुमानेवं विद्वान् जानन्
सौम्यं चरुमाज्यपूर्णमवेक्षते स प्रपश्यति सम्यक् पश्यति, अनन्धश्च
भवति । तस्माद्धुतशिष्टम् ज्यपूर्णं चरुमवेक्षेतेत्यर्थः । अत्र विशेषो बह्वृचब्राह्मणे
श्रूयते—प्रतिगृह्य सौम्यं होता पूर्वं छन्दोगेभ्योऽवेक्षेत तं हैके पूर्वं
छन्दोगेभ्यो हरन्ति तत्तथा न कुर्यात् । वषट्कर्ता प्रथमं सर्वभक्षान्
भक्षयतीति ह स्माह तेनैव रूपेण तस्माद्वषट्कर्तैव पूर्वोऽवेक्षेताथैनं
छन्दोगेभ्यो हरन्ति (ऐ. ब्रा. 3. 32. 5. 6) इति ॥ २ ॥
प्रशंसापूर्वकं सेतिकर्तव्यताकं सौम्यचरुप्राशनं विधत्ते —


  1. Bh SI. ०हादिकं for ०हादि०.
  2. BJ. पृष्टमात्र for पृष्ट इन्द्रः.
  3. Bh J. ०गत० for ०नीत०.
  4. Bh J. आज्यं पुनर् for आज्यपूर्णम् ; Bh SJ. om. स प्रपश्यति... अवेक्षेतेत्यर्थः ।; R om. सम्यक्पश्यति.
  5. M. ०शेषम् for शिष्टम् ; RJ. अवेक्षते for अवेक्षेत.
  6. RSJ ०वैक्षत for ०वेक्षेत; SlK. हैव for हैके; Bh. पूर्वार्धे for पूर्वं.
  7. RJ प्रथमः for प्रथमं; M. ०भक्षणात् for भक्षान्.
  8. M. यं for अथैनं.
  9. PM. प्रशंसनं for प्राशनं see CN·