सङ्गीतदर्पण (दामोदर पण्डित - तंजौर सरस्वती महल संस्करण, सङ्गीत एवं नाट्य लक्षण)
Sangita Darpana of Damodara Pandita (TMSSML Edition)
दामोदर पण्डित (सम्पादक: के. वासुदेव शास्त्री) द्वारा
25
काण्डारणा तुकथिता तारस्थानेतिशीघ्रता ।
गमकैर्विविधैर्युक्ता कौशल्यसहिता मता ॥ १५४ ॥
इति काण्डरणा ।
(154) "Kandarana" or the the tremulo and other
graces in the higher octaves.
(சு. 154) "காண்டாரணை" அல்லது மேல் ஸ்தாயியில்
கமகங்கள் நிறைந்த துரித சஞ்சாரம்.
अथ मतङ्गमतेन रागाणां त्रैविध्यं दर्शयति ।
शुद्धाः छायालगाः प्रोक्ताः सङ्कीर्णाश्च तथैव च ॥ १५५ ॥
तत्र शुद्धरागत्वं नाम शास्त्रोक्तनियमाद्रंजकत्वं भवति ।
छायालगरागत्वं नाम अन्यच्छायानुलगत्वेन रक्तिहेतुत्वम् ।
सङ्कीर्णरागत्वं नाम शुद्धछायालगमुख्यत्वेन रक्तिहेतुत्वम् ॥ १५६ ॥
इति कल्लिनाथोक्तं लिखितम् ।
(155-156) The 3 kinds of Ragas according to
Matanga :-Suddha, Chhayalaga, and Sankirna.
The 1st kind follows the classical rules of the
ancient texts.
The 2nd kind makes a slight deviation while
following, in the main, the path of the Suddha ragas.
The 3rd kind is formed with the help of the ragas
of the 1st and 2nd kind.
(சு. 155—156) மதங்கர் சொல்லியபடி ராகங்களின் வகை:—
(1) சுத்தம் (சாஸ்திரப்படி அமைந்தவை.)
(2) சாயாலகம் (சிறிது மாறியவை.)
(3) சங்கீர்ணம் (முதல் இரண்டு வகையும் கலந்தவை.)
4
26
औडवः पञ्चभिः प्रोक्तः स्वरैः षड्भिस्तु षाडवः ।
सम्पूर्णः सप्तभिर्ज्ञेयस्त्वेवं रागस्त्रिधामतः ॥ १५७ ॥
(157) Classification according to the no. of swaras
occurring in the raga:--
(1) Sampurna (7 swaras.)
(2) Shadava (6 swaras.)
(3) Oudava (5 swaras.)
(சு. 157) ராகங்களிலுள்ள ஸ்வரங்களின் எண்ணிக்கையைப்
பொறுத்து ராகங்களின் வகை:—
(1) ஸம்பூர்ணம் (7 ஸ்வரங்கள்.)
(2) ஷாடவம் (6 ,, .)
(3) ஔடவம் (5 ,, .)
श्रीराग नट्टौ बङ्गालो भासमध्यम पाडवौ ।
रक्तहंसः कोह्लासः प्रसभो भैरवध्वनिः ॥ १५८ ॥
मेघरागः सोमरागः काम्बोदश्चाम्रपञ्चमः ।
स्यातां कन्दर्पदेशाख्यौ ककुभान्तश्च कैशिकः ।
नट्टनारायणश्चेति रागविंशतिरीरिताः ॥ १५९ ॥
- (158-59) The well known classical Ragas 20 in
number.
(சு. 158-59) 20 பழைய பிரசித்த ராகங்கள்.
अथ रागरागिणीमतम् ।
शिवशक्तेः समायोगात् रागाणां सम्भवोभवेत् ।
पञ्चास्यात् पञ्चरागाःस्युः षष्ठस्तु गिरिजामुखात् ॥ १६० ॥
द्वितीय रागाध्याय: राग-लक्षण एवं राग-ध्यान (रागांग, भाषांग)
27
सद्योवक्त्रात्तु श्रीरागो वामदेवाद्गसन्तकः ।
अघोराद्भैरवो जातः तत्पुरुषात्तु पञ्चमः ॥ १६१ ॥
ईशानाख्यान्मेघरागो नाट्यारम्भे शिवाद्भूत् ।
गिरिजाया मुखाल्लास्ये नट्टनारायणोऽभवत् ॥ १६२ ॥
“ केरागाः काश्चरागिण्यः कावेला ऋतवश्चके ।
किंरूपं कथमुद्धारः वद देव प्रसादतः ” ॥ १६३ ॥
श्रीरागोऽथ वसन्तश्च भैरवः पञ्चमस्तथा ।
मेघरागो बृहन्नाटः षडेते पुरुषाह्वयाः ॥ १६४ ॥
इति षट्पुरुषरागाः ।
अथरागिण्यः ।
मालवी त्रिवणी गौडी केदारी मधुमाधवी ।
ततः पाहाडिकाज्ञेया श्रीरागस्य वराङ्गनाः ॥ १६५ ॥
देशी देवगिरी चैव वराटी तोडिकातथा ।
ललिताचाथ हिन्दोली वसन्तस्य वराङ्गनाः ॥ १६६ ॥
भैरवी गुर्जरीचैव रेवा गुणकरी तथा ।
बङ्गाली बहुलीचैव भैरवस्य वराङ्गनाः ॥ १६७ ॥
विभासश्चाथ भूपाली कर्णाटी बडहंसिका ।
मालवश्रीपढमञ्जर्या सहैताः पञ्चमाङ्गनाः ॥ १६८ ॥
28
मल्हारी सोरटी चैव सावेरी कौशिकी तथा ।
गान्धारि हरिशृङ्गारा मेघरागस्य योषितः ॥ १६९ ॥
कामोदीचैव कल्याणी आभेरी नाटिका पुनः ।
सालङ्गीनट्टहंजी(वी)रा नटनारायणाङ्गनाः ॥ १७० ॥
इति षट्त्रिंशद्रागिण्यः ।
(160-170) Classification of Ragas into masculine
and femminine :—
(1) Someswara's Classification :— 6 'Ragas' or
masculine tunes, each having 6 'Raginis' or consorts.
(சு. 160-170) ராகங்களின் பாகுபாடு :—
(1) ஸோமேசுவரரின் மதப்படி புருஷ ராகங்கள் 6ம், ஒவ்
வொன்றுக்கும் 6 ஸ்திரீகளாகிய ராகிணிகளும்.
अथरागवेळा ।
मधुमाधवीच देशाख्या भूपाली भैरवी तथा ।
वेलावलीच मल्हारी वङ्गाली साम गुर्जरी ॥ १७१ ॥
धनाश्री मालवश्रीश्च मेघरागश्च पञ्चमः ।
देशकारो भैरवश्च ललितश्च वसन्तकः ॥ १७२ ॥
एते रागाः प्रगीयन्ते प्रातरारभ्यनित्यशः ।
गुर्जरी कौशिकश्चैव सावेरी पटमञ्जरी ॥ १७३ ॥
रेवा गुणकरी चैव भैरवी रामकर्यपि ।
सोरटी च तथा गेया प्रथमप्रहरोत्तरम् ॥ १७४ ॥
29
वैराटी तोडिकाचैव कामोदीच कुडायिका ।
गान्धारी नागशब्दीच तथादेशी विशेषतः ॥ १७५ ॥
शङ्कराभरणो ज्ञेयो द्वितीयप्रहरात्परम् ।
श्रीरागोमालवाख्यश्च गौडी त्रिवणसंज्ञकः ॥ १७६ ॥
नटकल्याण संज्ञश्च सालङ्गं नट्टकं तथा ।
सर्वे नाटाश्च केदारी कर्णाट्याभीरिका तथा ॥ १७७ ॥
बडहंसी पहाडीच तृतीय प्रहरात्परम् ।
अर्धरात्रावधिर्गेया रागा एते सुखप्रदाः ॥ १७८ ॥
यथोक्तकाल एवैते गेयाः पूर्व विधानतः ।
राजाज्ञया सदागेया नतु कालं विचारयेत् ॥ १७९ ॥
इति रागवेळा ॥
श्रीरागो रागिणीयुक्तः शिशिरे गीयते बुधैः ।
वसन्तस्स्वसहायैस्तु बसन्तर्तौ प्रगीयते ॥ १८० ॥
भैरवः स्वसहायैस्तु ऋतौ ग्रीष्मे प्रगीयते ।
पञ्चमस्तु तथागेयो रागिण्या सह शारदे ॥ १८१ ॥
मेघरागो रागिणीभिः युक्तोवर्षासुगीयते ।
नट नारायणोरागो रागिण्यासहहेमके ।
यथेच्छया वा गातव्याः सर्वर्तुषु सुखप्रदाः ॥ १८२ ॥
इति ऋतुवेला ।
–इति सोमेश्वरमतम् ।
(171-182) The proper time of the day and the
season for particular Ragas.
(சு. 171-182) ராகங்களுக்குத் தகுதியான வேளையும் ருதுவும்
30
अथ हनूमन्मतम् ।
भैरवो कौशिकश्चैव हिन्दोलो दीपकस्तथा ।
श्रीरागो मेघरागश्च षडेते पुरुषाह्वयाः ॥ १८३ ॥
मध्यमादिर्भैरवी च बङ्गाली च वराटिका ।
सैन्धवी च पुनर्गैया भैरवस्य वराङ्गनाः ॥ १८४ ॥
टोडी खभावती गौडी गुणक्री ककुभा तथा ।
रागिण्यो रागराजस्य कौशिकस्य वराङ्गनाः ॥ १८५ ॥
वेलावली रामकरी देशारूया पटमञ्जरी ।
ललिता सहिता एता हिन्दोलस्य वराङ्गनाः ॥ १८६ ॥
केदारी कानडा देशी कामोदी नाटिका पुनः ।
दीपकस्य प्रियाः पञ्च ख्याता रागविशारदैः ॥ १८७ ॥
वसन्ती मालती चैव मालश्रीश्च धनाश्रिका ।
असावेरीति विज्ञेयाः श्रीरागस्य वराङ्गनाः ॥ १८८ ॥
मल्लारी देशकारी च भूपाली गुर्जरी तथा ।
टक्कश्च पञ्चमीभार्या मेघरागस्य योषितः ॥ १८९ ॥
इति हनूमन्मते रागरागिण्यः ।
(183-189) Classification according to Hanuman :—
6 masculine Ragas, each having 5 consorts or Raginis.
(சு. 183-189) ஹனுமத் பரதம் என்னும் நூலில் சொல்லப்
பட்டிருக்கும் விரிவினை :—
31
6 புருஷ ராகங்களும் ஒவ்வொன்றுக்கும் 5 ஸ்திரீகளாகிய
ராகிணிகளும்.
अथ रागार्णव मतम् ।
भैरवः पञ्चमो नाटो मल्लारो गौडमालवः ।
देशारुख्यश्चेति षड्रागाः प्रोच्यन्ते लोकविश्रुताः ॥ १९० ॥
बङ्गालीयं गुणकरी मध्यमादिर्वसेंन्तकः ।
धनाश्रीश्चेति पञ्चैते रागा भैरवसंश्रयाः ॥ १९१ ॥
ललितागुर्जरीदेशी वराटी रामकृत्तथा ।
मता रागार्णवे रागाः पञ्चैते पञ्चमाश्रयाः ॥ १९२ ॥
नटनारायणः पूर्वगान्धारः सालगस्तथा ।
ततः केदारकर्णाटौ पञ्चैते नाटसंश्रयाः ॥ १९३ ॥
मेघमल्लारिका मालकौशिकः पटमञ्जरी ।
असावेरीति विज्ञेयाः रागा मल्लारिसंश्रयाः ॥ १९४ ॥
हिन्दोल स्त्रवणांधारी गौडी च पडहंसिका ।
पञ्चैते रागनामानं गौडमाश्रित्य संस्थिताः ॥ १९५
भूपालीच कुडायीच कामोदी नाटिका तथा ।
वेलावलीति विज्ञेया रागादेशारुख्यसंश्रयाः । इति रागार्णवमतम्।
न तालानां न रागाणां अन्तः कुत्रापि विद्यते ॥ १९६ ॥
32
- (190-196) Classification according to Ragarnava:-
6 principal ragas, and 5 subordinate ragas attached to
each of the principal ones.
(சு. 190-196) ராகார்ணவ மதப்படி ராகங்களின் பிரிவினை:-
6 முக்ய ராகங்களும் ஒவ்வொரு முக்ய ராகத்துக்கும் சார்பு
ராகங்கள் 5ம்.
इदानीं राग रागिण्युदाहरणं प्रारभ्यते ॥
धैवतांश ग्रहन्यासो रिपहीनोथ मागतः ।
भैरवस्सतु विज्ञेयः धैवतादिक मूर्छनः ।
धैवतो विकृतोयत्र औडवः परिकीर्तितः ॥ १९७ ॥
उदाहरणम् ।
गङ्गाधरः शशिकलातिलकस्त्रिनेत्रः
सर्पैर्विभूषिततनुर्गजकृत्तिवासाः ।
भास्वत्रिशूलकर एष नृमुण्डधारी
शुभ्राम्बरोजयति भैरव आदिरागः ॥ १९८ ॥
33
धनि सगमधनि । इति भैरवः ॥ १ ॥
(197-198) Bhairava raga lakshana.
(சு. 197-198) 'பைரவ' ராக லக்ஷணம்.
मध्यमादिश्चरागांगा ग्रहांशन्यास मध्यमा ।
सप्तस्वरैस्तु गातव्या मध्यमादिक मूर्छना ।
सम्पूर्णा कथिता तद्ज्ञैः रिधहीना क्वचिन्मता ॥ १९९ ॥
उदाहरणम् ।
पत्या सहास परिंरभ्य कामं संचुम्बितास्या कमलायताक्षी ।
स्वर्णच्छविः कुङ्कुमलित्तदेहा सामध्यमादिः कथिता मुनीन्द्रैः ॥२००॥
पधमनी सरिगम अथवा मम पम पनि सनिगम, ।
इति मध्यमादिः ॥ २ ॥
(199-200) Raga Madhyamadi lakshana.
(சு. 199-200) 'மத்யமாதி' ராக லக்ஷணம்.
सम्पूर्णा भैरवी ज्ञेया ग्रहांशन्यास मध्यमा
सौवीरीमूर्छना ज्ञेया मध्यमभ्रामचारिणी ।
केचिदेनां भैरववत् स्वरैर्ज्ञेया विचक्षणैः ॥ २०१ ॥
उदाहरणम् ।
स्फटिकरचितपीठे रम्यकैलासशृङ्गे
विकचकमलपत्रैरर्चयन्तीमहेशम् ।
करधृतघनवाद्या पीतवर्णायताक्षी
सुकविभिरियमुक्ता भैरवी भैरवस्त्री ॥ २०२ ॥
5
34
मपधनि सरि गम अथवा धनि सगम धप ॥ इति भैरवी ॥ ३ ॥
(201-202) 'Bhairavi' lakshana.
(சு. 201-202) 'பைரவி' லக்ஷணம்.
बङ्गाली औडवाज्ञेया ग्रहांशान्यासषड्जभाक् ।
रिध हीना च विज्ञेया मूर्छना प्रथमा मता ।
पूर्णा वा मत्रयोपेता कल्लिनाथेन भाषिता ॥ २०३ ॥
उदाहरणम् ।
कक्षे निवेशितकरण्डधरस्तपस्वी
भास्वत्त्रिशूल परिमण्डितवामहस्तः ।
भस्मोज्ज्वलो निबिडबद्धजटाकलापः
बङ्गाल इत्यभिहितस्तरुणार्र्कवर्णः ॥ २०४ ॥
सगम पनि स अथवा मपधनि सरि गम । इति बङ्गाली ॥४॥
(203-204) 'Bangali' lakshana.
(சு. 203-204) 'பங்காளீ' லக்ஷணம்.
षड्जग्रहांशकन्यासा वराटी कथिता बुधैः ।
प्रथमा मूर्छना यस्यां सम्पूर्णा कीर्तिवर्धनी ॥ २०५ ॥
उदाहरणम् ।
विनोदयन्ती दयितं सुकेशी सुकङ्कणा चामरचालनेन ।
कर्णे दधाना सुरवृक्षपुष्पं वराङ्गनेयं कथिता वराटी ॥ २०६ ॥
सरिगम पधनिस । इति वराटी ॥ ५ ॥
35
(205-206) 'Varati' lakshana.
(205-206) 'வராடி' (வராளி) லக்ஷணம்.
षड्जग्रहांशकन्यासा सम्पूर्णा सैन्धवी मता ।
मूर्च्छनोत्तरमन्द्राद्या कैश्चित् षाडविका मता ।
रिहिना तु भवेन्नित्यं रसे वीरे प्रयुज्यते ॥ २०७ ॥
उदाहरणम् ।
त्रिशूलपाणिः शिवभक्तियुक्ता रक्ताम्बरा धारितबंधुजीवा ।
वीरे रसे गायकगीतवर्णा सा सैन्धवी भैरवरागिणीयम् ॥२०८॥
सरिगम पधनिस अथवा सगमपधनिस इति । सैन्धवी ॥ ६ ॥
इति पंचभार्यासहितोभैरवः ।
(207-208) 'Saindhavi' lakshana.
(சு. 207-208) 'ஸைந்தவி' லக்ஷணம்.
षड्जग्रहांशकन्यासः सम्पूर्णः कौशिको मतः ।
मूर्छना प्रथमा ज्ञेया काकलीस्वरसम्मतः ॥ २०९ ॥
उदाहरणम् ।
आरक्तवर्णो धृतगौरयष्टिः वीरः सुवीरेषु कृतप्रवीरः ।
वीरैर्वृतो वैरिकपोलमालामाली मतो मालवकौशिकोयम् ॥२१०॥
सरिगमपधनिस सनिधपमगरिस । इति मालव कौशिकः ॥७॥
(209-210) 'Malava Kausika' lakshana.
(சு. 209-210) 'மாளவ கௌசிக' லக்ஷணம்.
मध्यमांश ग्रहन्यासा सौवीरी मूर्छना मता ।
36
सम्पूर्णा कथिता तज्ज्ञैः तोडी स्त्री कौशिके मता ।
ग्रहांशन्यासषड्जश्च केचिदत्र प्रचक्षते ॥ २११ ॥
उदाहरणम् ।
तुषार कुन्दोज्ज्वल देहयष्टिःकाश्मीर कर्पूर विलिप्तदेहा ।
विनोदयन्ती हरिणं वनान्ते वीणाधरा राजति तोडिकेयम् ॥२१२॥
मपधनि सरिगम अथवा सरिगम पधनिस । इति तोडी ॥८॥
(211-212) 'Todi' lakshana,
(சு. 211-212) 'டோடி' (தோடி) லக்ஷணம்.
धैवतांश ग्रहन्यासा षाडवा त्यक्तपञ्चमा ।
खंभावतीच विज्ञेया मूर्छना पौरवी मता ॥ २१३ ॥
उदाहरणम् ।
खंभावतिः स्यात् सुखदा रसज्ञा सौन्दर्यलावण्य विभूषिताङ्गी ।
दानप्रिया कोकिल तुल्यनादा प्रियं वदा कौशिकरागिणीयम् ॥२१४॥
धनि सरि गमध । इति खंभावती ॥ ९ ॥
(213-214) 'Khambhavati lakshana.
(சு. 213-214) 'கம்பாவதி' லக்ஷணம்.
ग्रहांशन्यासषड्जास्या द्विपवर्ज्या सुखप्रदा ।
मूर्छना प्रथमा ज्ञेया गौरी सर्वाङ्गसुन्दरी ॥ २१५ ॥
उदाहरणम् ।
निवेशयन्ती श्रवणेवतंसमाम्राङ्कुरं कोकिलनादरम्या ।
श्यामा मधुस्यन्दितसूक्ष्मनादा गौरीयमुक्ता किल कोहलेन ॥२१६॥
37
सगमधवनिस सनिधमगम । इति गौरी ॥ १० ॥
(215-216) ' Gouri ' lakshana
(சு. 215-216) ' கௌரி ' லக்ஷணம்.
रिधहीना गुणकरी चौडवा परिकीर्तिता ।
निग्रहांशा तुनिन्यासा कैश्चित् षड्जत्रयामता ॥
रजनी मूर्छना चात्र मालवाश्रयणी तु सा ॥ २१७ ॥
उदाहरणम् ।
शोकाभिभूतनयनारुणदीनदृष्टिः
नम्रानना धरणिधूसरगात्रयष्टिः ।
आमुक्तचारुकबरी प्रियदूरवर्ती
संकीर्तिता गुणकरी करुणे कृशाङ्गी ॥ २१८ ॥
निसगमपनि निपमगसनि अथवा सगमपनिस । इति गुणकरी ॥ १ १ ॥
(217-218) ' Gunakari ' lakshana.
(சு. 217-218) ' குணகரி ' லக்ஷணம்.
धैवतांशग्रहन्यासा सम्पूर्णा ककुभामता ।
तृतीयमूर्च्छनोत्पन्ना शृङ्गाररसमण्डिता ॥ २१९ ॥
उदाहरणम् ।
सुपोषिताङ्गी रतिमण्डिताङ्गी चन्द्रानना चम्पकदामयुक्ता ।
कटाक्षिणी स्यात् परमा विचित्रनादेन युक्ता ककुभा मनोज्ञा ॥
धनिसरिगमपध इति ककुभा ॥ इति पञ्चभार्यासहितो
मालव कौशिकः ॥ १२ ॥
38
(219-220) ‘Kakuba’ lakshana.
(219 220) ‘ககுபா’ லக்ஷணம்.
हिन्दोलको रिधत्यक्तः सत्रयः कथितो बुधैः । ।
मूर्छना शुद्धमध्या स्याद् औडवः काकलीयुतः ॥ २२१ ॥
उदाहरणम् ।
नितम्बिनीमन्दतरङ्गितासु दोलासु खेलासुखमादधानः ।
खर्वः कपोतद्युतिकामयुक्तो हिन्दोलरागः कथितोमुनीन्द्रैः ॥ २२२ ॥
सगम पनि मपस । इति हिन्दोलः ॥ १३ ॥
(221-222) ‘Hindola ’ lakshana.
(சு. 221-222) ‘ஹிந்தோள’ லக்ஷணம்.
धैवतांशग्रहन्यासा पूर्णा वेलावली मता ।
पौरवीमूर्छना ज्ञेया रसेवीरे प्रयुज्यते ॥ २२३ ॥
उदाहरणम् ।
सङ्कतदीक्षां दयिते च दत्वा वितन्वती भूषणमङ्गकेषु ।
मुहुः स्मरन्ती स्मरमिष्टदेवं वेलावली नीलसरोजकान्तिः ॥ २२४ ॥
धनि सरि गम पध । इति वेलावली ॥ १४ ॥
(223-224) ‘Velavali’ lakshana.
(சு. 223-224) ‘வேளாவளி’ லக்ஷணம்.
षड्जग्रहांशकन्यासा पूर्णा रामकरी मता ।
मूर्छना प्रथमा ज्ञेया करुणे सा प्रयुज्यते ॥ २२५ ॥
रिधत्यक्ता तु केचित्तु केचित्पञ्चमवर्जिता ।
षाडवा औडवा ज्ञेया सम्पूर्णा च त्रिधा मता ॥ २२६ ॥
39
उदाहरणम् ।
हेमप्रभाभासुरभूषणा च नीलं निचोलं वपुषा वहन्ती ।
कान्ते समीपे कमनीयकण्ठा मानोन्नता रामकरी मतेयम् ॥ २२७ ॥
सगमपधिनिस अथवा सरिगमपधनिस अथवा सरिगमधनि स । इतिरामकरी॥
(225-227) ‘Ramakari’ lakshana.
(சு. 225-227) ‘ராமகரி’ லக்ஷணம்.
देशाख्या षाडवा ज्ञेया गत्रयेण विभूषिता ।
ऋषभेण वियुक्ता सा शार्ङ्गदेवेन कीर्तिता ॥
मूर्छनाहरिणाश्वा च सम्पूर्णा केचिदूचिरे ॥ २२८ ॥
उदाहरणम् ।
वीरे रसे व्यंजितरोमहर्षा निरुध्य सम्बद्धविलासबाहुः ।
प्रांशुः प्रचण्डा किल सुंदराङ्गी देशाख्यरागः कथितो
मुनीन्द्रैः ॥ २२९ ॥
[ हिन्दोलकान्ताकिल देशकारः। इति वापाठः ] ॥ गंमपधनिसग
अथवा गमपधनिसरिगं इति देशाख्या ॥ १६ ॥
(228-229) ‘Desakhya’ lakshana.
(சு, 228-229) ‘தேஸாக்யா’ (தேஸாக்ஷி) லக்ஷணம்,
पञ्चमांश ग्रहन्यासा पूर्णा स्यात्पटमञ्जरी ।
हृष्यका मूर्छना ज्ञेया रसिकानां सुखप्रदा ॥ २३० ॥
उदाहरणम् ।
वियोगिनी कान्तविशीर्णनेत्रा स्रजं वहन्ती वपुषा च शुक्लाम् ।
आश्वास्यमाना प्रियया च सख्या सुधूसराङ्गी पटमञ्जरीयम् ॥
(230-231) ‘Patamanjari’ lakshana,
40
प ध निस रीगमप । इति पटमञ्जरी ॥ १७ ॥
(சு. 230—231) படமஞ்சரி லக்ஷணம்.
रिपवर्ज्या च ललिता औडवा सत्रया मता ।
मूर्छनाशुद्धमध्या स्यात् संपूर्णा केचिदूचिरे ॥
धैवतत्रयसंयुक्ता द्वितीयललिता मता ॥ २३२ ॥
उदाहरणम् ।
प्रफुल्लसच्छद्ममाल्ययुक्ता गौरी कृशाङ्गी तरुणी चलाक्षी ।
विनिश्वसत्साद्वशात् प्रभाते विलासवेशा ललितोपदिष्टा ॥ २३३ ॥
सगमधनिस अथवा धनि सगमध । इति ललिता ॥ १८ ॥
इति पञ्च भार्यासहितो हिन्दोलकः ॥
(232—233) ‘ Lalita ’ lakshana
(சு. 232—233) லலிதா லக்ஷணம்,
षड्जग्रहांशकन्यासः सम्पूर्णो दीपको मतः ।
मूर्छना शुद्धमध्यास्यात् गातव्या गायनैः सदा ॥ २३४ ॥
उदाहरणम् ।
बाला रतार्थे प्रविलीनदीपे गृहेन्धकारे सुभगी प्रवृत्ता ।
तस्याः शिरोभूषणरत्नदीपैः लज्जां तदानीं कृतवान्प्रदीपः ॥ २३५ ॥
स रि ग म प ध नि स । इति दीपकः ॥ १९ ॥
(234-235) ‘Dipaka’ lakshana.
(சு. 234-235) ‘தீபக’ லக்ஷணம்.
केदारी रिधहीनास्यात् औडवा परिकीर्तिता ।
नित्रया मूर्छनामार्गी काकलीस्वरसम्मिता ॥ २३६ ॥
41
उदाहरणम् ।
जटांदधानः सितचन्द्रमौलिः नागोत्तरीयो धृतयोगपीठः ।
गङ्गाधरो ध्याननिमग्नचित्तः केदाररागः कथितस्तपस्वी ॥ २३७ ॥
[ विरहविबुभाचित्ता पाण्डुगण्डा कृशाङ्गी
मलयजरसपूरैः सिच्यमाना सखीभिः ।
सरसकमलपत्रैः कृतशय्यानिविष्टा
हिमकरसितवस्त्रा भाति केदारिकेयम् ॥ २३८ ॥ ]
नि स ग म प नि नि प म ग स नि । इति केदारी ॥ २० ॥
(236-238) 'Kedari' lakshana.
(சு. 236-238) 'கேதாரி' லக்ஷணம்.
त्रिनिषादोथ संपूर्णः निषादो विकृतो भवेत् ।
मार्गीयं मूर्छना ज्ञेया कर्णाटीयं सुखप्रदा ॥ २३९ ॥
उदाहरणम् ।
कर्णाटी कमलेक्षणा सुरतरोर्मूले वसन्ती मुहुः
श्वासोच्छ्वासवि
42
उदाहरणम् ।
निद्रालसं सा कपटेन कान्तं विबोधयन्ती सुरतोत्सुकेन ।
गौरी मनोज्ञा शुकपुच्छवस्त्रा ख्याताच देशी रसपूर्णचित्ता ॥ २४२ ॥
रिगमधनिसरि इति देशी ॥ २२ ॥
(240-242) 'Desi' lakshana.
(சு. 240-242) 'தேசீ' லக்ஷணம்.
धांशन्यासग्रहा पूर्णा पौरवी मूर्छना मता ।
मल्हारनिकटे गेया कामोदी च निगद्यते
शिवभूषणकेदारयुक्ता सर्वसुखप्रदा ॥ २४३ ॥
उदाहरणम् ।
पीतंवसाना वसनं सुकेशी वने रुदन्ती पिकनाददूना ।
विलोकयन्ती विदिशोऽतिभीता कामोदिकाकान्तमनुस्मरन्ती ॥
धनिसरिगमपध । इति कामोदी ॥ २३ ॥
(242-244) 'Kamodi' lakshana.
(சு. 242-244) 'காமோதீ' லக்ஷணம்.
ग्रहांशन्यासषड्जा स्यात् सम्पूर्णा नाटिका मता ।
प्रथमा मूर्छना ज्ञेया गमकै र्बहुधा मता ॥ २४५ ॥
उदाहरणम् ।
उद्वद्धानुसुहृच्छवि विकसितं पङ्केरुहं पाणिना
स्पृश्यन्ती मधुपानघूर्णनयना तन्वी तमालद्युतिः ।
ताम्बूलाहरणच्छलेन दयितं सङ्केतयन्ती निजं
क्रीडाकुञ्जगृहे लवङ्गलतिकामोदानिले कामिनी ॥ २४६ ॥
48
जपाकुसुमसंङ्काशां निचोलं पीतवाससम् ।
वहन्ती वपुषा तन्वी नाटिका रक्तकञ्चुकी ॥ २४७ ॥
सरिगमपधनिस सनिधपमगरिस । इति नाटिका ॥ २४ ॥
इति पञ्चभार्यासहितो हिन्दोलः ।
(244-246) ' Natika ' lakshana.
(சு. 244-246) 'நாடிகா' லக்ஷணம்.
श्रीरागः सचविख्यातः सत्रयेण विभूषितः ।
पूर्णः सर्वगुणोपेतः मूर्छना प्रथमा मता ॥
केचित्तु कथयन्त्येनं ऋषभत्रयसम्मतम् ॥ २४८ ॥
उदाहरणम् ।
अष्टादशाब्दः सरचारूमूर्तिः धीरोल्लसत्पल्लवकर्णपूरः ।
षड्जादिसेव्योऽरुणवस्त्रधारी श्रीरागराजः क्षितिपालमूर्तिः॥२४९॥
सरिगमपधनिस अथवा रिगमपधनिस इति श्रीरागः ॥ २५ ॥
(247-249) ' Sriraga ' lakshana
(சு. 247-249) ' ஸ்ரீராக' லக்ஷணம்.
वसन्ता स्यात्तु संपूर्णा सत्रया कथिता बुधैः ।
श्रीरागमूर्च्छनैवात्र गेया रागविशारदैः ॥ २५० ॥
उदाहरणम् ।
शिखण्डिबर्होच्चयबद्धपीडा कर्णावतंसा स्फुरदाम्रपत्रा ।
इन्दीवरश्यामतनुर्मनोज्ञा वसन्तिका स्यादलिमञ्जुलश्रीः ॥२५१
सरिगमपधनिस इति वसन्तिका ! ॥ २६ ॥
(249-251) ' Vasantika ' lakshana.
(சு. 249-251) 'வஸந்திகா' (வஸந்தா) லக்ஷணம்.
44
मालावी चौडवा ज्ञेया नित्रया प, रि, वर्जिता ।
रजनी मूर्छना ज्ञेया काकलीस्वरमण्डिता ॥ २५२ ॥
उदाहरणम् ।
नितम्बिनीचुम्बितवक्त्रपद्मः शुकद्युतिः कुण्डलवान्प्रमत्तः ।
सङ्गीतशालां प्रविशन्प्रदोषे मालाधरो मालव एष रागः ॥ २५३ ॥
निसपमगनि । इति माळवी ।
[ निसरिमगनि इति वा पाठः ] ॥ २७ ॥
(252-253) 'Malavi' lakshana.
(சு. 252-253) 'மாளவி' லக்ஷணம்.
मालवश्रीश्च रक्ताङ्गी पूर्णा सत्रयभूषिता ।
मूर्च्छनोत्तरमन्द्रा स्यात् शृङ्गाररसमण्डिता ॥ २५४ ॥
उदाहरणम् ।
रक्तोत्पलं हस्ततले नियुक्तं विभावयन्ती तनुदेहवल्ली ।
रसालवृक्षस्यतले निषण्णा स्तोकस्मिता साकिल मालवश्रीः ॥
सरिगमपधनिस । इति माळवश्रीः ॥ २८ ॥
(254-255) 'Malavasri' lakshana.
(சு, 254-255) 'மாளவஸ்ரீ' லக்ஷணம்
संतया हीनऋषभा षाडवा च धनासिरी ।
मूर्छना प्रथमा ज्ञेया रसे वीरे प्रयुज्यते ॥ २५६ ॥
उदाहरणम् ।
दूर्वादलश्यामतनुर्मनोज्ञा कान्तं लिखन्ती विरहेण दूना ।
श्वेते कपोले नयनारविन्दनिष्यन्दनिर्धूतकुचा धनाश्रीः ॥
सगमपधनिस । इति धनाश्रीः ॥ २९ ॥
(256-257) 'Dhanasri' lakshana.
(சு, 256-257) 'தனஸ்ரீ' லக்ஷணம்,