सङ्गीतमकरन्द (देवर्षि नारद - प्राचीन भारतीय सङ्गीत, राग-रागिनी वर्गीकरण व नाद-ब्रह्म)
Sangitamakaranda of Narada (Musicology & Raga-Ragini)
देवर्षि नारद (सम्पादक: एम. आर. तेलंग) द्वारा
पृष्ठ 35, कुल 76 में से
संदर्भ में पढ़ेंपराटी द्रावडी हंसी वसन्तस्य च योषितः ।
गुण्डक्रिया गूर्जरी च गौडी मालवयोषितः ॥ ७२ ॥
स्त्रीपुंसरागमाख्यातं द्वात्रिंशद्रागसंमतिः ।
अन्ये षट्कं च पुरुषाः षट्त्रिंशद्गीतपारगैः ॥ ७३ ॥
श्रीरागोऽपि वसन्तश्च भैरवः पञ्चमस्तथा ।
मेघराजस्तु विज्ञेयो नाटनारायणश्च षट् ॥ ७४ ॥
गौडी कोलाहली चैव द्रावल्यान्दोलिकी तथा ।
माधवी देवगान्धारी श्रीरागस्य वराङ्गनाः ॥ ७५ ॥
शुद्धनाटा च सावेरी सैन्धवी मालती तथा ।
त्रोटिकौमोदकी चैव पञ्चमस्य वराङ्गनाः ॥ ७६ ॥
सौराष्ट्री चैव काम्भारी वङ्गाली मधुमाधवी ।
देवक्री चैव भूपाली मेघरागस्य योषितः ॥ ७७ ॥
वल्लभा माधवी चैव विदग्धा चाभिसारिका ।
त्रिवेणी मेघरञ्जी च नाटनारायणस्य च ॥ ७८ ॥
१.... .... .. .... ... ........ .... .... .... .... .... .... ........ ।
.... .... .... .... .... .... .... .... .... .... .... .... .... .... ........ ॥ ७९ ॥
आयुर्धर्मयशोवृद्धिर्धनधान्यफलं लभेत् ।
रागाभिवृद्धिसन्तानं पूर्णरागाः प्रगीयते (?)॥ ८० ॥
सङ्ग्रामरूपलावण्यविरहं गुणकीर्तनम् ।
षाडवेन प्रगातव्यं लक्षणं गदितं यथा ॥ ८१ ॥
व्याधिनाशी शत्रुनाशी भयशोकविनाशने ।
व्याधिदारिद्र्यसन्तापे विषमग्रहमोचने ॥ ८२ ॥
कामडम्बरनाशे च मङ्गलं विप्रसंहते ।
औडवेन प्रगातव्यं ग्रामशान्त्यर्थकर्मणि ॥ ८३ ॥
मुक्ताङ्गकम्पिताः केचित्केचिदर्धविकम्पिताः ।
केचित्कम्पविहीनाश्चैवेति रागास्त्रिधा कृताः ॥ ८४ ॥
- १ एकोनाशीतितमश्लोकस्थाने आदर्शपुस्तके त्रुटिचिह्नं लिखितं वर्तते । २ °नाशे इति पाठः
-चीनः स्यात् । ३ °मङ्गले इति पाठः अन्वयानुकूलः स्यात् ।