सामग्री पर जाएँ
सर्वकोश
सङ्गीतमकरन्द (देवर्षि नारद - प्राचीन भारतीय सङ्गीत, राग-रागिनी वर्गीकरण व नाद-ब्रह्म)

सङ्गीतमकरन्द (देवर्षि नारद - प्राचीन भारतीय सङ्गीत, राग-रागिनी वर्गीकरण व नाद-ब्रह्म)

Sangitamakaranda of Narada (Musicology & Raga-Ragini)

देवर्षि नारद (सम्पादक: एम. आर. तेलंग) द्वारा

DevanagariSanskritpublished76 पृष्ठ

पृष्ठ 45, कुल 76 में से

संदर्भ में पढ़ें
पृष्ठ 45
३०सङ्गीतमकरन्दे

विलासिनोऽन्तःपुरतो विसारिणः
खकङ्कणैः कूजितकिङ्किणीरवैः ।
अतिखरूपा बहुवल्गुभाषिणः
स चामराः पार्श्वगता विरञ्जिताः ॥ २३ ॥
डोलचामरकरायवर्तिनो
वेरविवेककविवाद्यकारकाः (?) ।
सर्वशस्तदनुरक्षकादयः
पार्श्ववर्त्तिननिरोक्षणोक्तयः (?) ॥ २४ ॥
(अथ) नटविशेषः ।
चतुर्धाभिनयाभिज्ञो नटो भापाविवेकवित् ।
नर्तनः सूरिभिः प्रोक्तो मार्गनृत्यकृतश्रमः ॥ २५ ॥
अनुभावविभावजानता
रसभावादिकरञ्जकधियः ।
नटभावविवेकबन्धनो
रचिताकालविभेददेशिकः ॥ २६ ॥
अथ घर्घरिकः ।
विश्रन्मुण्डशिखाविलिसविभवो भस्माङ्गशारीरको
बिभ्रद्धर्घरिकाश्च पेशलकलातालप्रवीणस्तथा ।
पञ्चाङ्गे कुशलो (लः) सभापतिं ....................
घर्घर्याः पद्गुदीर्घकाललगमास्तालज्ञकैर्वर्णिताः ॥ २७ ॥
अथ पात्रलक्षणम् ।
समेलनैः सर्वकलासुशोभितै-
रनेकवस्त्राभरणैरलङ्कृतैः ।
उपाङ्गतालाङ्गमृदङ्गचातुरैः
समेत्य पात्रा जवनीतटे स्थिताः ॥ २८ ॥
१ अस्मिन् रथोद्धतावृत्तपादे आद्यगुर्वक्षरस्थाने लघुद्वयप्रयोगात् छन्दोभङ्गः स्फुटः । २ आद-
र्शपुस्तके त्रुटितोऽयमंशः ।