सामग्री पर जाएँ
सर्वकोश
सङ्गीतमकरन्द (देवर्षि नारद - प्राचीन भारतीय सङ्गीत, राग-रागिनी वर्गीकरण व नाद-ब्रह्म)

सङ्गीतमकरन्द (देवर्षि नारद - प्राचीन भारतीय सङ्गीत, राग-रागिनी वर्गीकरण व नाद-ब्रह्म)

Sangitamakaranda of Narada (Musicology & Raga-Ragini)

देवर्षि नारद (सम्पादक: एम. आर. तेलंग) द्वारा

DevanagariSanskritpublished76 पृष्ठ

पृष्ठ 42, कुल 76 में से

संदर्भ में पढ़ें
पृष्ठ 42

नृत्याध्याये प्रथमः पादः । २७
अथ नृत्याध्यायो निरूप्यते ।
अनाहतमयीरूपं योगिध्येयं मनोहरम् ।
तद्रूपं च नमस्कृत्य नृत्याध्यायं करोम्यहम् ॥ १ ॥
आदौ नाट्यशालालक्षणमाह ।
षडशीतिहस्तमात्रचतुरस्रसमन्विता ।
चतुर्विंशतिकस्तम्भनानाचित्रसमन्विता ॥ २ ॥
नानाविकारसम्पन्नप्राकारा चित्रशोभिता ।
चतुरशीतिघण्टाश्च लेखनीया मनोहराः ॥ ३ ॥
रत्नैर्नैकविविधैः पटवस्त्रैश्च चामरैः ।
पताकतोरणैर्युक्ता चतुर्द्वारादिसंयुता ॥ ४ ॥
मध्ये तु वेदिका रम्या चतुर्विंशतिहस्तका ।
कार्या सर्वगुणोपेता नानापरिमलान्विता ॥ ५ ॥
अनेन विधिना कार्या नाट्यशाला मनोहरा ।
तल्लक्षणं न हि कृतं राज्ञां दोषमवाप्नुयात् ॥ ६ ॥
तस्यां मनोहरं रम्यं सिंहासनम¹नर्ध्यकम् ।
तदग्रे फलपुष्पाणि स्थापयित्वा विराजितम् ॥ ७ ॥
अथ सभा लक्षणम् ।
विंदूतकविभटगायकसहास्यहासकज्योतिषवैद्यपौराणिकाः ।
एभिर्नवभिर्युक्ता या सभा राजसभेति तैरूक्ता ॥ ८ ॥
विद्वांसः कवयो भटा गायकाः परिहासकाः ।
इतिहासपुराणज्ञाः सभासप्ताङ्गलक्षणम् ॥ ९ ॥
विद्वल्लक्षणम् ।
सभाजयो वादविचारखण्डनाः
समस्तशास्त्रार्थविचारवक्षकाः ।
कृतानुरागा जनरञ्जने रताः
अमी बुधाः साधुसभाविभूषणाः ॥ १० ॥
१ 'मनर्घकम्' इति स्यात् । २ इदं पद्यमार्याच्छन्दोवद्भासते, तथापि तल्लक्षणानुगमहीनमेव दृश्यते ।