सङ्गीतमकरन्द (देवर्षि नारद - प्राचीन भारतीय सङ्गीत, राग-रागिनी वर्गीकरण व नाद-ब्रह्म)
Sangitamakaranda of Narada (Musicology & Raga-Ragini)
देवर्षि नारद (सम्पादक: एम. आर. तेलंग) द्वारा
पृष्ठ 32, कुल 76 में से
संदर्भ में पढ़ेंसङ्गीताध्याये तृतीयः पादः । १७
कलहंसश्च सम्पूर्णो गान्धारादिः प्रकीर्तितः ।
वसन्तः शुद्धसंज्ञश्च सषड्जादिरुदाहृतः ॥ ३८ ॥
रामक्रिया शुद्धसंज्ञा सषड्जादिरुदाहृता ।
वराटिका शुद्धसंज्ञा सषड्जादिरुपक्रमा ॥ ३९ ॥
एवं सम्पूर्णरागाणां ग्रहस्वर उदाहृतः ।
अथ षाडवरागग्रहस्वर उच्यते ।
षाडवो देवगान्धारो गादिर्वर्ज्यो निषादकः (?) ॥ ४० ॥
नीलाम्बरी षाडवः स्याद्गादिर्वर्ज्यो निषादकः ।
श्रीरागः षाडवो रागः सषड्जादिर्गवर्जितः ॥ ४१ ॥
शुद्धबहुली मध्यमादिर्निर्वर्ज्यस्तु षाडवः ।
शुद्धगौलः षाडवः स्यान्निषादाद्धिर्वर्जितः ॥ ४२ ॥
ललितः षाडवो रागः सादिर्वर्ज्यो ग च स्वरः (?) ।
मालवश्रीः षाडवः स्यात्षड्जादिश्च रिवर्जितः ॥ ४३ ॥
भूपालः षाडवो रागो गादिः पङ्गविवर्जितः ।
पडवक्षी षाडवश्च रिवर्ज्योऽपि निपादकः ॥ ४४ ॥
गुण्डक्री षाडवश्चैव गान्धारादिर्गवर्जितः ।
कुरञ्जी षाडवो रागो निवर्यों मध्यमादितः ॥ ४५ ॥
सङ्गृह्य नारवेनैव ग्रहस्वरमुदीरितम् ।
अथ औडवरागग्रहस्वराः ।
धन्यासी औडवः प्रोक्तः सावेरी धविवर्जितः ॥ ४६ ॥
औडवो गुर्जरी प्रोक्तः सादिर्वर्ज्यौ रिधौ तथा ।
रिधौ वर्ज्यौ मध्यमादिरौडवा मधुमाधवी ॥ ४७ ॥
मेघरञ्जी मध्यमादि भनिवर्ज्यौ तथौडवः ।
वेलावल्यौडवः स्यात्तु गादिर्वर्ज्यौ सरीश्वरौ ॥ ४८ ॥
१ °गादी रिधिविवर्जितः° इति शुद्धः पाठः स्यात् ।
२