सामग्री पर जाएँ
सर्वकोश
षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)

षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)

Shadvimsha Brahmana of the Samaveda with Commentary

सामवेदीय वैदिक ऋषि मण्डल द्वारा

DevanagariSanskritpublished226 पृष्ठ

पृष्ठ 24, कुल 226 में से

संदर्भ में पढ़ें
पृष्ठ 24

२४ षड्विंशब्राह्मणम्
तस्यैव विवरणम् । सत्यं चानृतं च वदतीति । जगत्यां कावाख्यम् एकं
साम भवति । तस्माद् अधिष्ठानभेदाद् अक्षिणी द्वे सती समानम् अवैलक्षण्येन
पुरस्तादायन्तं पदार्थं पश्यतः । करणे कर्तृत्वोपचारः । न तु पश्चात् पृष्ठत
आयन्तं भावं चक्षुषा पुमान् पश्यति । श्रोत्रेण यथा पृष्ठतः शब्दं
शृणोति न तद्वदित्यर्थः ॥ १२ ॥
अवशिष्टस्य यज्ञायज्ञीयस्य मूर्धात्मकत्वं दर्शयति—
अथ यदेव तत ऊर्ध्वं मूर्धा तद्यज्ञायज्ञीयम् ॥ १३ ॥
अथ पुनः ततो यथोक्तेभ्यो गायत्र्या(त्रा?)दिभ्यः सामभ्यः ऊर्ध्वं
यदेव साम भवति तद्यज्ञायज्ञीयम् मूर्धा पुरुषविधस्य यज्ञस्य शिरस्थानीयम् ।
उत्तमत्वात् ॥ १३ ॥
यथोक्तं यज्ञायज्ञीयविदं स्तौति—
मूर्धा स्वानां भवति य एवं वेद ॥ १४ ॥
यः पुमान् एवं यज्ञायज्ञीयं मूर्धानं वेद स स्वानां ज्ञातीनां मध्ये
मूर्धा श्रेष्ठो भवति ॥ १४ ॥
एतदेव विवृणोति—
अध इव वा अन्यान्यङ्गान्युपरीव मूर्धा अध इवास्मादन्ये
स्वा भवन्त्युपरीव स्वानां भवति । य एवं वेद ॥ १५ ॥
मूर्ध्नोऽन्यान्यङ्गानि अध इव वै अधस्तादेव भवन्ति खलु । मूर्धा तु
एषामुपरीव उपर्येव भवति । यः पुमानेवं यज्ञायज्ञीयं मूर्धानं वेद अस्माद्

  1. Bh. om. एव.
  2. JA. तस्याधिष्ठानम्। तदा अक्षिणी for तस्माद. . .अक्षिणी.
  3. J. om. पदार्थं.
  4. RBSIK add: नहि पश्चादायन्तं पश्यतीति after इत्यर्थः
  5. RS मूर्धात्मतां for मूर्धात्मकत्वं.
  6. J. तथान्ते, Bh A तथान्तो० M. तथा for ततो०.
  7. Bh JA om. एव; T संभवति for भवति.
  8. RSTK यथोक्त for यथोक्तं; J. ०विदः for विदं.
  9. S. adds. यः पुमानेवं वेदेति after एवं वेद.
  10. MTSIK. अथ० for अध० Bh MSK. अथ० for अध०.
  11. M. om. तु.