सङ्गीतमकरन्द (देवर्षि नारद - प्राचीन भारतीय सङ्गीत, राग-रागिनी वर्गीकरण व नाद-ब्रह्म)
Sangitamakaranda of Narada (Musicology & Raga-Ragini)
देवर्षि नारद (सम्पादक: एम. आर. तेलंग) द्वारा
पृष्ठ 43, कुल 76 में से
संदर्भ में पढ़ें२८ सङ्गीतमकरन्दे
अथ कविलक्षणम् ।
शुचिर्दक्षः शान्तः सुजनविनतः सूनृततरः
कलावेदी विद्वानतिमृदुपदः काव्यचतुरः ।
रसज्ञो दैवज्ञः सरसहृदयः सत्कुलभवः
शुभाकारश्छन्दोगुणगणविवेकी स च कविः ॥ ११ ॥
भटलक्षणम् ।
अनेकभाषासु विशेषबुद्धयो
नृपालवंशावलीकीर्तनक्षमाः ।
प्रबन्धविद्यापठने प्रवीणा
महीशयोग्या मगधा महीतले ॥ १२ ॥
अथ गायकलक्षणम् ।
पाडवौडवसम्पूर्णगायने जनरञ्जकाः ।
काकुवर्जितशारीरा गायका राजवल्लभाः ॥ १३ ॥
अथ परिहासकलक्षणम् ।
क्रियाङ्गभाषाङ्गसमस्तवञ्चना-
लसत्प्रसङ्गातिमकवक्रयुक्तयः ।
प्रस्तावहास्योचितवाग्विलासा
बुधैः प्रशस्ताः परिहासका (के) गुणाः ॥ १४ ॥
इतिहासज्ञलक्षणम् ।
पुराणैरवशिष्टाद्यैः व्याख्यानकथने क्षमाः(?) ।
इतिहासविदः साक्षाद्गीतवाद्यविचक्षणाः ॥ १५ ॥
अथ ज्योतिपलक्षणम् ।
प्रतिप्रयाणान्यहुजातकादीन्
ज्ञेयः सुसिद्धान्तविचारदक्षः ।
ग्रहोपरागादिषु शुद्धलक्षणः
स पण्डितो देवगुरोः समानः ॥ १६ ॥