सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

सङ्गीतमकरन्द (देवर्षि नारद - प्राचीन भारतीय सङ्गीत, राग-रागिनी वर्गीकरण व नाद-ब्रह्म)

Sangitamakaranda of Narada (Musicology & Raga-Ragini)

देवर्षि नारद (सम्पादक: एम. आर. तेलंग) द्वारा

DevanagariSanskritpublished76 पृष्ठ

रागाध्याय: राग-रागिनी वर्गीकरण एवं गायन-समय निर्णय

सङ्गीताध्याये द्वितीयः पादः । ११
कैर्मारवा च विज्ञेया तथाऽनी कैशिकी तथा ।
उच्चनीचा तथारूपा विरूपा विमतायतिः ॥ १०९ ॥
जातयोऽष्टादश ह्येवं ब्रह्मणा गदिताः पुरा ।
तद्विदित्वा नारदेन गीतरूपाणि वर्णयन्(?) ॥ ११० ॥
स्वरप्रकृतिविकृतयः ।
प्रकृती द्वे विजानीयात्स्वरतन्त्रेषु संस्थिते ।
तत्रापि च तयोर्मध्ये षड्जादि च निषादकम् ॥ १११ ॥
या सा प्रकृतिर्विज्ञेया भरतेन च चर्चिता ।
विकृतिश्च निषादादिषड्जान्तस्वरपूरिता ॥ ११२ ॥
तन्त्रीप्रकृतिविकृतयः ।
द्वितीया प्रकृतिः संज्ञा कथ्यते नारदेन च ।
षड्जाद्योपश्रुतयश्चत्वारो गुणसंज्ञकाः(?) ॥ ११३ ॥
तेषु सर्वेषु वर्तन्ते वाद्यादयः प्रकल्पिताः ।
अनुवादि च वाद्यन्ताविततं कथ्यते बुधैः ॥ ११४ ॥
इति श्रीनारदकृते सङ्गीतमकरन्दे सप्तस्वरोत्पत्तिपञ्चनादोत्पत्तिप्रकृतिनिरूपणं
नाम प्रथमपादः ।
सङ्गीताध्याये द्वितीयः पादः ।
अथ सङ्गीतदेहनिरूपणम् ।
चैतन्यं सर्वभूतानां विवृतं जगदात्मना ।
नादब्रह्म तदानन्दमद्वितीयमुपास्महे ॥ १ ॥
गीतस्वरूपं वक्ष्याम्यतिविचित्रं मनोहरम् ।
राज्ञां कौतुकसंलापं विदुषां ज्ञानहेतुकम् ॥ २ ॥
१ 'कार्मारवी च विज्ञेया तथाऽन्ध्री कैशिकी तथा' इति भ. ना. पाठः ।

१२ सङ्गीतमकरन्दे
तत्स्वरूपं तत्तन्नादि चालापं स्वरगर्भजम् ।
प्रकृतिशवलं ब्रह्म वीणारूपं तदुच्यते ॥ ३ ॥
तच्चैतन्यं समाश्रित्य व्यवहारस्तु भिन्नतः ।
तदेव वीणाशबलं नारदाय ददौ स्वभूः ॥ ४ ॥
वीणादेहं प्रवक्ष्यामि तदङ्गानि यथाक्रमम् ।
शिरांसि त्रीणि देहस्य ग्रामत्रयमुदाहृतम् ॥ ५ ॥
मन्द्रमध्यमताराख्यमुखानि त्रीणि कध्यते (?) ।
सानुपादाय चत्वारो गीतजिह्वा प्रकीर्तिता ॥ ६ ॥
वादी स्वराणां राजा स्यान्मन्त्री संवादिरुच्यते ।
स्वरो विवादी वैरी स्यादनुवादी च भृत्यवत् ॥ ७ ॥
तेषां मार्गास्तु चत्वारः सुषिरं घनतन्तुवत् ।
देशी शुद्धमृदङ्गाद्या उपाङ्गा अङ्गमार्गकाः ॥ ८ ॥
सप्तस्वराणि नेत्राणि गीतदेहस्य सप्त वै ।
द्वाविंशच्छ्रुतयो जाता नारदेन विवक्षिताः ॥ ९ ॥
षङ्गमध्यमपञ्चैते (?) चत्वारः श्रुतयो मताः ।
निषादगान्धारौ द्वे द्वे त्रित्रि ऋषभधैवतौ ॥ १० ॥
रागालसिरूपलक्षी इम्र्नौ * कथितौ मतौ ।

[Header: सङ्गीताध्याये द्वितीयः पादः । १३]

प्रसन्नमध्यं च तथा क्रमादुच्चित एव च ।
बिन्दुर्निवृत्तप्रकृतौ ॰॰॰॰प्रेखो (प्रेङ्ख?) विह्वलौ ॥ १६ ॥
कम्पितं कुपितश्चैव विजृम्भितविवर्द्धनौ ।
गमकैकोनविंशश्च चरणान्यपि कथ्यते ॥ १७ ॥
हरिर्नेत्रा हरिश्चैव मतङ्गः कश्यपो मुनिः ।
विश्वकर्मा हरिश्चन्द्रो भरतः कमलास्यकः ॥ १८ ॥
चण्डी व्यालश्च शार्दूलो नारदस्तम्बुरुस्तथा ।
वायुर्विभावसुः शौरिराञ्जनेयोऽङ्गदस्तथा ॥ १९ ॥
षण्मुखो भृङ्गिदेवेन्द्रः कुयेरः कुशिको मुनिः ।
मात्रागुप्तो रावणश्च समुद्रश्च सरस्वती ॥ २० ॥
बलियक्षः किन्नरेशो विक्रमोऽपि यथाक्रमम् ।
एभिः सङ्गीतके प्रोक्ता मँाता द्वादशलक्षणाः ॥ २१ ॥
यद्गीतस्य तु देहस्य लक्षणं परिकीर्तितम् ।
ब्रह्मवीणास्वरूपं च न पूर्णं न स्त्रियं विदुः ॥ २२ ॥
यः शृणोति स पापेभ्यो मुच्यते नात्र संशयः ।
पुत्रपौत्रधनं धान्यं लभ्यते शत्रुनाशनम् ॥ २३ ॥
राज्याभिवृद्धिसन्तानं मोक्षैकफलदायकम् ।
सर्वश्रेयस्करं पुंसां नारदस्य मतं यदा ॥ २४ ॥

इति श्रीनारदकृतौ सङ्गीतमकरन्दे वीणादेहनिरूपणं नाम
द्वितीयपादः ।


१ ॰क्रमरेचित॰ इति संगीतरत्नाकरे वर्तते । २ अत्र वर्णद्वयमादर्शपुस्तके त्रुटितम् । 'प्रेङ्खः'
इति भरतनाव्यशास्त्रस्यः पाठः । ३ ॰मातृगुप्तो॰ इति शुद्धः पाठः स्यात् । ४ 'माताः' इति पाठः
स्यात् ।

१४ सङ्गीतमकरन्दे
सङ्गीताध्याये तृतीयः पादः ।
अथ रागनामान्युच्यन्ते ।
श्रुत्यन्तरभावी यः स्निग्धोऽनुरणनात्मकः ।
स्वरो रञ्जयति श्रोतृचित्तं स स्वर उच्यते ॥ १ ॥
स्वरग्रामो मूर्छनाश्च तथा तानानि वृत्तयः ।
पुष्पसाधारणा वर्णा ह्यलङ्काराश्च धावतः(?) ॥ २ ॥
श्रुतयो जातयश्चैव विधिज्ञा स्वरशासनः ।
गातव्यः समयो योऽयं वीणायां समुदाहृतः ॥ ३ ॥
स्वरग्रामे तथा ताना जाल्यैः साधारणक्रियाः ।
अलङ्काराश्च वर्णाश्च जातयश्च शरीरतः ॥ ४ ॥
सुखोपविष्टं वरदं ब्रह्माणं ज्ञानसागरम् ।
कृताञ्जलिपुटो भूत्वा नारदः परिपृच्छति ॥ ५ ॥
कति रागाः प्रगातव्याः प्रभाते सस सुस्वराः ।
तथैव कति रागाश्च केनात्र प्रतिपादिताः ॥ ६ ॥
कस्मिन् काले प्रगातव्यं वाद्यं चैव शुभाशुभम् ।
नारदस्य वचः श्रुत्वा ब्रह्मा लोकपितामहः ॥ ७ ॥
साधु साधु महातेजा यत्त्वं मां परिपृच्छसि ।
तत्सर्वं संप्रवक्ष्यामि रागवेलाविनिर्णयम् ॥ ८ ॥
यत्सुरैस्तन्न विज्ञातं नरकिन्नरनायकैः ।
देशीरागरहस्यं च साम्प्रतं शृणु यत्नतः ॥ ९ ॥
अथ सूर्यांशः ।
गान्धारो देवगान्धारो धन्नासी सैन्धवी तथा ।
नारायणी गुर्जरी च बङ्गालपल(ट?)मञ्जरी ॥ १० ॥
ललितान्दोलश्रीका सौराष्ट्रैयजयसाक्षिकौ ।
मल्हारः सामवेदी च वसन्तः शुद्धभैरवः ॥ ११ ॥
१ 'धातवः' इति समीचीनः पाठः स्यात् । २ 'जात्यसाधारणक्रियाः' इति पाठः शुद्धः स्यात् ।

सङ्गीताध्याये तृतीयः पादः । १५
वेलावली च भूपालः सोमरागस्तथैव च ।
एते रागास्तु गातव्याः प्रातःकाले विशेषतः ॥ १२ ॥
शङ्कराभरणः पूर्वो बलहंसस्तथैव च ।
देशी मनोहरी चैव सावेरी दोम्बुली तथा ॥ १३ ॥
काम्भोजि गोपिकाम्भोजी कैशिकी मधुमाधवी ।
बहुलीद्वयं मुखारी च तथा मङ्गलकौशिका ॥ १४ ॥
एते रागविशेषास्तु मध्याह्ने परिकीर्तिताः ।
शुद्धनाटा च सालङ्गो नाटी शुद्धवराटिका ॥ १५ ॥
गौलो मालवगौडश्च श्रीरागश्चाहरी तथा ।
तथा रामकृती रञ्जी छाया सर्ववराटिका ॥ १६ ॥
वराटिका द्रावटिका देशी नागवराटिका ।
कर्णाटहयगौडीति इत्येते चन्द्रमांशजाः ॥ १७ ॥
एते रागविशेषास्तु प्रातःकाले तु गेवताः ।
सायमेषां प्रगानेन तस्य श्रीरतुला भवेत् ॥ १८ ॥
ईशानं च हरिं स्मृत्वा मध्याह्नादेरनन्तरम् ।
रागतः शृण्वतो चापि सर्वपापैः प्रमुच्यते ॥ १९ ॥
प्रहरैकोदयादर्वाक् प्रहरैकोदयोपरि ।
देशाक्षी भैरवा शुद्धा नादं यत्प्रहरोद्भवम् ॥ २० ॥
वराटिका तथा शुद्धा द्रावटीरागसंज्ञिका ।
प्रहरोपरि गातव्या महारी माहुरी तथा ॥ २१ ॥
आन्दोली च रामकृती छायानाटा च रङ्गका ।
मध्याह्नात्परतो यामे गौडरागानि यानि च ॥ २२ ॥
त्रियामोपरि गातव्या शुद्धसालङ्गनाटिका ।
एवं कालविधिं ज्ञात्वा गायेद्यः स सुखी भवेत् ॥ २३ ॥
रागावेलाप्रगानेन रागाणां हिंसको भवेत् ।
यः शृणोति स दारिद्री आयुर्नश्यति सर्वदा ॥ २४ ॥

or श्र?
Because of the ink smudging at the top, or is there a loop?
Wait, look at 'च' in L10 "चान्या":
It's just 'चा'!
Wait, in L28:
स (sa) म्प (mpa) ू (ū) र्ण (rṇa) ा (ā)
Then: च (ca) ा (ā) ह (ha) र (ra) ी (ī) = चाहरी !
Wait! Look above the 'चा': there is NO loop!
Wait, is there an anusvara or something?
Ah, look at the letter:
It's simply 'चा'!
Wait, look at: सम्पूर्णा + चाहरी = सम्पूर्णाचाहरी (or सम्पूर्णा चाहरी with very small space)?
Wait, look at the letter between 'र्णा' and 'हरी':
Is it 'चा'?
Wait, let's look at the letter:
It is: च + ा = चा!
Wait, why does it look slightly like 'श्रा'? It doesn't! It's:
c + ā = चा!
Wait, let's look at 'ह':
ह + र + ी = हरी!
So it is: "सम्पूर्णाचाहरी" or "सम्पूर्णा चाहरी"!
Wait, could it be "सम्पूर्णा चाहरी" or "सम्पूर्णाऽऽहरी"?
No, it's definitely "सम्पूर्णाचाहरी"

सङ्गीताध्याये तृतीयः पादः । १७
कलहंसश्च सम्पूर्णो गान्धारादिः प्रकीर्तितः ।
वसन्तः शुद्धसंज्ञश्च सषड्जादिरुदाहृतः ॥ ३८ ॥
रामक्रिया शुद्धसंज्ञा सषड्जादिरुदाहृता ।
वराटिका शुद्धसंज्ञा सषड्जादिरुपक्रमा ॥ ३९ ॥
एवं सम्पूर्णरागाणां ग्रहस्वर उदाहृतः ।
अथ षाडवरागग्रहस्वर उच्यते ।
षाडवो देवगान्धारो गादिर्वर्ज्यो निषादकः (?) ॥ ४० ॥
नीलाम्बरी षाडवः स्याद्गादिर्वर्ज्यो निषादकः ।
श्रीरागः षाडवो रागः सषड्जादिर्गवर्जितः ॥ ४१ ॥
शुद्धबहुली मध्यमादिर्निर्वर्ज्यस्तु षाडवः ।
शुद्धगौलः षाडवः स्यान्निषादाद्धिर्वर्जितः ॥ ४२ ॥
ललितः षाडवो रागः सादिर्वर्ज्यो ग च स्वरः (?) ।
मालवश्रीः षाडवः स्यात्षड्जादिश्च रिवर्जितः ॥ ४३ ॥
भूपालः षाडवो रागो गादिः पङ्गविवर्जितः ।
पडवक्षी षाडवश्च रिवर्ज्योऽपि निपादकः ॥ ४४ ॥
गुण्डक्री षाडवश्चैव गान्धारादिर्गवर्जितः ।
कुरञ्जी षाडवो रागो निवर्यों मध्यमादितः ॥ ४५ ॥
सङ्गृह्य नारवेनैव ग्रहस्वरमुदीरितम् ।
अथ औडवरागग्रहस्वराः ।
धन्यासी औडवः प्रोक्तः सावेरी धविवर्जितः ॥ ४६ ॥
औडवो गुर्जरी प्रोक्तः सादिर्वर्ज्यौ रिधौ तथा ।
रिधौ वर्ज्यौ मध्यमादिरौडवा मधुमाधवी ॥ ४७ ॥
मेघरञ्जी मध्यमादि भनिवर्ज्यौ तथौडवः ।
वेलावल्यौडवः स्यात्तु गादिर्वर्ज्यौ सरीश्वरौ ॥ ४८ ॥
१ °गादी रिधिविवर्जितः° इति शुद्धः पाठः स्यात् ।
२

१८ सङ्गीतमकरन्दे ।
रामकृत्यौडवः स्यात्तु गादिर्वर्ज्यौ रिधौ स्वरौ ।
नारायणी निपादादिरौडवो धपवर्जितः ॥ ४९ ॥
पालिरौडवः षड्जादिर्वर्ज्यौ मध्यमपञ्चमौ ।
एवं प्रधानरागाः स्युर्लक्षणोक्तं यथाक्रमम् ॥ ५० ॥
अनन्ताः सन्ति सन्दर्भा नानादेश्याः प्रकीर्तिताः ।१
सङ्कीर्णीरूपिणो रागाः सङ्कीर्णा नाम विश्रुताः ॥ ५१ ॥
ब्रह्मौ चा (?) पाडवाश्चैव क्षत्रजा औडवास्तथा ।
सम्पूर्णा मुनिजाः प्रोक्ता भरतज्ञैः प्रशंसिताः ॥ ५२ ॥
अथ पुल्लिङ्गरागाः ।
वङ्गालः सोमरागश्च श्रीरागश्च तथैव च ।
भूपाली छायगौडश्च शुद्धहिन्दोलिका तथा ॥ ५३ ॥
आन्दोली दोम्बुली चैव गौडः कर्णाटकाह्वयः ।
फडमञ्जी शुद्धनाटी तथा मालवगौलकः ॥ ५४

सङ्गीताध्याये तृतीयः पादः । .१९
अथ नपुंसकरागाः ।
कैशिकी ललितश्चैव धन्नाशी च कुरञ्जिका ।
सौराष्ट्री द्रावडी शुद्धा तथा नागवराटिका ॥ ६० ॥
कौमोदकी च रामक्री सावेरी च तथैव च ।
बलहंसः सामवेदी शङ्कराभरणस्तथा ॥ ६१ ॥
नपुंसका इति प्रोक्ता रागलक्षणकोविदैः ।
एतन्मतं नारदस्य ब्रह्मणा कथितं पुरा ॥ ६२ ॥
रौद्रेऽद्भुते तथा वीरे पुंरागैः परिगीयते ।
शृङ्गारहास्यक¹रुणं (?) स्त्रीरागैश्च प्रगीयते ॥ ६३ ॥
भयानके च बीभत्से शान्ते गायन्नपुंसके ।
अनेन विधिना ज्ञात्वा गेयं सर्वार्थसाधनम् ॥ ६४ ॥
शृणु चान्यं प्रवक्ष्यामि नादं चैव शुभाशुभम् ।
साम्प्रतं मुनिशार्दूल गीतगानविधिं तथा ॥ ६५ ॥
मध्यमादिर्मालवश्री श्रीकापि जयसाक्षिका ।
वराटी गूर्जरी गौडकोलाहलवसन्तकाः ॥ ६६ ॥
धन्नाश्री देशदेशाख्या बङ्गालादित्रयोदश ।
रागाङ्गरागमाख्यातं नारदेन महात्मना ॥ ६७ ॥
भूपालो भैरवश्चैव श्रीरागः पडमञ्जरी ।
वसन्तमालवी नाटबङ्गालाः पुरुषाः स्मृताः ॥ ६८ ॥
वेलावली मलहरी बहुली भूपयोषितः ।
देवक्रिया च पौराली काम्भारी भैरवस्त्रियः ॥ ६९ ॥
श्रीरागपतिकाम्भोजी भल्लाती च कुरञ्जिका ।
देशी मनोहरी तुण्डी पडमञ्जरियोषितः ॥ ७० ॥
सारङ्गनाटनाडाख्या अहरीनाटयोषितः ।
नारायणी च गान्धारी रञ्जी बङ्गालयोषितः ॥ ७१ ॥
१ °करुणे स्त्री° इति शुद्धः पाठः स्यात् ।

पराटी द्रावडी हंसी वसन्तस्य च योषितः ।
गुण्डक्रिया गूर्जरी च गौडी मालवयोषितः ॥ ७२ ॥
स्त्रीपुंसरागमाख्यातं द्वात्रिंशद्रागसंमतिः ।
अन्ये षट्कं च पुरुषाः षट्त्रिंशद्गीतपारगैः ॥ ७३ ॥
श्रीरागोऽपि वसन्तश्च भैरवः पञ्चमस्तथा ।
मेघराजस्तु विज्ञेयो नाटनारायणश्च षट् ॥ ७४ ॥
गौडी कोलाहली चैव द्रावल्यान्दोलिकी तथा ।
माधवी देवगान्धारी श्रीरागस्य वराङ्गनाः ॥ ७५ ॥
शुद्धनाटा च सावेरी सैन्धवी मालती तथा ।
त्रोटिकौमोदकी चैव पञ्चमस्य वराङ्गनाः ॥ ७६ ॥
सौराष्ट्री चैव काम्भारी वङ्गाली मधुमाधवी ।
देवक्री चैव भूपाली मेघरागस्य योषितः ॥ ७७ ॥
वल्लभा माधवी चैव विदग्धा चाभिसारिका ।
त्रिवेणी मेघरञ्जी च नाटनारायणस्य च ॥ ७८ ॥
१.... .... .. .... ... ........ .... .... .... .... .... .... ........ ।
.... .... .... .... .... .... .... .... .... .... .... .... .... .... ........ ॥ ७९ ॥
आयुर्धर्मयशोवृद्धिर्धनधान्यफलं लभेत् ।
रागाभिवृद्धिसन्तानं पूर्णरागाः प्रगीयते (?)॥ ८० ॥
सङ्ग्रामरूपलावण्यविरहं गुणकीर्तनम् ।
षाडवेन प्रगातव्यं लक्षणं गदितं यथा ॥ ८१ ॥
व्याधिनाशी शत्रुनाशी भयशोकविनाशने ।
व्याधिदारिद्र्यसन्तापे विषमग्रहमोचने ॥ ८२ ॥
कामडम्बरनाशे च मङ्गलं विप्रसंहते ।
औडवेन प्रगातव्यं ग्रामशान्त्यर्थकर्मणि ॥ ८३ ॥
मुक्ताङ्गकम्पिताः केचित्केचिदर्धविकम्पिताः ।
केचित्कम्पविहीनाश्चैवेति रागास्त्रिधा कृताः ॥ ८४ ॥

  • १ एकोनाशीतितमश्लोकस्थाने आदर्शपुस्तके त्रुटिचिह्नं लिखितं वर्तते । २ °नाशे इति पाठः
    -चीनः स्यात् । ३ °मङ्गले इति पाठः अन्वयानुकूलः स्यात् ।

सङ्गीताध्याये चतुर्थः पादः । २१
अकम्पाः कम्पसंयुक्ताः सकम्पाः कम्पवर्जिताः ।
यस्तच्छृणोति मूढात्मा तावुभौ ब्रह्मघातकौ ॥ ८५ ॥
विष्णुरूपो भवेत्तालो नादश्चैव शिवात्मकः ।
प्रणवो ब्रह्म चेत्याहुर्गीतशास्त्रविशारदाः ॥ ८६ ॥
तालं धृत्वा प्रमाणेन पश्चाद्गीतं समारभेत् ।
तथा नादं प्रकुर्वीत पश्चाद्गीतं प्रगीयते ॥ ८७ ॥
अनेनैव प्रकारेण गीतमाकर्णयेद्ध्रुवम् ।
तस्य नाभावदोषोऽस्ति महापातकत्तत्समः (?) ॥ ८८ ॥
श्रुतिहीनं च यद्गानं वीणावेण्वादिसम्भवम् ।
यः शृणोति स आप्नोति पातकं दुःखमेव च ॥ ८९ ॥
अपस्वरं कुनादं च श्रुतिहीनं तथाधिकम् ।
यः शृणोति स मूढात्मा पतते नरके चिरम् ॥ ९० ॥
शोकसन्तापदारिद्र्यमायुः क्षीणं भवेद्ध्रुवम् ।
राज्यनाशो मनोदुःखं भवत्येव न संशयः ॥ ९१ ॥
ज्ञात्वा सर्वमिदं शास्त्रं यः शृणोति सदा नृपः ।
आयुरारोग्यमैश्वर्यं लभते वाञ्छितं फलम् ॥ ९२ ॥
इति श्रीनारदकृतौ सङ्गीतमकरन्दे तृतीय-
पादः समाप्तः
सङ्गीताध्याये चतुर्थः पादः ।
अथ मृदङ्गलक्षणम् ।
दक्षिणाङ्गे स्थितो रुद्र उमा वामे प्रतिष्ठिता ।
शिवशक्तिमयो नादो मर्दले परिकीर्तितः ॥ १ ॥
शिवनादे भवेद्व्याधिः शक्त्या दारिद्र्यमाप्नुयात् ।
द्विनादयुक्तः श्रेष्ठश्च श्रुतियुक्तश्च मर्दले ॥ २ ॥
स्त्रीध्वनिः पुरुषाकारः रूयाकारश्च पुंखरः ।
आयुर्लक्ष्मीहरौ नित्यमश्राव्यौ तावुभौ ध्वनी ॥ ३ ॥

२२ सङ्गीतमकरन्दे ।
सर्वेषां श्रुतिसंयुक्तमव्यक्तमधुरान्वितम् ।
नादमीदृग्विधं श्रेष्ठमायुर्लक्ष्मीकरं जगुः ॥ ४ ॥
लक्षणं तु मृदङ्गस्य कथ्यते नारदेन च ।
चतुर्विंशतिच्छन्दांसि चर्मग्रन्थीनि तानि च ॥ ५ ॥
अथ वीणालक्षणम् ।
कच्छपी कुब्जिका चित्रा वहन्ती परिवादिनी ।
जया घोषावती ज्येष्ठा नकुलीष्टेति कीर्तिता (?) ॥ ६ ॥
महती वैष्णवी ब्राह्मी रौद्री कूर्मी च रावणी ।
सारस्वती किन्नरी च सैरन्ध्री घोषका तथा ॥ ७ ॥
दशवीणाः समाख्यातास्तन्त्रीविन्यासभेदतः ।
षट्त्रिंशदङ्गुली वीणा विस्तारः पञ्चिरङ्गुलैः ॥ ८ ॥
अथ वाद्यविशेषः ।
मृदङ्गो दर्दुरश्चैव पणवस्त्वङ्गसंज्ञिकः ।
झर्झरी पटहादीनि शम्भो मुखरिकास्तथा ॥ ९ ॥
शृङ्गं च केहला चेति सुषिरादिप्रकीर्तिताः ।
हरीतक्याकृतिस्त्वन्या एवमायास्ततोर्ध्वगः (?) ॥ १० ॥
आलिङ्ग्यश्च गोपुच्छो मध्यदक्षिणवामगः ।
ढक्का डमरुगा मन्द्रा मड्डुझर्झरडिण्डिमाः ॥ ११ ॥
डड्डुत्रिविधगुञ्जा च कटकाकरणादयः ।
ध्वनिश्च विविधा ज्ञेया नारदेन कृता मताः ॥ १२ ॥
अथ स्वरादयः ।
नादोपासनया देवा ब्रह्मविष्णुमहेश्वराः ।
भवन्त्युपासिता नूनं तस्मादेतत्तदात्मकम् ॥ १३ ॥
आत्मा विवक्षमाणोऽयं मनः प्रेरयते मनः ।
देहस्थं वह्निमहती स प्रेरयति मारुतः ॥ १४ ॥
१ ०नकुली चेति० इति अथवा 'जयघोषावती ज्येष्ठा नकुल्यष्टेति कीर्तिताः' इति पाठः शुद्धः
स्यात् । २ 'काहला' इति सङ्गीतरत्नाकरादिग्रन्थान्तरे दृश्यते ।

सङ्गीताध्याये चतुर्थः पादः । २३

इति ग्रन्थिस्थितः सोऽथ क्रमादूर्ध्वपदे चरेत् ।
नाभिहृत्कण्ठमूर्ध्न्येष्वभिधारयते ध्वनिम् ॥ १५ ॥
नादोऽतिसूक्ष्मः सूक्ष्मश्च पुष्टोऽपुष्टश्च कृत्रिमः ।
इति पञ्चविधा धत्ते पञ्चस्थानस्थिताः क्रमात् ॥ १६ ॥
अतिसूक्ष्मश्च सूक्ष्मश्च पुष्टोऽपुष्टस्तथैव च ।
तारश्चेति च विज्ञेयाः पञ्चधा देहजाः स्वराः ॥ १७ ॥
नकारः प्राणमानन्दस्तकारमनलं विदुः ।
जातः प्राणाग्निसंयोगात्तेन नादोऽभिधीयते ॥ १८ ॥
व्यवहारे त्वसौ त्रेधा हृदि मन्द्रोऽभिधीयते ।
कण्ठे मध्यो मूर्ध्नि तारो द्विगुणश्चोत्तरोत्तरः ॥ १९ ॥
सूक्ष्मस्वरो हीनसूक्ष्मस्तद्वातुः श्रुतिगोचरः ।
तारः श्रुतिकठोरत्वात्त्याज्य एव न संशयः ॥ २० ॥
अन्यथा विंशतिर्भेदाः श्रवणाः श्रुतयो मताः ।
हृद्युदानादिसंयुक्ता नादा द्वाविंशतिर्मताः ॥ २१ ॥
अथ गायकलक्षणम् ।
वाङ्माधुर्योच्यते ज्ञेयं धातुरित्यभिधीयते ।
वाचं गेयं च कुरुते यः स वाग्गेयकारकः ॥ २२ ॥
शब्दानुशासनज्ञानमभिधानप्रवीणता ।
छन्दःप्रभेदवेदित्वमलङ्कारेषु कौशलम् ॥ २३ ॥
रँसभापापरिज्ञानं गीतं स्थितियिचिन्वति (?) ।
अशेषभाषाविज्ञानं कलाशास्त्रेषु कौशलम् ॥ २४ ॥
तूर्यत्रितयचातुर्यं हृद्यशारीरशालिता ।
लयतालकलाज्ञानं विवेकोऽनेककाकुषु ॥ २५ ॥
प्रभूतप्रतिभोत्थानं रम्यं सुभगगेयता ।
देशीरागेष्वभिज्ञानं वाक्पटुत्वं सभाजयः ॥ २६ ॥

१ 'वाङ्मातुरुच्यते गेयं धातुरित्यभिधीयते' इति शुद्ध पाठ स्यात् । २ 'रसभावपरिज्ञानं देश-
स्थितिषु चातुरी' इति सङ्गीतरत्नाकरे दृश्यते (पृ १४४) । ३ 'प्रभूतप्रतिभोद्भेदभाक्त्व सुभगगे-
यता' इति सङ्गीतरत्नाकरस्य पाठ (पृ १४४) ।

२४ सङ्गीतमकरन्दे ।
रोपेद्वेषपरित्यागी ( गः ? ) साधुत्वमुचितज्ञता ।
अनुद्धतोक्तिसंबन्धो नूनधातुविनिर्मकः ॥ २७ ॥
परचित्तपरिज्ञानं प्रबन्धेषु प्रगल्भता ।
द्रुतगीतविनिर्माणं पदान्तरविद्ग्धता ॥ २८ ॥
त्रिस्थानगमकप्रौढो विविधालसिनैपुणः (?) ।
अवधानगुणैरेभिः परो वाग्गेयकारकः ॥ २९ ॥
विदधानोऽधिकं चैवं मातृमन्दसुमध्यमः ।
धातुंमातृपदप्रौढः प्रबन्धेष्वपि मध्यमः ॥ ३० ॥
रम्यमातुविनिर्माता अधमो मन्दधातुकृत् ।
वरो यस्तु कविर्वर्णकविर्मध्यम उच्यते ॥ ३१ ॥
कूटकारोऽन्यकारस्तु माधुकारः प्रकीर्तितः ।
मार्गे देश्यं च यो वेत्ति स गन्धर्वोऽभिधीयते ॥ ३२ ॥
यो वेत्ति केवलं मार्ग स्वरादिः स निगद्यते ।
हृद्यशब्दः सुशारीरो ग्रहमोक्षविचक्षणः ॥ ३३ ॥
रागरागाङ्गभाषाङ्गक्रियाङ्गोपाङ्गकोविदः ।
प्रबन्धगाननिष्णातो विविधालसितत्त्ववित् ॥ ३४ ॥
सर्वस्थानादिगमकेष्वनायासल्लसद्गतिः ।
आयत्तकण्ठस्तालज्ञः सावधानो जितश्रमः ॥ ३५ ॥
शुद्धस्थानलयाभिज्ञः सर्वकाकुविशेषवित् ।
अपारस्थायिसञ्चारः सर्वदोषविवर्जितः ॥ ३६ ॥
क्रियापरोचितालापः सुखरो धारणान्वितः ।
स्फूर्जनिश्चजनो हारीरहक्रुद्वचनोदरः (?) ॥ ३७ ॥
१ 'रागद्वेषपरित्यागः साधुत्वमुचितज्ञता' इति सङ्गीतरत्नाकरे (पृ. २४४) । २ 'अनुच्छिष्टो-
क्तिनिबन्धो नूतधातुविनिर्मिति' इति सङ्गीतरत्नाकरे । ३ 'त्रिस्थानगमकप्रौढिर्विविधालसिनैपुणम्'
इति सङ्गीतरत्नाकरे । ४ °गुणैरेभिर्व्वरो वाग्गेय° इति सङ्गीतरत्नाकरस्थः पाठः । ५ °धिकं धातुं
मातुमन्दस्तु मध्यम.° इति सङ्गीतरत्नाकरगत. पाठ. । ६ °धातुमातृविदप्रौढः प्रब° इति सङ्गीतर-
त्नाकरे । ७ 'कुट्टिकारोऽन्यधातो तु मातृकारः प्रकीर्तितः' इति सङ्गीतरत्नाकरे । ८ 'स्फूर्जद्भिर्ज-
वनो हारिरह कृद्भजनोदुर' इति सङ्गीतरत्नाकरे ।

सङ्गीताध्याये चतुर्थः पादः । २५
सुसम्प्रदायो गीतज्ञैर्गीयते गायनाग्रणीः ।
इत्युत्तमस्तु विज्ञेयो गीतज्ञः प्रतिपादितः ॥ ३८ ॥
गुणैः कतिपयैर्हीनो निर्दोषो मध्यमोत्तमः ( मतः ? ) ।
महामाहेश्वरेणोक्तः सदोषो गायकाधमः ॥ ३९ ॥
शिक्षाकारोऽनुकारश्च रसिको रञ्जकस्तथा ।
भावकश्चेति विज्ञेया गायकाः पञ्चधा जगुः (?) ॥ ४० ॥
व्यक्तं पूर्णं प्रसन्नं च सुकुमारमलङ्कृतम् ।
समं सुरक्तं श्लक्ष्णं च निकृष्टं मधुरं तथा ॥ ४१ ॥
दिश्यैते स्युर्गुणां ते (?) तत्र वक्ता ( व्यक्तः ) स्फुटस्वरः ।
प्रकृतिः श्रुतयश्चोक्तं छन्दोरागपदैः खरैः ॥ ४२ ॥
सुसम्पूर्णं च पूर्णाङ्गं प्रसन्नं प्रकटार्थकम् ।
सुकुमारं कण्ठभवं त्रिस्थानोक्तमलङ्कृतम् ॥ ४३ ॥
स्वरवर्णलयस्थानं स्वय( सम ?)मित्युच्यते बुधैः ।
सुरक्तं वल्लकीवंशकण्ठोत्थान्येकतागुणम् (?) ॥ ४४ ॥
नीचोच्चधृतिमध्यादौ श्लक्ष्णता श्लक्ष्णउ( मु )च्यते ।
उच्चैरुच्चारणादुक्तं निकृष्टं भरतादिभिः ॥ ४५ ॥
मधुरं धुर्यलावण्यं पूर्णं जनमनोहरम् ।
दृष्टं लोके न शास्त्रेण श्रुतिकालविरोधि च ॥ ४६ ॥
येनैरुक्तं (?) कलायाह्वं गतश्रममघोदकम् ।
ग्राम्यं संदिग्धमित्येवं दशधानी तु दुष्टता ॥ ४७ ॥
एवं सङ्गीतशास्त्रज्ञैः कथिता लोकविश्रुताः ।
इति गीतदोषाः ।
षड्ज ऋषभगान्धारौ मध्यमः पञ्चमस्तथा ॥ ४८ ॥
धैवतश्च निषादश्च स्वराः सप्त प्रकीर्तिताः ।
षड्जादिखरसंमिश्रं गानं च परिकीर्तितम् ॥ ४९ ॥
१ 'भावुकश्चेति गीतज्ञा पञ्चधा गायन जगु ' इति सङ्गीतरत्नाकरे ।
४

२६ सङ्गीतमकरन्दे
आलापा द्विविधा ज्ञेयाः स्वरसंयोजने तथा ।
रागालप्तिरूपलप्ती द्वयं च परिकीर्तितम् ॥ ५० ॥
रागालप्तिस्तननादि रूपको गीतमुच्यते ।
स्वरे रागाः प्रगीयन्ते शुद्धसालङ्गसंज्ञकम् ॥ ५१ ॥
यथायुपक्रमेणैव रागः शुद्ध उदाहृतः ।
उपक्रम्य यथा रागो मेलनं सममिश्रकम् ॥ ५२ ॥
पुनस्तन्मार्गगमकं रागरङ्गः प्रकीर्तितः ।
सङ्कीर्णरागमिश्राणां रागः सङ्कीर्ण उच्यते ॥ ५३ ॥
षाडवौडवसंपूर्णरागाः स्युस्त्रिविधास्तथा ।
एकस्वरविहीनस्तु षाडवः परिकीर्तितः ॥ ५४ ॥
पञ्चस्वरसमायुक्त औडवः परिकीर्तितः ।
सप्तस्वरसमायुक्तः सम्पूर्ण इति कथ्यते ॥ ५५ ॥
एवं विवक्ष्यामि समस्तरागान्
गायेत धीमानधिकप्रयत्नः ।
चित्रेण वाकं (?) रभसा स्वरेण
द्वयेन वा दोषविवर्जितः स्यात् ॥ ५६ ॥
षाडवौडवसम्पूर्ण रागा द्वात्रिंशसंमिताः ।
अनन्ताः सन्ति सन्दर्भा नाना देश्यास्तथैव च ॥ ५७ ॥
मन्द्रमध्यमतारादिस्वरैर्गायेत गायकः ।
पूर्णाः पञ्चशता (?) रागाः षाडवा द्विशतास्तथा ॥ ५८ ॥
औडवाः शतसङ्ख्याश्च तत ऊर्ध्वं यथाक्रमम् ।
एवं विज्ञाय भगवाञ्चारदो मुनिरब्रवीत् ॥ ५९ ॥
इति श्रीनारदकृतौ सङ्गीतमकरन्दे चतुर्थः पादः ।
सङ्गीताध्यायः समाप्तः ।
१ °द्वात्रिंशत्संमिताः° इति स्यात् (?)

नृत्याध्याये प्रथमः पादः । २७
अथ नृत्याध्यायो निरूप्यते ।
अनाहतमयीरूपं योगिध्येयं मनोहरम् ।
तद्रूपं च नमस्कृत्य नृत्याध्यायं करोम्यहम् ॥ १ ॥
आदौ नाट्यशालालक्षणमाह ।
षडशीतिहस्तमात्रचतुरस्रसमन्विता ।
चतुर्विंशतिकस्तम्भनानाचित्रसमन्विता ॥ २ ॥
नानाविकारसम्पन्नप्राकारा चित्रशोभिता ।
चतुरशीतिघण्टाश्च लेखनीया मनोहराः ॥ ३ ॥
रत्नैर्नैकविविधैः पटवस्त्रैश्च चामरैः ।
पताकतोरणैर्युक्ता चतुर्द्वारादिसंयुता ॥ ४ ॥
मध्ये तु वेदिका रम्या चतुर्विंशतिहस्तका ।
कार्या सर्वगुणोपेता नानापरिमलान्विता ॥ ५ ॥
अनेन विधिना कार्या नाट्यशाला मनोहरा ।
तल्लक्षणं न हि कृतं राज्ञां दोषमवाप्नुयात् ॥ ६ ॥
तस्यां मनोहरं रम्यं सिंहासनम¹नर्ध्यकम् ।
तदग्रे फलपुष्पाणि स्थापयित्वा विराजितम् ॥ ७ ॥
अथ सभा लक्षणम् ।
विंदूतकविभटगायकसहास्यहासकज्योतिषवैद्यपौराणिकाः ।
एभिर्नवभिर्युक्ता या सभा राजसभेति तैरूक्ता ॥ ८ ॥
विद्वांसः कवयो भटा गायकाः परिहासकाः ।
इतिहासपुराणज्ञाः सभासप्ताङ्गलक्षणम् ॥ ९ ॥
विद्वल्लक्षणम् ।
सभाजयो वादविचारखण्डनाः
समस्तशास्त्रार्थविचारवक्षकाः ।
कृतानुरागा जनरञ्जने रताः
अमी बुधाः साधुसभाविभूषणाः ॥ १० ॥
१ 'मनर्घकम्' इति स्यात् । २ इदं पद्यमार्याच्छन्दोवद्भासते, तथापि तल्लक्षणानुगमहीनमेव दृश्यते ।

२८ सङ्गीतमकरन्दे
अथ कविलक्षणम् ।
शुचिर्दक्षः शान्तः सुजनविनतः सूनृततरः
कलावेदी विद्वानतिमृदुपदः काव्यचतुरः ।
रसज्ञो दैवज्ञः सरसहृदयः सत्कुलभवः
शुभाकारश्छन्दोगुणगणविवेकी स च कविः ॥ ११ ॥
भटलक्षणम् ।
अनेकभाषासु विशेषबुद्धयो
नृपालवंशावलीकीर्तनक्षमाः ।
प्रबन्धविद्यापठने प्रवीणा
महीशयोग्या मगधा महीतले ॥ १२ ॥
अथ गायकलक्षणम् ।
पाडवौडवसम्पूर्णगायने जनरञ्जकाः ।
काकुवर्जितशारीरा गायका राजवल्लभाः ॥ १३ ॥
अथ परिहासकलक्षणम् ।
क्रियाङ्गभाषाङ्गसमस्तवञ्चना-
लसत्प्रसङ्गातिमकवक्रयुक्तयः ।
प्रस्तावहास्योचितवाग्विलासा
बुधैः प्रशस्ताः परिहासका (के) गुणाः ॥ १४ ॥
इतिहासज्ञलक्षणम् ।
पुराणैरवशिष्टाद्यैः व्याख्यानकथने क्षमाः(?) ।
इतिहासविदः साक्षाद्गीतवाद्यविचक्षणाः ॥ १५ ॥
अथ ज्योतिपलक्षणम् ।
प्रतिप्रयाणान्यहुजातकादीन्
ज्ञेयः सुसिद्धान्तविचारदक्षः ।
ग्रहोपरागादिषु शुद्धलक्षणः
स पण्डितो देवगुरोः समानः ॥ १६ ॥

नृत्याध्याये प्रथमः पादः । २९
अथ वैद्यलक्षणम् ।
पाण्डुश्वासकफातिसारविषजाः कर्मज्वरा भूतजाः
प्रेत्योद्रेककफोद्भवा हिमभवा वातानशीतिः क्रमात् (?) ।
तिस्रो वैद्यकसंहितासु निपुणः शास्त्रेषु बोधात्मवान्
दृष्टस्पृष्टविचित्ररोगहरणः सद्वैद्यधन्वन्तरिः ॥ १७ ॥
अथ पौराणिकलक्षणम् ।
आलापोक्तिषु चातुर्य श्रुतिज्ञः सर्वशास्त्रवित् ।
पौराणिकः पुराणेषु कुशलः कथितो बुधैः ॥ १८ ॥
अथ सभापतिलक्षणम् ।
अनेकशृङ्गारविचित्ररूपः
सर्वज्ञचातुर्यरसान्वितोऽसौ ।
सङ्गीतसाहित्यकलानुरक्तो
निर्मत्सरो वाक्सुगुणैरुपेतः ॥ १९ ॥
तद्वामपार्श्वेऽपि पुराणभट्टाः
तद्दक्षिणेऽमात्यपुरोहिताश्च ।
तत्पृष्ठभागेऽपि च कोपरक्षकः
समीपविद्वत्कविगान्धवैर्युतः ॥ २० ॥
ततः सुविद्याबहुलक्षणान्वितः
कालप्रवीणो यहुजातकादिमत् (?) ।
ततो भिषग्दैवविदौ समीपे
संस्थापयेद्दक्षिणकोविदैः क्रमात् ॥ २१ ॥
महीशवामे वरमन्त्रिमण्डलं
संस्थापयेत्सैन्यपतिं क्रमाच्च ।
पार्श्वोभयोर्वन्दिभटप्रवीणा
शृङ्गारगानज्ञवरान्कवींश्च ॥ २२ ॥
१ 'प्रवीणान्' इति शुद्धः पाठः स्यात् ।

३०सङ्गीतमकरन्दे

विलासिनोऽन्तःपुरतो विसारिणः
खकङ्कणैः कूजितकिङ्किणीरवैः ।
अतिखरूपा बहुवल्गुभाषिणः
स चामराः पार्श्वगता विरञ्जिताः ॥ २३ ॥
डोलचामरकरायवर्तिनो
वेरविवेककविवाद्यकारकाः (?) ।
सर्वशस्तदनुरक्षकादयः
पार्श्ववर्त्तिननिरोक्षणोक्तयः (?) ॥ २४ ॥
(अथ) नटविशेषः ।
चतुर्धाभिनयाभिज्ञो नटो भापाविवेकवित् ।
नर्तनः सूरिभिः प्रोक्तो मार्गनृत्यकृतश्रमः ॥ २५ ॥
अनुभावविभावजानता
रसभावादिकरञ्जकधियः ।
नटभावविवेकबन्धनो
रचिताकालविभेददेशिकः ॥ २६ ॥
अथ घर्घरिकः ।
विश्रन्मुण्डशिखाविलिसविभवो भस्माङ्गशारीरको
बिभ्रद्धर्घरिकाश्च पेशलकलातालप्रवीणस्तथा ।
पञ्चाङ्गे कुशलो (लः) सभापतिं ....................
घर्घर्याः पद्गुदीर्घकाललगमास्तालज्ञकैर्वर्णिताः ॥ २७ ॥
अथ पात्रलक्षणम् ।
समेलनैः सर्वकलासुशोभितै-
रनेकवस्त्राभरणैरलङ्कृतैः ।
उपाङ्गतालाङ्गमृदङ्गचातुरैः
समेत्य पात्रा जवनीतटे स्थिताः ॥ २८ ॥
१ अस्मिन् रथोद्धतावृत्तपादे आद्यगुर्वक्षरस्थाने लघुद्वयप्रयोगात् छन्दोभङ्गः स्फुटः । २ आद-
र्शपुस्तके त्रुटितोऽयमंशः ।