सङ्गीतदर्पण (दामोदर पण्डित - तंजौर सरस्वती महल संस्करण, सङ्गीत एवं नाट्य लक्षण)
Sangita Darpana of Damodara Pandita (TMSSML Edition)
दामोदर पण्डित (सम्पादक: के. वासुदेव शास्त्री) द्वारा
45
असावरी गरित्यक्ता पग्रहां शांत(?) औडवा ।
न्यासस्तु धैवतोज्ञेयः करुणारसनिर्भरा ॥ २५८ ॥ अथवा
उदाहरणम् ।
ककुभाद्द्धैवतोत्पन्ना धैवतांशग्रहामता ।
पञ्चमेनैव रहिता षाडवा च निगद्यते ॥ २५९ ॥
श्रीखण्डशैलशिखरे शिखिपुच्छवस्त्रा
मातङ्गमौक्तिककृतोत्तमहारवल्ली ।
आकृष्य चन्दन तरोरुरगं वहन्ती
सासावरीति कथितोज्वल नीलकान्तिः ॥ २६० ॥
धनिसमपध । अथवा मधनिसरिगधगरिसनिध । इति सावेरी ॥ ३० ॥
(257-259) 'Asavari' (Saveri) lakshana.
(சு. 257-259) 'அஸாவரி' (ஸாவேரி) லக்ஷணம்.
इति पञ्चभार्यासहितः श्रीरागः ॥
मेघः पूर्णो धत्रयःस्यात् उत्तरायतमूर्च्छनः ।
विकृतो धैवतो गेयः शृङ्गाररसपूरकः ॥ २६१ ॥
उदाहरणम् ।
नीलोत्पलाभवपुरिन्दुसमानचैलः पीताम्बरस्तुषितचातकयाच्यमानः
पीयूषमन्दहसितोद्यममध्यवर्ती वीरेषु राजति युवा किल मेघरागः
धनिसरिगमपध इति मेघरागः ॥ ३१ ॥
(260-261) 'Megharaga lakshana.
(சு. 260-261) 'மேகராக' லக்ஷணம்.
मल्लारी सपहीनास्यात् ग्रहांशन्यासधैवता ।
औडवा पौरवी ज्ञेया वर्षासु सुखदा सदा ॥ २६२ ॥
- 'Asavari' and 'saveri' are both indifferently
used for the raga in older texts also.
46
गौरी कृशा कोकिलकण्ठनादा गीतच्छलेनात्मपतिं स्मरन्ती ।
आदाय वीणां मलिना रुदन्ती मल्लारिका यौवन दूनचित्ता ॥ २६३
धनिरीगमध इति मल्लारिका ॥ ३२ ॥
(262-263) 'Mallari' lakshana.
(சு. 262-263) 'மல்லாரி' லக்ஷணம்.
देशकारी तु संपूर्णा षड्जन्यास ग्रहांशका ।
मूर्च्छना प्रथमा ज्ञेया वराटीमिश्रिताभवेत् ॥ २६४ ॥
उदाहरणम् ।
भर्त्रासमं केलिरसं सुकेशी सर्वाङ्गपूर्णा कमलायताक्षी ।
पीनस्तनी रुक्मतनुः सुवेशा संपूर्णचन्द्रानन देशकारी ॥
सरिगमपधनिस इति देशकारी ॥ ३३ ॥
(263-264) 'Deshakari' lakshana.
(சு. 263-264) 'தேசகாரி' லக்ஷணம்.
षड्जग्रहांशकन्यासा भूपाली कथिता बुधैः ।
मूर्च्छना प्रथमा यत्र संपूर्णा शान्तिके रसे
कैचित्तुरीयहीनेय औडवा परिकीर्तिता ॥ २६६ ॥
गौरद्युतिः कुङ्कुमलिप्तदेहा तुङ्गस्तनी चन्द्रमुखा मनोज्ञा ।
भर्तुः स्मरन्ती विरहेण दूना भूपालिकेयं रसशान्तियुक्ता ॥
सरिगमपधनिस इति भूपाली ॥ ३४ ॥
(266-267) 'Bhupali' lakshana.
(சு. 266-267) 'பூபாளி' லக்ஷணம்.
47
ग्रहांशंन्यास ऋषभा सम्पूर्णा गुर्जरी मता ।
सप्तमी मूर्छना तस्यां बहुन्यास विमिश्रिता ॥ २६७ ॥
उदाहरणम् ।
श्यामा सुकेशी मलयद्रुमाणां मृदूल्लसत्पल्लव तल्पमध्ये ।
श्रुतिस्वराणां दधतीवभागं तन्त्रीमुखाद्दक्षिणगुर्जरीयम् ॥
रिगमपधनिसरि इति गुर्जरी ॥ ३५ ॥
(268-269) 'Gurjari' lakshana.
(சு. 268-269) 'குர்ஜ்ஜரீ' லக்ஷணம்.
टक्कःस्यात्तु त्रिधाषड्जः सम्पूर्णश्चादि मूर्छनः ।
उदाहरणम् ।
शय्यासु सुप्तां नलिनीदळानां वियोगिनीं वीक्ष्य विषण्णचित्तां ।
सुवर्णवर्णग्रहमागतःसन् सम्भाषते तां किल टक्कसंज्ञः ॥
सरिगमपधनिस इति टक्कः । इति पञ्चभार्यासहितो मेघरागः ॥ ३६ ॥
(270) 'Takka raga' lakshana
(சு 270) 'டக்கராக' லக்ஷணம் (Handwritten annotation: upto this according to Hanuman Mate)
कल्याणनाटो विज्ञेयः सम्पूर्णो रित्रयोमतः ।
पञ्चतयोपि कैश्चितु संप्रदिष्टो मनीषिभिः ॥ २७१ ॥
उदाहरणम् ।
कृपाणपाणिस्तिलकं ललाटे सुवेषवेषः समरे प्रचण्डः ।
स्मरन्प्रविष्टः किल रक्तवर्णः कल्याणनाटः कथितोमुनीन्द्रैः ॥
48
रिगमपधनिसरिअथवा सरिगमपधनिम, इति कल्याणनाटः ॥ ३७ ॥
(271-272) ' Kalyana nata
(ச 271-272) ' கல்யாணநாட்ட' லக்ஷணம்
सारङ्गनाटः सम्पूर्णः सत्रयोत्तरमन्द्रजः ।
उदाहरणम् ।
वीणांदधाना दृढबद्धवेणी
सख्यासमं मञ्जुलवृक्षमूले ।
जाम्बूनदाभा च निषण्णदेहा
सारङ्गनाटा कथिता सुवेषैः ॥ २७३ ॥ अथवा
करधृतवीणा सख्यामहोपविष्टा च कल्पतरुमूले ।
दृढतरनिबद्धकबरी सारङ्गामा सुरङ्गिणी प्रोक्ता ॥ २७४ ॥
सरिगमपधनिम इति सारङ्गनाटः ॥ ३८ ॥
(273—274) ' Saranganata ' lakshana
(ச, 273—274) சாரங்கநாட்ட (சாலங்கநாட்ட) லக்ஷணம்
देवगिर्याः स्वराः प्रोक्ताः सारङ्गसदृशा मताः ।
उदाहरणम् ।
नितम्बिनी श्यामतनुः प्रवृत्ततुङ्गस्तनी सुन्दरहारवली ।
चित्रांबरा मत्तचकोरनेत्रा मदालसा देवगिरी मतेयम् ॥ २७५॥
सरिगमपधनिस इति देवगिरी ॥ ३९ ॥
275— 'Devagiri ' lakshana
(ச, 275) ' தேவகிரி ' லக்ஷணம்
सोरटी षाडवा ज्ञेया पञ्चमलयसम्मता ।
रिहीनाच समाख्याता कैश्चित्षड्जत्रयामृता ॥ २७६ ॥
पीनोन्नतस्तनतटोत्तमहारवल्ली
कर्णोत्पलभ्रमरनादविलग्नचित्ता ।
49
याति प्रियान्तिक मतिश्लथबाहुवल्ली
सौराष्ट्रिका मदनमूर्तिविचारगौरा ॥ २७७ ॥
पधनि सगमप अथवा सगमपधनिस इति सोरटी ॥ ४० ॥
(276–277) ' Sorati ' lakshana
(சு, 276–277) 'ஸோரடீ' (சுருட்டீ) லக்ஷணம்
त्रिवणा साच विज्ञेया ग्रहांशन्यासधैवता ।
औडवा सा समाख्याता परिहीना प्रकीर्तिता ॥ २७८ ॥
उदाहरणम् ।
रम्भायाः सुतरोर्मूले निष्षणा पीतवर्णभाक् ।
तन्वङ्गी हारसंयुक्ता प्रियेण त्रिवणा मता ॥ २७९ ॥
धनिसगमध । इति त्रिवणा ॥ ४१ ॥
(278-279) ' Trivana ' Lakshana
(சு. 278-279) 'த்ரிவணா' லக்ஷணம்
षड्जन्त्रया पहाडी स्यात् रिपहीना च गौरिवत् ।
छाया तैलङ्गदेशीया आलापे चौडवा मता ॥ २८० ॥
उदाहरणम् ।
वीणोपगायत्यतिसुन्दराङ्गी
रक्ताम्बरा मञ्जुकदम्बमूले
श्रीचन्दनाद्रौ स्थितिकारिणी सा
श्रीरागकान्ता कथिता पहाडी ॥ २८१ ॥
7
50
इति पहाडी ॥ ४२ ॥
(280-281) ' Pahadi ' lakshana
சு (280-281) ' பஹாடீ ' லக்ஷணம்.
रागः पञ्चमको ज्ञेयः पहीनः षाडवो मतः ।
प्रथमा मूर्छना यत्र षड्जत्रयविभूषितः ।
केचिद्वदन्ति सम्पूर्णः शृङ्गाररसपूरकः ॥ २८२ ॥
उदाहरणम् ।
रक्ताम्बरो रक्तविशालनेत्रः शृङ्गारयुक्तस्तरुणो मनस्वी ।
प्रभातकाले विजयी च रत्यां सदा प्रियः कोकिलमञ्जुभाषी ॥
सरिगम धनिस अथवा - सरिगमपधनिस इतिपञ्चमरागः ॥ ४३ ॥
(282—283) ' Panchamaraga ' lakshana.
(சு. 282—283) ' பஞ்சம ராக ' லக்ஷணம்.
बेलावल्याः स्वरैर्युक्तः शङ्कराभरणो मतः ॥ २८४ ॥
इति शङ्कराभरणम् ॥ ४४ ॥
(284) ' Sankarabharana ' lakshana.
(சு, 284) ' சங்கராபரண ' லக்ஷணம்,
बडहंसे स्वरा ज्ञेयाः कर्णाटे कथिता बुधैः ॥ २८५ ॥
इति बडहंसः ॥ ४५ ॥
(285) ' Badahamsa ' lakshana.
(சு, 285) ' படஹம்ஸ ' (பலஹம்ஸ) லக்ஷணம்,
ललितावद्विभासस्तु रेवा गुर्जरिवत्सदा ॥ २८६ ॥
51
इति विभासः । इति रेवा ॥ ४६ ॥
(286) 'Reva' ragalakshana
(சு, 286) 'ரேவா' லக்ஷணம்.
देशाख्यसदृशा गेया कुडाई सर्वसम्मता ॥ २८७ ॥
इति कुडाई ॥ ४७ ॥
(28,7)‘ Kudayee’ lakshana.
(சு287) 'குடாயீ' லக்ஷணம்,
कल्याणसदृशी गेया आभीरी सर्वसम्मता ॥ २८८ ॥
इति आभीरी ॥ ४८ ॥
(288) 'Abhiri' lakshana.
(சு, 288) 'ஆபீரீ' லக்ஷணம்,
मालश्री जयतश्रीश्च धानाश्री मरुका तथा ।
एषां श्रुतिस्वरग्रामजात्यादिनियमो न हि
नानादेशगतच्छाया देशी रागास्तु ते स्मृताः ॥ २८९ ॥
(289) 'Malasri' 'Jayatasri' 'Dhanasri' 'Maruka'
and other Desi Ragas do not obey the laws of Sruti
Swara, Grama, and Jati.
சு (289) மாளஸ்ரீ ; 'ஜயதஸ்ரீ' ; தனாஸ்ரீ ; 'மாருகா' முதலிய
தேசி ராகங்களுக்கு ச்ருதி, ஸ்வர, க்ராம், ஜாதி நியமம் இல்லை
इति श्रीलक्ष्मीश्वर सुत चतुरदामोतर विरचिते सङ्गीतदर्पणे
'रागाध्यायः' ॥
52
' अथ प्रकीर्णकाध्यायः ' ।
अथ गीतोपयोगित्वादालप्तिर्गमकादयः ।
निरूप्यन्ते मया सम्यक् लक्ष्यदृष्ट्या तु तत्वतः ॥ २९० ॥
रागालापनमालप्तिः प्रकटीकरणं मतम् ।
सापुनर्द्विविधा रागरूपकाभ्यां विशेषणात् ॥ २९१ ॥
(290-291) ' Alapana or Alapti' or exposition of the
'Raga' or mode defined ; and its 2 kinds, namely,
(1) Ragalapti, the expansion of Raga without a
composition
(2) Rupakalapti, that is expansion of portions of
of a musical piece
(சு 290-291) 'ஆலாபம் அல்லது ஆலப்தி' என்னும் ராக
விஸ்தாரம் -- அதன் இருவகை;— (1) ராக ஆலப்தி (2) ரூபக
ஆலப்தி
स्वस्थानकैश्चतुर्भिर्या क्रियतेरूपकं विना ।
सा रागालप्तिरुदिता रूपकक्षेपणोत्तरा ॥ २९२ ॥
रागोपवेशनं यत्र स स्थायीस्वर उच्यते ।
यश्चतुर्थस्वरस्तस्मात् स च द्वयर्ध उदीरितः ॥ २९३ ॥
तस्मादधस्तने यत्तु चालनं क्रियते स्वरे ।
मुखचालस्सकथितः स्वस्थानं प्रथमं च तत् ॥ २९४ ॥
द्वयर्धस्वरे चालयित्वा विन्यसेत्तद् द्वितीयकम् ।
स्थायिस्वरादष्टमस्तु द्विगुणः परिकीर्तितः ॥ २९५ ॥
53
द्व्यर्धद्विगुणयोर्मध्ये स्थिता अर्धस्थिताःस्वराः ।
अर्धस्थिते चालयित्वा न्यसनं तु तृतीयकम् ॥ २९६ ॥
द्विगुणं चालयित्वा तु स्थायिन्यासश्चतुर्थकम् ।
एभिस्थानैश्चतुर्भिस्तु रागालप्तिर्विधीयते ॥ २९७ ॥
इदमेवोच्यते गानं अनिबद्धं पुरातनैः ।
(292-297) ‘ Method of Raga-Alapana ; its stages or
‘swasthanas’.
சு. (292-297) ராக ஆலாபனம் செய்யும் முறை; அதில்
4 படிகள் அல்லது ‘ஸ்வஸ்தானங்கள்’ (சொந்த வீடுகள்).
रूपकस्थेन रागेण तालेन च विधीयते ॥ २९८ ॥
रूपकालिप्तिरेषा तु द्विविधा कथिता बुधैः ॥ २९९ ॥
प्रतिग्रहणिकाख्याद्या भञ्जनी संज्ञिकापरा ।
विधाय स्थायमालप्ते रूपकावयवो यदि ॥ ३०० ॥
प्रतिगृह्येत सा प्रोक्ता प्रतिग्रहणिका बुधैः ।
भञ्जनी द्विविधा ज्ञेया स्थायरूपक भञ्जनात् ॥ ३०१ ॥
यदा तत्पदमानेन स्थायरूपकसंश्रयात् ।
नाना प्रकारः क्रियते सा ज्ञेया स्थाय भञ्जनी ॥ ३०२ ॥
तैः पदैस्तेन मानेन समग्रं रूपकं यदि ।
अन्यथा चान्यथा गायेदसौ रूपकभञ्जनी ॥ ३०३ ॥
इदमेवोच्यते लोके नेमशब्देन गायकैः ।
(298-303) Rupaka Alāpti, its 2 kinds :—
54
(1) Pratigrahanika & (2) Bhanjani ; the 2 forms
of Bhanjani. (1) Consists in improvising music ending in
the particular phrase in the piece; (2) Consists in
changing the form of the phrase party or fully maintain-
ing the chhaya or emotion.
(298·303) ரூபக ஆலப்தி — அதன் இருவகை —
(1) ப்ரதிக்ரஹணிகா (ஸ்வரம் பாடுதல்;, (2) பஞ்சனி
(சங்கதிபோடுதலும், நிரவலும்)
वर्णालङ्कार सम्पन्ना गमकस्थायचित्रिता ॥ ३०४ ॥
आलप्तिः क्रियते तद्ज्ञैः बहुभङ्गिमनोहरा ।
स्वरस्य कम्पो गमकः श्रोतृचित्त सुखावहः ॥ ३०५ ॥
भेदाः पञ्चदशैवास्य कथितास्तिरिपादयः ।
लघिष्ठडमरुध्वान कम्पानुकृतिसुन्दरः ॥ ३०६ ॥
द्रुततुर्यांशवेगेन तिरिपः परिकीर्तितः ।
यदा द्रुततृतीयांश वेगःस्यात्स्फुरितस्तदा ॥ ३०७ ॥
द्रुतार्धमानवेगेन कम्पितं गमकं विदुः ।
द्रुतवेगेन लीनस्तु कम्पने गमको भवेत् ॥ ३०८ ॥
लघुवेगेन कम्पश्चेत् भवेदान्दोलितस्तदा ।
नाना प्रकारवक्रत्वं स्वरकम्प्यो यदा भवेत् ॥ ३०९ ॥
वेगाधिकस्तथा प्रोक्तो गमको वलिसंज्ञकः ।
त्रिभिन्नस्तु त्रिषुस्थानेष्वविश्रान्तघनस्वरः ॥ ३१० ॥
कण्ठे तु कोमलः कंपः ग्रन्थिलोवलिलक्ष्मयुक् ।
55
कुरुलो नाम गमकः तदा प्रोक्तो मनीषिभिः ॥ ३११ ॥
स्वरमग्रिममाहत्य निवृत्तिस्त्वाहतो भवेत् ।
उल्लसितः स गमको यस्स्वरानुत्तरोत्तरान् ॥ ३१२ ॥
क्रमाद्गच्छन् भवेत्कम्पो वैचित्र्याद्धृदयङ्गमः ।
प्लावितो गमकः प्रोक्तःप्लुतमानेन कम्पनम् ॥ ३१३ ॥
हृदयङ्गमहुङ्कारो गम्भीरोर्गुंफितोभवेत् ।
मुखमुद्रणसम्भूतों मुद्रितोगमकोभवेत् ॥ ३१४ ॥
स्वराणां नमनादुक्तो गमको नामिताभिधः ।
एतेषामेव भेदानां यदास्यान्मिश्रणन्मिथः ॥ ३१५ ॥
मिश्रितस्स तदा प्रोक्तो गमकःस्याद्विचक्षणैः ।
(304-315) Gamaks or Graces; its 15 forms.
(சு 304-315) கமகங்கள் 15 வகை.
स्थाया अपि भवन्त्यत्र रागस्यावयवात्मना ॥ ३१६ ॥
(316-317) Sthayas or kinds of musical phrases well
described in other text-books; hance not dealt with herein.
(சு. 316-317) 'ஸ்தாயங்கள்' அல்லது பிடிகள், மற்ற
நூல்களில் கண்டு கொள்க.
प्रसिद्धास्तद्विदां तेतु नोक्ता विस्तरभीतितः ।
रागाभिव्यक्तिशक्तित्वमनभ्यासेपि यद्ध्वनेः ॥ ३१७ ॥
तच्छारीरमितिप्रोक्तं शरीरेण सहोद्भवात् ।
तारस्थाने भवेद्यस्य माधुर्यं स्निग्धता तथा ॥ ३१८ ॥
56
गाम्भीर्यं मृदुता रक्तिः पुष्टिः कान्तिरनुध्वनिः ।
तत्सुशारीरमित्युक्तं लक्ष्यलक्षणकोविदैः ॥ ३१९ ॥
अनुध्वानविहीनत्वं रूक्षत्वं त्यक्तरक्तता ।
निस्सारता विस्वरता काकित्वं स्थानविच्युतिः ॥ ३२० ॥
कार्श्यं कार्कश्यमित्येतत्कुशारीरन्तु दूषणैः ।
विद्यादानेन तपसा भक्त्या वा पार्वतीपतेः ।
प्रभूतभाग्यविभवैः सुशारीरमवाप्यते ॥ ३२१ ॥
(317-321) 'Sarira' or musical voice defined; its
good and fad features,
(சு 317 321) 'சாரீரம்' என்றால் என்ன? அதன் குணங்
களும் தோஷங்களும்
एतत्प्रसङ्गतो लक्ष्म गायनादेरथोच्यते ।
लयतालकलाभिज्ञो ग्रामरागादिभेदवित् ।
गीतं गायति यो नाम रञ्जकस्स तु गायकः ॥ ३२२ ॥
सुशारीरो भवेद्यस्तु ग्रहमोक्षविचक्षणः ।
रागरागाङ्गभाषादि भेदज्ञस्तालवित्तमः ॥ ३२३ ॥
प्रबन्धगाननिपुणो विविधालापकोविदः ।
गमकेषु च सर्वेषु स्थानत्रयलसद्गतिः ॥ ३२४ ॥
आयत्तकण्ठवान् शुद्धच्छायालगविशेषवित् ।
जितश्रमस्सावधानः सर्वदोषविवर्जितः ॥ ३२५ ॥
மர்கள்-> wait, is itகாயகாதமர்கள்? காயகமத்தியம, காயகாதமர்கள்`
Yes: காயகமத்தியம, காயகாதமர்கள்.
Now let's check line 9:
सन्दष्टोद्धुष्टभीतादि दोषाः स्युः पञ्चविंशतिः ॥ ३२७ ॥
सन्दष्टोद्धुष्टभीतादि दोषाः स्युः पञ्चविंशतिः ॥ ३२७ ॥
Wait,पञ्चविंशतिः:पञ्चविंशतिः- is itञ्चorञ् च? It's ligatureञ्च.
Line 10:
सन्दश्य दशनं गायेत् असौ सन्दष्ट उच्यते ।
सन्दश्य दशनं गायेत् असौ सन्दष्ट उच्यते ।
Check spacing:गायेत् असौorगायेदसौ?
In the print:गायेत् असौ सन्दष्ट उच्यते ।(there is a space between गायेत् and असौ).
Line 11:
उद्धुष्टो विरसोद्धोषः सीत्कारी सीत्कृतैर्मुहुः ॥ ३२८ ॥
उद्धुष्टो विरसोद्धोषः सीत्कारी सीत्कृतैर्मुहुः ॥ ३२८ ॥
Line 12
58
गात्रं प्रसार्य यो गायेत् प्रसारी सतु गायनः ।
नेत्रे निमील्य यो गायेत् सतु प्रोक्तो निमीलकः ३३५ ॥
नीरसो रक्तिहीनो यः स प्रोक्तो विरसोऽधमः ।
यस्तुवर्ज्यस्वरं गायेत् सोपस्वर उदाहृतः ॥ ३३६ ॥
अव्यक्तवर्णं यो गायेत् अव्यक्तस्सनिगद्यते ।
स्थानत्रयंनशक्नोति गातुं गानक्रियासु यः ॥ ३३७ ॥
स्थानभ्रष्टस्सकथितो गीतज्ञैर्गायनाधमः ।
शुद्धच्छायालगौ रागौ मिश्रयन्यस्तुगायति ॥ ३३८ ॥
समिश्रकस्तथान्येषां रागाणामपि मिश्रणात् ।
स्थाय्यादिष्ववधानेन निर्मुक्तोऽनवधानकः ॥ ३३९ ॥
(327-339) The 25 Outstanding faults in Singing.
(சு 327-339) பாடுவதில் ஏற்படும் 25 தோஷங்கள்
शिक्षाकारोनुकारश्च रसिको रञ्जकस्तथा ।
भावकश्चेति गीतज्ञाः पञ्चधा गायनं जगुः ॥ ३४०
न्यूनशिक्षणे दक्षः शिक्षाकारो मतस्सताम् ।
स्वबुद्ध्यातिशयेनान्यच्छायामनुकरोतियः ॥ ३४१ ॥
अनुकारस्सकथितो द्वितीयोगायनो बुधैः ।
स्वयमेवरसाविष्टो रसिकोगायनोभवेत् ॥ ३४२ ॥
गानेन रञ्जयेद्यस्तु श्रोतॄन् गाता स रञ्जकः ।
गीतस्यातिशयोत्थानाद्भावकः परिकीर्तितः ॥ ३४३ ॥
340—343. Four types of singers
(சு. 340—343) நான்குவகைப் பாடகர்கள்.
59
एकल्यो यमलो बृन्दगायनश्चेति सत्रिधा ।
एक एव तु यो गायेत् असावेकल्यगायनः ॥ ३४४ ॥
सद्वितीयो यमलकः सबृन्दो बृन्दगायकः ।
344— Single double and group singers.
சு. 344— ஒருவர், இருவர், பலர் சேர்ந்து பாடும் பாடகர்கள்
रूपयौवन माधुर्यशालित्वमधिकोगुणः ॥ ३४५ ॥
345. The 3 necessary requirements of singers:—
(1) attractive personality (2) youthful stage in life.
(3) sweet voice.
சு, 345. பாடகர்களுக்கு முக்கியமான 3 குணங்கள்:—
(1) நல்லதோற்றம், (2) வாலிப வயது, (3) இனியகுரல்.
वाग्वर्णसमुदायस्तु मातुरित्युच्यते बुधैः ।
गेयं धातुर्द्वयोः कर्ता प्रोक्तो वाग्गेय कारकः ॥ ३४६ ॥
346— The 2 Component parts of musical Compo-
sition:—
(1) ' Matu ' (the words) (2) ' Dhathu ' (the tune)
சு--346-- ஸங்கீத ஸாஹித்தியத்தின் 2 அம்சங்கள்:—
(1) 'மாது' (வார்த்தைகள்) (2) 'தாது' (வர்ண மெட்டு)
शब्दानुशासनज्ञान मभिधानप्रवीणता ।
छन्दःप्रभेदवेदित्वं अलङ्कारेषु कौशलम् ॥ ३४७ ॥
रसभावादिविज्ञानं सर्वदेशस्थितिज्ञता ।
लयतालकलाज्ञानं हृद्यशारीरशालिता ॥ ३४८ ॥
सङ्गीतशास्त्रनैपुण्यं प्रतिभाच सभाजयः ।
रागद्वेषपरित्यागः सान्द्रत्वमुचितज्ञता ॥ ३४९ ॥
60
प्रत्यग्रधातुनिर्माणमनुच्छिष्टार्थकल्पनम् ।
द्रुतगीतविनिर्माणं पाठान्तरविदग्धता ॥ ३५० ॥
इत्यादि गुणसपन्नश्रेष्ठो वाग्गेयकारकः ।
347—350— 'Vak-geya-kara' (the highly qualified
Composer of music) and his qualifications.
(க. 347—350— 'வாக்கேயகாரர்' எனும் உயர்ந்த சாகித்ய
கர்த்தாவின் லக்ஷணங்கள்.
धातोरतिशयं कुर्यात् मातुमन्दस्तु मध्यमः ॥ ३५१ ॥
अप्रगल्भः प्रबन्धेषु भवेत्सोपि च मध्यमः ।
अन्यधातौ मातुकर्ता कुट्टिकारोऽधमोमतः ॥ ३५२ ॥
351—352— The lower ranks of comopsers
(சு. 351—352—) மத்தியம், அதம வாக்கேயகாரர்கள்.
इति श्रीमल्लक्ष्मीधरभट्टसुत चतुरदामोदर विरचिते
सङ्गीतदर्पणे, प्रकीर्णकाध्यायस्तृतीयस्समाप्तः ।
अथ प्रबन्धाध्यायश्चतुर्थः प्रारभ्यते ।
स्वररागादिकं सर्वं गीतोपकरणं ततः ।
निरूपितं प्रधानत्वादथगीतं निरूप्यते ॥ ३५३ ॥
वाग्गेयकारेण कृतं शास्त्रलक्षणसंयुतम् ।
बद्धं धातुभिरङ्गैश्च निबद्धमभिधीयते ॥ ३५४ ॥
61
आलप्तिर्बन्धहीनत्वा दनिबद्धमितीरितम् ।
(353—354) Music of two kinds: (1) Nibaddha or
Prabandha (built up by Dhatus and Angas as laid dawn
(2) Anibaddha (free expatiation) or Alapa
(சு. 353—355) பாட்டில் இருவகை:— (1) நிபத்தம் அல்லது
பிரபந்தம் (தாதுக்கள், அங்கங்கள் என்ற பிரிவுகளால் தொகுக்
கப்பட்டது) (2) அநிபத்தம் (இஷ்டப்படி சஞ்சாரம் செய்தல்)
அல்லது ஆலாபனை.
प्रबन्धो रूपकं वस्तु तस्य संज्ञात्रयं भवेत् ॥ ३५५ ॥ अथवा ।
गीतं च रूपकं वस्तु प्रबन्धो गेयमित्यपि ।
गीते पञ्चाभिधाः प्रोक्ताः लक्ष्यदृष्टया विचक्षणैः ३५६ ॥
चतुर्भिर्धातुभिश्चाङ्गैः यस्मादेष प्रयुज्यते ।
तस्मात्प्रबन्धः कथितः गीतज्ञैस्तालकोविदैः ॥ ३५७ ॥
धातुः प्रबन्धावयवः सचोद्ग्राहादिभेदतः ।
चतुर्धा कथितो भागस्त्वाद्य उद्ग्राहसंज्ञकः ॥ ३५८ ॥
आदावुद्ग्राह्यतेगीतं येनोद्ग्राहस्तदाभवेत् ।
मेलापको द्वितीयस्तूद्ग्राहध्रुवकमेलनात् ॥ ३५९ ॥
ध्रुवत्वाद्ध्रुवसंज्ञस्तु तृतीयो भाग उच्यते ।
आभोगस्त्वन्तिमो भागो गीतपूर्णत्वसूचकः ॥ ३६० ॥
355—360 The 4 dhatus or parts of a Prabandha: —
‘ Udgraha ’ ( the beginning ) (2) ‘ Melapaka ’ (Join-
ing the 1st and 3rd dhatus) (3) ‘ Dhruva ’ (the certain or
indispensable part) and (4) Abhoga (end)
62
(சு. 355—360) பிரபந்தத்தின் 4 தாதுக்கள் அல்லது
பகுதிகள்:— (1) உத்க்ராஹம் (எடுப்பு) (2) மேளாபகம் (முதலா
வது 3வது, பகுதிகளைச்சேர்ப்பது) (3) த்ருவம் (நிச்சயமான
பகுதி) (4) ஆபோகம் (முடிவு).
ध्रुवाभोगान्तरे कश्चित् धातुरुक्तोन्तराभिधः ।
सतु सालगसूडस्थरूपकादिषु दृश्यते ॥ ३६१ ॥
361— The 5th Dhatu called 'Antara' (in between)
is found in certain prabandhas like Salagasudas between
the 3 rd and 4th Dhatus.
(சு. 361) 'அந்தரா' (இடையே) என்ற 5வது பகுதி 'சாலக
சூடம்' முதலிய பிரபந்தங்களில் 3வது 4வது பகுதிகளுக்கிடையே
வருகிறது.
चतुर्धातुस्त्रिधातुश्च द्विधातुरिति स त्रिधा ॥ ३६२ ॥
मेलापकाभोगयोस्तु क्वचित्क्वचिदभावतः ।
362— The 3 kinds of prabandhas with 4, 3 and 2
Dhatus respectively.
(சு - 362) 3 வகை பிரபந்தங்கள்:— 4, 3, 2, தாதுக்கள்
கொண்டவை.
तालस्वरौ तु तत्पादौ शब्दस्तेनेति तेनकः ।
प्रकाशको मङ्गलस्य पदमर्थप्रकाशकम् ॥ ३६३ ॥
पाटो वाद्योद्भवश्शब्दः बिरुदं तु गुणाभिधा ।
तालश्चच्चत्पुटादिः स्यात् स्वरास्सरिगमादिकाः ॥ ३६४ ॥
तत्तत्कार्यानुरूपेण तत्तत्स्थाने निवेशनम् ।
63
362-364 The six 'angas' or constituent elements
of a prabandha,- (1) Swara (notes), (2) Biruda (pane-
gyric) (3) Pada (words) (4) Tenaka (Syllable 'Tena')
(5) Pata (sounds of instruments) (6) Tala (syllables for
time-measure)
சு. (362—364) ப்ரபந்தத்தின் 6 அங்கங்கள்:— (1) ஸ்வரம்
(2) பிருதம் (விருது) (3) பதம் (வார்த்தைகள்) (4) தேநகம்
('தேந' என்ற சொல்) (5) பாடம் (வாத்திய ஒலிகள்) (6)
தாளம் (சொல்லுக்கட்டுகள்)
प्रबन्धजातयः पञ्च कथ्यन्ते ताः क्रमेणतु ॥ ३६५ ॥
षड्भिरङ्गैर्मेदिनी स्यात् नन्दिनी पञ्चभिर्भवेत् ।
चतुर्भिर्दीपिनी प्रोक्ता त्रिभिरङ्गैस्तु पावनी ॥ ३६६ ॥
द्वाभ्यां तारावली जातिरङ्गाभ्यामुपजायते ।
365-366- Names of the 5 kinds of prabandhas
classified according to the number of angas they have,
6, 5, 4, 3, or 2, respectively.
சு. 365-366 2, 3, 4, 5, 6, அங்கங்கள் உள்ள ஐந்து வகை
ப்ரபந்தங்களின் பெயர்கள்
छन्दस्तालादिनियमात् निर्युक्तस्यादतोऽन्यथा ॥ ३६७ ॥
अनिर्युक्त इति द्वेधा प्रबन्धः परिकीर्तितः ।
367 - 2 kinds of prabandhas:- (1) with definite
rules as to tala and meter (2) without such rules.
(சு. 367) இருவித பிரபந்தங்கள்:— குறிப்பிட்ட சந்தம், தாளம்
உடையவை (2) சந்தம் தாளம் குறிப்பிடப் படாதவை.
तत्र गीतप्रयोगित्वात् गणवर्गादि कथ्यते ॥ ३६८ ॥
64
त्रिगुरुर्मगणो भूमिर्देवता श्रीप्रदो नृणाम् ।
य आप्यो वृद्धिकृल्लाद्यो रो लमध्यो मृतिप्रदः ॥ ३६९ ॥
आग्नेयस्सोन्तगः स्थानभ्रंशकृद्वायुदैवतः ।
तोन्तलोम्बरदैवत्यो निर्धनत्वकरो नृणाम् ॥ ३७० ॥
मध्यगो जस्तु सूर्यो रुक्प्रदः सौम्यस्तु कीर्तिकृत् ।
गादिर्भस्त्रिलघुर्नस्यात् आयुष्कृद्दैववासवः ॥ ३७१ ॥
368—371)— Ganas or metrical formuals of three
syllables.
Name —Syllables — Devata— effect. —
(1) 'Ma'-gana 3 long Earth wealth.
(2) 'ya'gana 1st short. water Prosperity
(3) 'Ra'gana middle short fire Death
(4) 'Sa'gana last long Air unseating
(5) 'Ta'gana last short Earth Poverty
(6) 'Ja'gana middle long Sun Illness
(7) 'Bha'gana first long Moon Fame
(8) 'Na'gana 3rd short Indra. long life
சு. (368—371) -- ‘கணங்கள்’ அல்லது சீர்களின் வகைகள்
(மூன்று உயிரெழுத்துக்கள் உள்ளவை)
கணம்— குறில் நெடில்— தேவதை— பலன்—
(1) ‘ம’ கணம் 3 நெடில் பூமி. தனம்.
(2) ‘ய’ ,, முதல் குறில் அப்பு விருத்தி
(3) ‘ர’ ,, நடுக்குறில் அக்னி சாவு
(4) ‘ஸ’ கணம் கடைநெடில் வாயு இடமாறல்
(5) ‘த’ ,, கடைக்குறில் ஆகாயம் வறுமை
(6) ‘ஜ’ ,, இடைநெடில் சூரியன் வியாதி
(7) ‘ப’ ,, முதல் நெடில் சந்திரன் கீர்த்தி.
(8) ‘ந’ ,, 3 குறில் இந்திரன் ஆயுள்.