सामग्री पर जाएँ
सर्वकोश
सङ्गीतमकरन्द (देवर्षि नारद - प्राचीन भारतीय सङ्गीत, राग-रागिनी वर्गीकरण व नाद-ब्रह्म)

सङ्गीतमकरन्द (देवर्षि नारद - प्राचीन भारतीय सङ्गीत, राग-रागिनी वर्गीकरण व नाद-ब्रह्म)

Sangitamakaranda of Narada (Musicology & Raga-Ragini)

देवर्षि नारद (सम्पादक: एम. आर. तेलंग) द्वारा

DevanagariSanskritpublished76 पृष्ठ

पृष्ठ 37, कुल 76 में से

संदर्भ में पढ़ें
पृष्ठ 37

२२ सङ्गीतमकरन्दे ।
सर्वेषां श्रुतिसंयुक्तमव्यक्तमधुरान्वितम् ।
नादमीदृग्विधं श्रेष्ठमायुर्लक्ष्मीकरं जगुः ॥ ४ ॥
लक्षणं तु मृदङ्गस्य कथ्यते नारदेन च ।
चतुर्विंशतिच्छन्दांसि चर्मग्रन्थीनि तानि च ॥ ५ ॥
अथ वीणालक्षणम् ।
कच्छपी कुब्जिका चित्रा वहन्ती परिवादिनी ।
जया घोषावती ज्येष्ठा नकुलीष्टेति कीर्तिता (?) ॥ ६ ॥
महती वैष्णवी ब्राह्मी रौद्री कूर्मी च रावणी ।
सारस्वती किन्नरी च सैरन्ध्री घोषका तथा ॥ ७ ॥
दशवीणाः समाख्यातास्तन्त्रीविन्यासभेदतः ।
षट्त्रिंशदङ्गुली वीणा विस्तारः पञ्चिरङ्गुलैः ॥ ८ ॥
अथ वाद्यविशेषः ।
मृदङ्गो दर्दुरश्चैव पणवस्त्वङ्गसंज्ञिकः ।
झर्झरी पटहादीनि शम्भो मुखरिकास्तथा ॥ ९ ॥
शृङ्गं च केहला चेति सुषिरादिप्रकीर्तिताः ।
हरीतक्याकृतिस्त्वन्या एवमायास्ततोर्ध्वगः (?) ॥ १० ॥
आलिङ्ग्यश्च गोपुच्छो मध्यदक्षिणवामगः ।
ढक्का डमरुगा मन्द्रा मड्डुझर्झरडिण्डिमाः ॥ ११ ॥
डड्डुत्रिविधगुञ्जा च कटकाकरणादयः ।
ध्वनिश्च विविधा ज्ञेया नारदेन कृता मताः ॥ १२ ॥
अथ स्वरादयः ।
नादोपासनया देवा ब्रह्मविष्णुमहेश्वराः ।
भवन्त्युपासिता नूनं तस्मादेतत्तदात्मकम् ॥ १३ ॥
आत्मा विवक्षमाणोऽयं मनः प्रेरयते मनः ।
देहस्थं वह्निमहती स प्रेरयति मारुतः ॥ १४ ॥
१ ०नकुली चेति० इति अथवा 'जयघोषावती ज्येष्ठा नकुल्यष्टेति कीर्तिताः' इति पाठः शुद्धः
स्यात् । २ 'काहला' इति सङ्गीतरत्नाकरादिग्रन्थान्तरे दृश्यते ।