सामग्री पर जाएँ
सर्वकोश
सङ्गीतमकरन्द (देवर्षि नारद - प्राचीन भारतीय सङ्गीत, राग-रागिनी वर्गीकरण व नाद-ब्रह्म)

सङ्गीतमकरन्द (देवर्षि नारद - प्राचीन भारतीय सङ्गीत, राग-रागिनी वर्गीकरण व नाद-ब्रह्म)

Sangitamakaranda of Narada (Musicology & Raga-Ragini)

देवर्षि नारद (सम्पादक: एम. आर. तेलंग) द्वारा

DevanagariSanskritpublished76 पृष्ठ

पृष्ठ 40, कुल 76 में से

संदर्भ में पढ़ें
पृष्ठ 40

सङ्गीताध्याये चतुर्थः पादः । २५
सुसम्प्रदायो गीतज्ञैर्गीयते गायनाग्रणीः ।
इत्युत्तमस्तु विज्ञेयो गीतज्ञः प्रतिपादितः ॥ ३८ ॥
गुणैः कतिपयैर्हीनो निर्दोषो मध्यमोत्तमः ( मतः ? ) ।
महामाहेश्वरेणोक्तः सदोषो गायकाधमः ॥ ३९ ॥
शिक्षाकारोऽनुकारश्च रसिको रञ्जकस्तथा ।
भावकश्चेति विज्ञेया गायकाः पञ्चधा जगुः (?) ॥ ४० ॥
व्यक्तं पूर्णं प्रसन्नं च सुकुमारमलङ्कृतम् ।
समं सुरक्तं श्लक्ष्णं च निकृष्टं मधुरं तथा ॥ ४१ ॥
दिश्यैते स्युर्गुणां ते (?) तत्र वक्ता ( व्यक्तः ) स्फुटस्वरः ।
प्रकृतिः श्रुतयश्चोक्तं छन्दोरागपदैः खरैः ॥ ४२ ॥
सुसम्पूर्णं च पूर्णाङ्गं प्रसन्नं प्रकटार्थकम् ।
सुकुमारं कण्ठभवं त्रिस्थानोक्तमलङ्कृतम् ॥ ४३ ॥
स्वरवर्णलयस्थानं स्वय( सम ?)मित्युच्यते बुधैः ।
सुरक्तं वल्लकीवंशकण्ठोत्थान्येकतागुणम् (?) ॥ ४४ ॥
नीचोच्चधृतिमध्यादौ श्लक्ष्णता श्लक्ष्णउ( मु )च्यते ।
उच्चैरुच्चारणादुक्तं निकृष्टं भरतादिभिः ॥ ४५ ॥
मधुरं धुर्यलावण्यं पूर्णं जनमनोहरम् ।
दृष्टं लोके न शास्त्रेण श्रुतिकालविरोधि च ॥ ४६ ॥
येनैरुक्तं (?) कलायाह्वं गतश्रममघोदकम् ।
ग्राम्यं संदिग्धमित्येवं दशधानी तु दुष्टता ॥ ४७ ॥
एवं सङ्गीतशास्त्रज्ञैः कथिता लोकविश्रुताः ।
इति गीतदोषाः ।
षड्ज ऋषभगान्धारौ मध्यमः पञ्चमस्तथा ॥ ४८ ॥
धैवतश्च निषादश्च स्वराः सप्त प्रकीर्तिताः ।
षड्जादिखरसंमिश्रं गानं च परिकीर्तितम् ॥ ४९ ॥
१ 'भावुकश्चेति गीतज्ञा पञ्चधा गायन जगु ' इति सङ्गीतरत्नाकरे ।
४