सामग्री पर जाएँ
सर्वकोश
सङ्गीतमकरन्द (देवर्षि नारद - प्राचीन भारतीय सङ्गीत, राग-रागिनी वर्गीकरण व नाद-ब्रह्म)

सङ्गीतमकरन्द (देवर्षि नारद - प्राचीन भारतीय सङ्गीत, राग-रागिनी वर्गीकरण व नाद-ब्रह्म)

Sangitamakaranda of Narada (Musicology & Raga-Ragini)

देवर्षि नारद (सम्पादक: एम. आर. तेलंग) द्वारा

DevanagariSanskritpublished76 पृष्ठ

पृष्ठ 33, कुल 76 में से

संदर्भ में पढ़ें
पृष्ठ 33

१८ सङ्गीतमकरन्दे ।
रामकृत्यौडवः स्यात्तु गादिर्वर्ज्यौ रिधौ स्वरौ ।
नारायणी निपादादिरौडवो धपवर्जितः ॥ ४९ ॥
पालिरौडवः षड्जादिर्वर्ज्यौ मध्यमपञ्चमौ ।
एवं प्रधानरागाः स्युर्लक्षणोक्तं यथाक्रमम् ॥ ५० ॥
अनन्ताः सन्ति सन्दर्भा नानादेश्याः प्रकीर्तिताः ।१
सङ्कीर्णीरूपिणो रागाः सङ्कीर्णा नाम विश्रुताः ॥ ५१ ॥
ब्रह्मौ चा (?) पाडवाश्चैव क्षत्रजा औडवास्तथा ।
सम्पूर्णा मुनिजाः प्रोक्ता भरतज्ञैः प्रशंसिताः ॥ ५२ ॥
अथ पुल्लिङ्गरागाः ।
वङ्गालः सोमरागश्च श्रीरागश्च तथैव च ।
भूपाली छायगौडश्च शुद्धहिन्दोलिका तथा ॥ ५३ ॥
आन्दोली दोम्बुली चैव गौडः कर्णाटकाह्वयः ।
फडमञ्जी शुद्धनाटी तथा मालवगौलकः ॥ ५४