षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)
Shadvimsha Brahmana of the Samaveda with Commentary
सामवेदीय वैदिक ऋषि मण्डल द्वारा
पृष्ठ 36, कुल 226 में से
संदर्भ में पढ़ेंकिं बहुना । तेन येन गायत्री ज्योतिः । तेन येन सर्वाणि देवता ज्योतिः ।
ज्योतिराख्यं सामैवाहमगासिषं न तम इति । किंच, युष्मांस्तु प्रतिवक्तॄन्
युष्मानेव पाप्मना पापरूपेण तमसा विध्यानि बाधे । युष्मानेव अज्ञान्
करोमीत्याह ब्रूयात् । तत्रैवं सति एनान् प्रतिवक्तॄन् पाप्मनैव तमसा
विध्यतीति । एवमतिप्रशस्तत्वात् विश्वरूपगानपक्षे ज्योतींषि गायेदित्यर्थः ।
यत् स्तूयते तद् विधीयते इति न्यायेन स्तुत्या विधिकल्पनस्य युक्तत्वात् ।
अत एव द्राह्मायणो विश्वरूपगानपक्षे ज्योतिर्गानं कालं प्रकारं च दर्शया-
मास । विश्वरूपाश्चेद्गायेज्ज्योतींष्यपि गायेत् । परिहिते प्रातरनु-
वाकेऽपोनप्त्रीयं नाम सूक्तं पुरा तस्मात्तद्धोतारमारमयित्वाग्रयणस्य
वानुहिंकारं पवित्रं धारयन्नास्तावे वा प्राप्य पुरा स्तोमयोगादग्निर्ज्योतिर्ज्योति-
रग्निरिन्द्रो ज्योतिर्ज्योतिरिन्द्रः सूर्यो ज्योतिर्ज्योतिः सूर्य (सा. १८४१)
इत्येतेषु पादेषु त्रिस्त्रिरेककमभ्यासं मनसा गायत्रं गायेत् (२.४.१८-२२;
ला. १. ८. १३-१४) इति । अस्यार्थः । यदि विश्वरूपा गायेत् तर्हि होत्रा
प्रातरनुवाके शस्त्रे समापिते सति तेनैवानुवक्तव्यमपोनप्त्रीयं नाम किंचित्
सूक्तमस्ति । तदनुवचनात् पूर्वं होतारमारमेत्युक्त्वा उद्गाता ज्योतींषि गायेत् ।
- M. before सर्वाणि adds: किं बहुना गायत्री ज्योतिस्तेन येन
बहुनोक्तेन येन तेन ; Bh AI after ज्योतिः adds: अभवत् । तज्ज्योतिः
and A after तज्ज्योतिः and before सामैव adds: ज्योतिराख्यं साम । - M. ज्योतिर्ज्योतिरवश्यं for ज्योतिराख्यं; JA ॰वक्तृषु for
॰वक्तॄन्. - M. (अ)ज्ञानात् for (अ)ज्ञान्.
- TM. add अत्र after इति ; RA एतान् for एनान्.
- R विध्यानीति for विध्यतीति ; RKSI अतिप्रशस्तानि, Bh JA
अपिपुरा for अतिप्रशस्तत्वात्; R अतिप्रशस्तानि कृत्वा for अतिप्रशस्तत्वात्. - T. परीक्षते for परिहिते; Bh adds अपि after हिते.
- Bh साम for नाम ; RT Bh MJSA om. तद्.
- Bh A add इति after गायेत् ; J. after गायेत् adds: तदा
ज्योतिर्गानमपि कर्तव्यं इत्यर्थ इति विश्वरूपा गायेदिति. - RA ॰वाकाख्ये for ॰वाके ; J. om. प्रातरनुवाके ; Bh JA
वक्तव्यम् for अनुवक्तव्यम् . - R. SI. आरमय्य for आरमेत्युक्त्वा; Bh. संनतानि, JA संततानि for