सङ्गीतमकरन्द (देवर्षि नारद - प्राचीन भारतीय सङ्गीत, राग-रागिनी वर्गीकरण व नाद-ब्रह्म)
Sangitamakaranda of Narada (Musicology & Raga-Ragini)
देवर्षि नारद (सम्पादक: एम. आर. तेलंग) द्वारा
पृष्ठ 28, कुल 76 में से
संदर्भ में पढ़ें[Header: सङ्गीताध्याये द्वितीयः पादः । १३]
प्रसन्नमध्यं च तथा क्रमादुच्चित एव च ।
बिन्दुर्निवृत्तप्रकृतौ ॰॰॰॰प्रेखो (प्रेङ्ख?) विह्वलौ ॥ १६ ॥
कम्पितं कुपितश्चैव विजृम्भितविवर्द्धनौ ।
गमकैकोनविंशश्च चरणान्यपि कथ्यते ॥ १७ ॥
हरिर्नेत्रा हरिश्चैव मतङ्गः कश्यपो मुनिः ।
विश्वकर्मा हरिश्चन्द्रो भरतः कमलास्यकः ॥ १८ ॥
चण्डी व्यालश्च शार्दूलो नारदस्तम्बुरुस्तथा ।
वायुर्विभावसुः शौरिराञ्जनेयोऽङ्गदस्तथा ॥ १९ ॥
षण्मुखो भृङ्गिदेवेन्द्रः कुयेरः कुशिको मुनिः ।
मात्रागुप्तो रावणश्च समुद्रश्च सरस्वती ॥ २० ॥
बलियक्षः किन्नरेशो विक्रमोऽपि यथाक्रमम् ।
एभिः सङ्गीतके प्रोक्ता मँाता द्वादशलक्षणाः ॥ २१ ॥
यद्गीतस्य तु देहस्य लक्षणं परिकीर्तितम् ।
ब्रह्मवीणास्वरूपं च न पूर्णं न स्त्रियं विदुः ॥ २२ ॥
यः शृणोति स पापेभ्यो मुच्यते नात्र संशयः ।
पुत्रपौत्रधनं धान्यं लभ्यते शत्रुनाशनम् ॥ २३ ॥
राज्याभिवृद्धिसन्तानं मोक्षैकफलदायकम् ।
सर्वश्रेयस्करं पुंसां नारदस्य मतं यदा ॥ २४ ॥
इति श्रीनारदकृतौ सङ्गीतमकरन्दे वीणादेहनिरूपणं नाम
द्वितीयपादः ।
१ ॰क्रमरेचित॰ इति संगीतरत्नाकरे वर्तते । २ अत्र वर्णद्वयमादर्शपुस्तके त्रुटितम् । 'प्रेङ्खः'
इति भरतनाव्यशास्त्रस्यः पाठः । ३ ॰मातृगुप्तो॰ इति शुद्धः पाठः स्यात् । ४ 'माताः' इति पाठः
स्यात् ।