सङ्गीतदर्पण (दामोदर पण्डित - तंजौर सरस्वती महल संस्करण, सङ्गीत एवं नाट्य लक्षण)
Sangita Darpana of Damodara Pandita (TMSSML Edition)
दामोदर पण्डित (सम्पादक: के. वासुदेव शास्त्री) द्वारा
ॐ
चतुरदामोदरविरचितं ।
॥ सङ्गीत दर्पणं ॥
SANGITA DARPANA
OF
CHATURA DAMODARA
சதுர தாமோதரர் இயற்றிய
சங்கீத தர்ப்பணம்.
प्रथमः स्वराध्यायः ।
श्रीगणेशाय नमः ।
प्रणम्यशिरसा देवौ पितामह महेश्वरौ ।
सङ्गीतशास्त्रसङ्क्षेपो सारतोयं मयोच्यते ॥ १ ॥
भरतादिमतंसर्व आलोच्यातिप्रयत्नतः ।
श्रीमताहरिभट्टेन सज्जनानन्दहेतुना ।
प्रचरद्रूपसङ्गीत सारोद्धारो विधीयते ॥ २ ॥
(1, 2,) The author and the work
The author, Hari Bhatta, gives the essence of the
Science of Music & Dance, following the ancient authors,
Bharata and others and also the prevailing practice.
(சுலோ. 1, 2) நூலாசிரியரும் நூலும் :-
நூலாசிரியராகிய ‘ஹரிபட்டர்’ (தாமோதரர் என்பது அவ
ருடைய மற்றொரு பெயராக இருக்கவேண்டும்) என்பவர்
பரதமுனி முதலிய பண்டை நூலாசிரியர்களையும், பிற்காலத்திய
சம்பிரதாயத்தையும் பின்பற்றி இந்நூலை இயற்றுகிறார்.
गीतंवाद्यं नर्तनंच त्रयं सङ्गीतमुच्यते !
मार्गदेशी विभागेन सङ्गीतं द्विविधंमतम् ॥ ३ ॥
2
द्रुहिणेन यदुद्दिष्टं प्रयुक्तं भरतेन च ।
महादेवस्य पुरतः तन्मार्गाख्यं विमुक्तिदम् ॥ ४ ॥
तत्तद्देशस्थयारीत्या यत्स्याल्लोकानुरञ्जकम् ।
देशे देशे तु सङ्गीतं तद्देशीत्यभिधीयते ॥ ५ ॥
गीतवादित्रनृत्यानां रक्तिःसाधारणोगुणः ।
अतोरक्तिविहीनंयत् न तत्सङ्गीतमुच्यते ॥ ६ ॥
(3, 4, 5) The 2 divisions of the Art-Marga and Desi.
Marga is the system as taught by Brama to Bharata.
Desi is the system which grew up according to the tastes
of different countries and climes.
6. Inalienable quality of music and dance—is their
harmony to produce a pleasing effect.
(சு. 3-5) சங்கீதக் கலையின் இரு பிரிவுகள் :-
(1) மார்க்கம், (2) தேசீ.
'மார்க்கம்' என்பது பிரமன் பரதமுனிக்கு உபதேசித்த
வழி.
'தேசீ' என்பது பல நாடுகளிலும் ஜனங்களின் சுவைக்
கேற்ப மாறிய வழி.
சு. (6) கீதம், வாத்யம், நிருத்தியம், இம்மூன்றின் முக்கிய
மான குணம்—இவை ஒன்றோடொன்று லயித்து ஆனந்தத்தை
அளித்தலாகும்.
अथ रागोत्पादनकारणं लिख्यते ।
शारीरं नादसम्मूर्तिस्स्थानानिश्श्रुतयस्तथा ।
ततः शुद्धाः स्वराः सप्त विकृता द्वादशाप्यमी ॥ ७ ॥
वाद्यादिभेदाश्चत्वारो रागोत्पादनहेतवः ।
कुलानि जातयो वर्णा द्वीपान्यार्षं च दैवतम् ॥ ८ ॥
छन्दांसि विनियोगाश्च स्वराणां श्रुतिजातयः ।
ग्रामाश्च मूर्छनास्तानाः शुद्धाःकूटाश्च संख्यया ॥ ९ ॥
3
प्रस्तारः खण्डमेरुश्च नष्टोद्दिष्ट प्रबोधकः ।
स्वरसाधारणं जातिसाधारणमतः परम् ॥ १० ॥
काकल्यन्तरयोः सम्यक् प्रयोगो वर्णलक्षणम् ।
त्रिषष्टिरप्यलङ्कारास्त्रयोदशविधं ततः ।
जातिग्रहांशादिभेदान् वक्ष्यामिच्चयथाक्रमम् ॥ ११ ॥
(7—11) Elements that go to make the Raga:—
(1) Voice (2) Production of sound (3) The 3 octaves,
of human voice (4) The 7 pure swaras or notes (5) The
12 modified notes (6) The 4 kinds of instruments (7) The
family, caste, colour, island, The Sage, The Deity, the
meter and practical application of the several notes.
(8) The srutis or varied pitches and their kinds in parti-
cular notes, (9) the Gramas or organic groups of svarars
(10) the moorchhanas or parent curves of ragas (11) The
tanas or melodic phrases regular and irregular (12) per-
mutations and combinations of notes (13) calculated by
conic groups (14) Detecting the order of combinations (15)
modified swaras formed by elements of more than one
svara. (16) Combined parent Ragas. (17) the proper use
of C flat and F flat known as Kakali and Antara (18)
Kinds of musical effort, (varnas) and their varied forms
(Alankaras) 63 and 13 in number. (19) melodic elements
of parent ragas or Jatis, (viz) Graha, Amsa etc.
(சு. 7-11) இராகம் உண்டாவதற்கான அங்கங்கள் :—
(1) குரல் (2) நாதஉற்பத்தி (3) சரீரத்தில் உண்டாகும்
மூன்று ஸ்தாயிகள் (4) சுத்த ஸ்வரங்கள் 7 (5) விக்ருத ஸ்வ
ரங்கள் 12 (6) நான்கு வித வாத்யங்கள் (7) ஸ்வரங்களின்
குலம், சாதி, நிறம், தீவு, ரிஷி, தேவதை, சந்தம், பிரயோகங்கள்,
(8) சுருதிகளும் அவை ஸ்வரங்களில் ஒலிக்கும் விவரமும் (9)
கிராமங்கள் அல்லது ஸ்வரங்களின் குடும்பங்கள் போன்ற தொகு
திகள் (10) மூர்ச்சனைகள் அல்லது ராகங்களின் ஆதாரச் சஞ்
4
சாரங்கள் (11) தானங்கள் அல்லது ‘பிடிகள்’, வரிசையுள்ளவை,
வரிசை தப்பியவை (12) ஸ்வரங்களைப் பல வகையாகத்
தொகுத்து தானங்களை கற்பனை செய்யும் வழி (13) தானங்
களின் தொகைக் கணக்குப் பார்க்கும் சுலபமான வழி (14)
தானங்களின் வரிசைக் கிரமத்தைக் கண்டு பிடித்தல் (15)
இரண்டு ஸ்வரங்களின் அம்சங்கள் சேர்ந்த சாதாரண ஸ்வரங்கள்
(16) சாதிகள் என்னும் தாய் ராகங்களின் சேர்க்கையால் உண்
டாகும் சாதாரண சாதிகள் (17) ஷட்ஜம், மத்யமம் இந்த
இரண்டு ஸ்வரங்களைக் குறைத்துப் பிடிப்பதனால் ஏற்படும் புதிய
ஸ்வரங்கள்—காகலி, அந்தரம் (18) கானக்கிரியைகளின் வகை
களாகிய ‘வர்ணங்களும்’ அவற்றின் உட்பிரிவுகளாகிய ‘அலங்
காரங்களும்’ (19) சாதிகள் என்னும் தாய் ராகங்களின் ரஞ்ச
னத்திற்கான முக்கிய ஸ்வரங்கள்—கிரஹம், அம்சம் முதலியன.
अथ नादोत्पत्तिः ।
गीतं नादात्मकं वाद्यं नादव्यक्त्या प्रशस्यते ।
तद्द्वयानुगतं नृत्यं नादाधीनमतस्त्रयम् १२ ॥
नादेन व्यज्यतेवर्णः पदं burnत्पदाद्वचः ।
वचसोव्यवहारोयं नादाधीनमतॊ जगत् ॥ १३ ॥
आहतोऽनाहतश्चेति द्विधानादोनिगद्यते ।
सोयं प्रकाशतेपिण्डे तस्मात्पिण्डोऽभिधीयते ॥ १४ ॥
तत्रानाहतनादं तु मुनयस्समुपासते ।
गुरूपदिष्टमार्गेण मुक्तिदं नतुरञ्जकम् ॥ १५ ॥
सनादस्त्वाहतोलोके रञ्जको भवभञ्जकः ।
श्रुत्यादि द्वारतस्तस्मात्तदुत्पत्तिर्निरूप्यते ॥ १६ ॥
(12-16) Sound, its importance, its 2 kinds, ahata (the
beaten) and anahata (unbeaten); the latter cognised by
yogis only leading to emancipation of the soul-the former
pleasing to the ear, leads also to eternal bliss.
5
(சு. 12-16) நாதம் அதன் முக்கியத்துவம். அதன் இரு
வகை—ஆஹதம் (அடிக்கப்பட்டது-) அநாஹகம் (அடிக்கப்
படாதது.) அனாஹதம்:-யோகிகளே கேட்கக்கூடியது. மோட்
சத்தைக் கொடுக்கக்கூடியது. ஆஹதம் யாவரும் அன்பவிக்கக்
கூடியது; அதுவும் பிரம்ம ஆனந்தத்தை யளிக்கவல்லது.
तत्र शारीर विवेकः ॥ गुदलिङ्गान्तरेचक्रं आधाराख्यं चतुर्दलम् ।
स्वाधिष्ठानं लिङ्गमूलेषट्पत्रं चक्रसंज्ञकम् ॥ १७ ॥
नाभौदशदलं चक्रं मणिपूरकसंज्ञकम् ।
हृदयेऽनाहतं चक्रं शिवस्य प्रणवाकृतेः ॥ १८ ॥
पूजास्थानं तदिच्छन्ति युतं द्वादशभिर्दलैः ।
कण्ठे नु भारतीस्थानं विशुद्धिःषोडशच्छदम् ॥ १९ ॥
तत्र षड्जादयः सप्तस्वराः सम्यक्प्रभेदतः ।
ललनाख्यं घण्टिकायां चक्रं द्वादशपत्रकम् ॥ २० ॥
भ्रूमध्ये द्विदलं चक्रं आज्ञासंज्ञं मनोरमम् ।
ततोप्यस्ति मनश्चक्रं षड्दलं सर्वसौख्यदम् ॥ २१ ॥
ततोपि षोडशदलं सोमचक्रं प्रकीर्तितम् ।
चक्रं सहस्रपत्रन्तु ब्रह्मरन्ध्रं सुधाधरम्
तत्सुधासारधारामिर्भिवर्द्धयते तनुम् ॥ २२ ॥
सुषुम्णया ब्रह्मरन्ध्रं आरोहत्यवरोहति ।
जीवः प्राणसमारूढो रज्वा कोलाटिको यथा ॥ २३ ॥
- तास्तु मूरितरास्तासु मुख्याः प्रोक्ताश्चतुर्दश ॥ २४ ॥
- अयं उत्तरार्धः । अस्यपूर्वार्धः संगीतरत्नाकरे यथा । ' सुषुम्नां परितो
नाड्यः कन्दादाब्रह्मरन्ध्रत इति ।
6
सुषम्नेडा पिङ्गला च कुहूरथपयस्विनी ।
गान्धारी हस्तिजिह्वाच वारणाथयशस्विनी ॥ २५ ॥
विश्वोदराशङ्खिनीच ततः पूषा सरस्वती ।
अलम्बुषेति तत्राद्यास्तिस्रो मुख्यतमा मताः ॥ २६ ॥
(17—26) The 9 chakras or nerve centres and the 14
principal nadis or nerves in the human body.
(சு. 17-26) ஒன்பது நாடிச் சக்கிரங்களும், 14 முக்கிய நாடி
களும்.
एवं विधेतु देहस्मिन् मलसंचयसंवृते ।
प्रसाधयन्तिधीमन्तो भुक्तिमुक्तिमुपायतः ॥ २७ ॥
अथनादस्य चोत्पत्तिं वक्ष्ये शास्त्रविवेकतः ।
धर्मार्थकाममोक्षाणामिदमेवैकसाधनम् ॥ २८ ॥
नादविद्यां परांलब्ध्वा सरस्वत्याः प्रसादतः ।
कम्बलाश्वतरौ नागौ शम्भोः कुण्डलतां गतौ ॥ २९ ॥
पशुः शिशुर्मृगोवापि नादेन परितुष्यति ।
अतो नादस्य महात्म्यं व्याख्यातुं केनशक्यते ॥ ३० ॥
तथाच आञ्जनेयः । नादाब्धेस्तु परं पारं नजानातिसरस्वती ।
अद्यापि मज्जनभयात् तुम्बं वहति वक्षसि ॥ ३१ ॥
तथाचविज्ञानेश्वरः । वीणावादनतत्वज्ञः श्रुतिजातिविशारदः ।
तालज्ञश्चाप्रयासेन मोक्षमार्गं निगच्छति* ॥ ३२ ॥
27—32 In praise of music.
- याज्ञवल्क्यस्मृतिवचनमेतत् ।
7
(சு. 27-32) சங்கீதத்தின் பெருமை.
आत्मना प्रेरितंचित्तं वह्निमाहन्ति देहजम् ।
ब्रह्मग्रन्थिस्थितंप्राणं सप्रेरयति पावकः ॥ ३३ ॥
पावकप्रेरितः सोथ क्रमादूर्ध्वपथाचरन् ।
अतिसूक्ष्मध्वनिं नाभौ हृदिसूक्ष्मं गले पुनः ॥ ३४ ॥
पुष्टं शीर्षे त्वपुष्टं च कृत्रिमं वदने तथा ।
आविर्भावयतीत्येवं पञ्चधा कीर्त्यते बुधैः ॥ ३५ ॥
कथं कण्ठस्थितः पुष्टः स्यादपुष्टशिरःस्थितः ।
उच्यते तत्रशिरसि संचार्यारोह वर्णयोः ।
सम्भूतिर्न भवेद्यस्मादपुष्टःशिरसिस्थितः ॥ ३६ ॥
33-36 How voice is produced—its five kinds.
(சு. 33-36) சரீரத்தில் நாதம் உண்டாகும் இடம், அதன்
ஐந்து வகைகள்.
नकारं प्राणनामानं दकारमनलं विदुः ।
जातः प्राणाग्निसंयोगात्तेन नादोभिधीयते ॥ ३७ ॥
37— The word 'Nada' derived.
(சு. 37) 'நாதம்' என்னும் சொல்லின் பகுபத இலக்கணம்.
अथ ब्रह्मग्रन्थेर्लक्षणं ।
आधाराद्द्व्यङ्गुलादूर्ध्वं मेहनाद्द्व्यङ्गुलादधः ।
एकाङ्गुलं देहमध्ये तप्तजाम्बूनदप्रभम् ॥ ३८ ॥
8
तत्रास्तेऽग्निशिखातन्वी चक्रात्तस्मान्नवाङ्गुले ।
देहस्य कन्दोऽस्त्युत्सेधायामाभ्यां चतुरङ्गुलः ।
ब्रह्मग्रन्थिरिति प्रोक्तम् तस्य नाम पुरातनैः ॥ ३९ ॥
38-39. Brahmagranthi the base of voice-production
12 angulas above the adhara chakra (1 angula=¾"
approximately)
(சு. 38-39) ஆதார சக்கரத்திற்கு பன்னிரண்டு அங்குலத்
துக்கு மேல் பிரஹ்ம கிரந்தி இருக்கிறது. அதிலிருந்து கிளம்பும்
வாயுவே நாதத்தை உண்டாக்குகிறது. 1 அங்குலம் = ¾ தற்கால
அங்குலம்.
अथ वायवः ।
प्राणापानौ तथाव्यानसमानोदानसंज्ञकाः ।
नागः कूर्मश्च कृकरोदेवदत्तधनञ्जयौ ॥ ४० ॥
तेषां मुख्यतमः प्राणो नाभिकन्दादधःस्थितः ।
सरत्यास्ये नासिकयोः नाभौहृदयपङ्कजे ॥ ४१ ॥
शब्दोच्चारण निश्वासोच्छ्वासकासादिकारणम् ।
अपानस्तुगुदे मेढे कटि जङ्घोदरे तथा ॥ ४२ ॥
व्यानोऽक्षि श्रोत्र गुल्फेपु कट्याङ्घ्राणे चतिष्ठति ।
समानोव्याप्य सकलं शरीरं वह्निनासह ॥ ४३ ॥
उदानः पादयोरास्ते हस्तयोरङ्गसन्धिषु ।
त्वगादिधातून।श्रित्य पञ्चनागादयः स्थिताः ॥ ४४ ॥
त्वगसृङ्मांसमेदोस्थि मज्जा शुक्राणि धातवः ।
हृदि प्राणो गुदेऽपानः समानो नाभिसं स्थितः ।
उदानः कण्ठ देशस्थः व्यानस्सर्वशरीरगः ॥ ४५ ॥
40-45 The ten Vayus and their places—the 7 dhatus
(சு. 40-45) பத்து வித வாயுக்களும், ஏழு தாதுக்களும்.
9
अथ प्रकृतम् । इति वस्तुस्थितिस्तावद्गाने त्रेधा भवेदसौ ।
हृदिमन्द्रो गले मध्यो मूर्ध्नि तार इति क्रमात् ॥ ४६ ॥
द्विगुणः पूर्वपूर्वस्माद्यं स्यादुत्तरोत्तरः ।
एवं शरीरवीणायां दारुव्यां तुविपर्ययः ॥ ४७ ॥
स्वरूपमात्रश्रवणात् नादोनुरणनं विना ।
श्रुतिरित्युच्यते भेदास्तस्या द्वाविंशतिर्मताः ॥ ४८ ॥
तदभिव्यक्तये नाडिस्थितिर्देहेनिरूप्यते ।
इडावामे स्थिता नाडी दक्षिणेपिङ्गलातथा ।
हृदिनाडी सुषुम्नासा ब्रह्मरन्ध्रावधिस्थिता ॥ ४९ ॥
46—49. The seats of the octaves in the body; the
3 principal Nadis—Ida, Pingala and Sushumna.
(சு. 46-49) சரீரத்தில் 3 ஸ்தாயிகளின் ஸ்தானங்களும்,
சரீரத்திலுள்ள நாடிகளில் முக்கியமான நாடிகளாகிய 'இடை,'
, பிங்கலை ' ' ஸுஷும்னை ' என்பவைகளும்.
अथ श्रुतयः ।
तीव्राकुमुद्वतीमन्दा छन्दोवत्यस्तु षड्जगाः ।
दयावती रञ्जनी च रतिकाऋषभे स्थिताः ॥ ५० ॥
रौद्री क्रोधाच गान्धारे वज्रिकाच प्रसारिणी ।
प्रीतिश्चमार्जनी त्येता श्रुतयोमध्यमाश्रिताः ॥ ५१ ॥
क्षितीरक्ताच सन्दीपिन्यालापिन्यपिपञ्चमे ।
मदन्ती रोहिणीरम्येत्येता धैवतसंश्रयाः ॥ ५२ ॥
2
10
उग्राच क्षोभिणीतिद्वे निषादे वसतः श्रुती ।
एवं गण्ठे तथाशीर्षे श्रुतिद्वाविंशतिर्मता ॥ ५३ ॥
50—53. The Srutis, 22 in number, and their distri-
bution in the 7 swaras.
(சு. 50-53) சுருதிகள் இருபத்திரண்டும், அவைகள் ஸ்வரங்
களில் அமைந்திருக்கும் விதமும்.
अथ श्रुतिविवेकः ।
श्रुत्यनन्तरभावित्वं यस्यानुरणनात्मकः ।
स्निग्धश्चरञ्जकश्चासौ स्वरइत्यभिधीयते ॥ ५४ ॥ अथवा ।
स्वयं यो राजते नादः सस्वरः परिकीर्तितः ।
शुद्धाः सप्तस्वरा स्तेच मन्द्रादि स्थानतस्त्रिधा ॥ ५५ ॥
च्युताच्युतादिभेदेन विकृता द्वादशोदिताः ।
चतुःश्रुतिर्यदाषड्जो द्विश्रुतिर्विकृतस्तदा ॥ ५६ ॥
साधारणे च्युतः सस्यात् काकलीत्वेऽच्युतः स्मृतः ।
त्रिश्रुती ऋषभः साधारणे षाड्जींश्रुतिंश्रितः ॥ ५७ ॥
चतुःश्रुतित्वं आपन्नः तदैको विकृतोभवेत् ।
साधारणे मध्यमस्य गान्धारस्त्रिश्रुतिर्भवेत् ॥ ५८ ॥
स्वस्यान्तरत्वे भवति चतुःश्रुतिरिति द्विधा ।
च्युताच्युतादिभेदेन मध्यमोऽपिद्विधा भवेत् ॥ ५९ ॥
11
साधारणेन्तरत्वेच द्विश्रुतिर्विकृतस्तदा ।
पञ्चमो मध्यमग्रामे त्रिश्रुतिर्जायतेस्वरः ॥ ६० ॥
मध्यमस्य श्रुतिं प्राप्य कैशिकोपि चतुःश्रुतिः ।
धैवतो मध्यमग्रामे विकृतः स्याच्चतुःश्रुतिः ॥ ६१ ॥
कैशिके काकलीत्वे च निषादस्त्रिचतुःश्रुतिः ।
एते च सप्तभिः शुद्धैः भवन्त्येकोनविंशतिः ॥ तथा च रत्नाकरः ॥
(54—62) The 7 Suddha swaras and 12 Vikrita
swaras as formulated in Sangita Ratnakara.
(சு. 54—62) சங்கீத ரத்னாகரத்தில் 'சொல்லியிருக்கிறபடி
7 சுத்த ஸ்வரங்களும், 12 விக்ருத ஸ்வரங்களும்,
चतुर्विधाः स्वरा वादी संवादी च विवाद्यपि ।
अनुवादी च वादीतु प्रयोगे बहुलःस्वरः ॥ ६३ ॥
वाद्यादिभेदभिन्नाश्चतुर्विधास्ते स्वराः कथिताः ।
रागोत्पादनशक्तिर्वादनं तद्योगतोवादी ॥ ६४ ॥
बहुलस्वरः प्रयोगे सभवति राजा च सर्वेषाम् ।
श्रुतयोष्टौ द्वादशवा भवन्तिमध्ये ययोः स्वरयोः ॥ ६५ ॥
संवादिनौ तुकथितौ परस्परं तौ निषादगान्धारौ ।
रिधयो र्विवादिनौस्तः तयोर्धिधौवा विवादिनौस्याताम् ॥ ६६ ॥
शेषाणामनुवादित्वं स्वराणामुपजायते ।
वादी राजा स्वरस्तस्य संवादी स्यादमात्यवत् ।
शत्रु र्विवादी तस्यस्यात् अनुवादीतुभृत्यवत् ॥ ६७ ॥
॥ इति वाद्यादिभेदाः ।
63—67 Vadi, Samvadi (consonant) Anuvadi (asso-
nant) & Vivadi (dissnoant)Swaras,—a classification necess-
ary in the formation of Ragas.
12
(சு. 63-67) ராகங்களை அமைப்பதற்கு வேண்டிய ஸ்வரங்
களின் வகை:-
வாதி (முக்கிய ஸ்வரம்), ஸம்வாதி (கிளை ஸ்வரம்),
விவாதி (பகை ஸ்வரம்), அனுவாதி (நட்பு ஸ்வரம்),
ग्रामः स्वरसमूहःस्यात् मूर्छनादेःसमाश्रयः ।
तौद्वौधरातले तत्र स्यात्षड्जग्राम आदिमः ॥ ६८ ॥
द्वितीयो मध्यमग्रामस्तयोर्लक्षणमुच्यते ।
षड्जग्रामः पञ्चमेस्वचतुर्थश्रुतिसंस्थिते ॥ ६९ ॥
स्वोपान्त्यश्रुतिसंस्थेस्मिन् मध्यमग्रामइष्यते ।
यद्वाधस्त्रिश्रुतिः षड्जे मध्यमे च चतुःश्रुतिः ॥ ७० ॥
रिमयोः श्रुतिमेकैकां गान्धारश्च समाश्रयेत् ।
पश्रुतिंधोनिषादस्तु धश्रुतिं सश्रुतिंश्रितः ॥ ७१ ॥
गान्धारग्राममाचष्ट तदातं नारदोमुनिः ।
प्रवर्तते स्वर्गलोके ग्रामोसौ नमहीतले ॥ ७२ ॥
षड्जःप्रधान आद्यत्वादमात्याधिक्यतस्तथा ।
ग्रामेस्याद्विलोपित्वात् मध्यमस्तुपुरस्सरः ।
एतत्कुलप्रसूतत्वात् गान्धारोप्यग्रणीर्दिवि ॥ ७३ ॥
68-73 The 3 Gramas and their characteristics.
(சு. 68-73) 3 க்ராமங்கள் என்னும் ஸ்வரத் தொகுதிகளும்
அவற்றின் லக்ஷணங்களும்.
गीर्वाण कुलसम्भूताः षड्जगान्धारमध्यमाः ।
पञ्चमः पितृवंशोत्थो रिधवृषि कुलोद्भवौ ॥ ७४ ॥
निषादोऽसुखवंशोत्थो ब्राह्मणाः समपञ्चमाः ।
रिधौतुक्षत्रियौज्ञेयौ वैश्यजाती निगौ मतौ ।
13
शूद्रावन्तरकाकल्यौ क्रमेण कथिता बुधैः ७५ ॥
(74—75) The tribe and caste of swras.
(சு. 74—75) ஸ்வரங்களின் குலமும் ஜாதியும்
इति ग्रामलक्षणम् ।
क्रमात्स्वराणां सप्तानां आरोहश्चावरोहणम् ।
मूर्च्छनेत्युच्यतेग्रामत्रये ताः सप्त सप्त च ॥ ७६ ॥
स्थानत्रयसमायोगे मूर्च्छनारम्भसम्भवः ।
तत्र मध्यस्थषड्जेन षड्जग्रामस्य मूर्च्छना ॥ ७७ ॥
प्रथमारभ्यतेन्यास्तु निषादाद्यैरधस्तनैः ।
मध्यममध्यममारभ्य मध्यमग्राममूर्च्छना ॥ ७८ ॥
आद्यान्यास्तदधोधस्थ स्वरानारभ्यषट्क्रमात् ।
षड्जेतूत्तरमन्द्राख्या रजनीचोत्तरायता ॥ ७९ ॥
शुद्धषड्जामत्सरीकृदश्वक्रान्ताभिरुद्गता ।
सौवीरीमध्यमग्रामे हरिणाश्वाततःपरा ॥ ८० ॥
स्यात्कलोपनता शुद्धमध्यामार्गी च पौरवी ।
हृष्यका सप्तमी प्रोक्ता मूर्च्छनेत्यभिधाइमाः ॥ ८१ ॥
नन्दा विशाला सुमुखी विचित्रारोहिणी सुखा ।
आलापाचेतिगान्धारग्रामेस्युः सप्तमूर्छनाः ॥ ८२ ॥
ताश्च स्वर्गे प्रयोक्तव्या विशेषादत्रनोदिताः ।
पृथक् चतुर्विधाः शुद्धाः काकलीकलितास्तथा ।
14
सान्तारास्तद्द्द्वयोपेताः षट्पंचाशत्तुमूर्च्छनाः ॥ ८३ ॥
(76—83) Moorchhanas (modes) fore each grama. 28
in number. made up of 7 Suddha, 7 with Kakali, 7 with
antara and 7 with both.—56 for both the gramas.
(சு. 76—83) மூர்ச்சனைகள், ஒவ்வொரு கிராமத்திற்கும்
சுத்த மூர்ச்சனைகள் 7, அந்தர ஸ்வரத்தோடு கூடியது 7, காகலி
ஸ்வரத்தோடு கூடியது 7, இரண்டும் கூடியது 7, ஆக இரண்டு
கிராமங்களுக்கும் 56.
यदानिषादसंज्ञकः श्रुतिद्वयं समाश्रयेत् ।
तदूर्ध्वसस्य काकलीतदा सकीर्त्यते बुधैः ॥ ८४ ॥
यदाश्रयतिगान्धारो मध्यमस्य श्रुतिद्वयम् ।
तदासावन्तरः प्रोक्तः मुनिभीऋतुसन्धिवत् ॥ ८५ ॥
(84—85) 'Kakali' and 'Antara' defined.
(சு. 84—85) 'காகலி' 'அந்தரம்' என்ற ஸ்வரங்களின்
லக்ஷணம்.
मूर्च्छनायां यावतिथौ भवेतां षड्जमध्यमौ ।
ग्रामयोस्तावतिथ्येव मूर्च्छना सा प्रकीर्तिता ॥ ८६ ॥
(86) Order of Moorchhnas.
(சு. 86) மூர்ச்சனைகளின் வரிசை.
प्रथमादिस्वरारम्भा देकैका सप्तधाभवेत् ।
तासूच्चार्यान्त्यस्वरांस्तान् पूर्व्वानुच्चारयेत्क्रमात् ।
ते क्रमाः कथितास्तेषां सङ्ख्यानेकतरामता ॥ ८७ ॥
(87) Kramas, 7 for each moorchhana
(சு. 87) கிரமங்கள், ஒவ்வொரு மூர்ச்சனைக்கும் 7.
यदातु मूर्च्छनाः शुद्धाः षाडवौडवितीकृताः ।
तदातु शुद्धतानाःस्युः मूर्च्छनास्तत्र षड्जगाः ॥ ८८ ॥
15
सप्तक्रमाद्यदाहीनाः स्वरैः सरिपसप्तमैः ।
तदाष्टाविंशति स्तानाःषाडवाः परिकीर्तिताः ॥ ८९ ॥
यदातुमध्यमग्रामे मूर्च्छनाः सरिगोञ्झिताः ।
सप्तक्रमाद्यदातानाः स्युस्तदात्वेकविंशतिः ॥ ९० ॥
एवमेकोनपञ्चाशन्मिलिताः षाडवा मताः ।
सपाभ्यां द्विश्रुतिभ्यांच रिपाभ्यां सप्तवर्जिताः ॥ ९१ ॥
षड्जग्रामे पृथक् ताना एकविंशतिशौडवाः ।
त्रिश्रुतिभ्यां द्विश्रुतिभ्यां मध्यमग्राममूर्च्छनाः ॥ ९२ ॥
यदाहीनास्तदातानाः चतुर्दश समोरिताः ।
औडवामिलिताः पञ्च त्रिंशद्ग्रामद्वयेस्थिताः ।
सर्वे चतुरशीतिःस्युः मिलिताः षाडवौडवाः ॥ ९३ ॥
इति शुद्धतान विवेकः ॥
(88—93) Suddha Tanas, 84 in number.
(சு. 88—93) சுத்த தானங்கள் 84.
असम्पूर्णाश्चसम्पूर्णाव्युत्क्रमोच्चारिताः स्वराः ।
मूर्च्छनाः कूटतानाःस्युः तासां सङ्ख्याभिधीयते ॥ ९४ ॥
पूर्णाः पञ्चसहस्राणि चत्वारिंशद्युतानि च ।
एकैकस्यां मूर्छनायां कूटतानास्सह क्रमैः ॥ ९५ ॥
षट्पञ्चाशन्मूर्छनाःस्युः पूर्णाः कूटास्तु योजिताः ।
लक्षद्वयं सहस्राणि व्यशीतिर्द्विशते तथा ॥ ९६ ॥
16
चत्वारिंशच्च संख्याताः अथापूर्णान्प्रचक्ष्महे ।
एकैकान्त्यान्त्यविरहाद्भेदाः षट् षट्स्वरादयः ॥ ९७ ॥
एकस्वरोत्र निर्भेदोप्युक्तो नष्टादिसिद्धये ।
क्रमाश्चकूटतानत्वेप्युक्तास्तेप्युपयोगिनः ॥ ९८ ॥
स्युः षाडवानां विंशत्या सह सप्तशतानि च ।
औडवानान्तु विंशत्या सहितं शतमुच्यते ॥ ९९ ॥
चतुःस्वराणां कूटानां चतुर्विंशतिरीरिताः ।
त्रिस्वराःषट् द्विस्वरौद्वौ एक एकस्वरोमतः ॥ १०० ॥
आर्चिकोग्राथिकश्चैव सामिकोथ स्वरान्तरः ।
एकस्वरादितानानां चतुर्णामभिधाइमाः ॥ १०१ ॥
उक्तशुद्धादिभेदेन निगयुक्ताश्चतुर्विधाः ।
तयोरेकैकहीनास्तु द्वेधा मूलक्रमामताः ॥ १०२ ॥
षड्जाद्यौ मध्यमाद्यौ द्वौ चत्वारःस्युर्द्विधा द्विधा ।
चतुर्धान्ये दशेत्यष्टाचत्वारिंश दमीक्रमाः ॥ १०३ ॥
सविंशतिस्सप्तशती प्रागुक्तागुणिता क्रमैः ।
चतुस्त्रिंशत्सहस्राणि षष्ट्यापञ्चशतानि च ॥ १०४ ॥
इति षाडवसंख्यास्यादथ पञ्चस्वरान्ब्रुवे ।
गाद्यौ धाद्यौ निषादाद्यौ चतुर्भेदाः षडौडवाः ॥ १०५ ॥
अष्टावन्ये द्विधात्वेवं चत्वारिंशदिमे क्रमाः ।
सविंशतौ शतेतैश्च गुणितेऽष्टौ शतानिश्च ॥ १०६ ॥
17
चत्वारिच सहस्राणि संख्या पञ्चस्वरेष्विति ।
चतुःस्वरेषु न्याद्यौ द्वौ चतुर्था द्वादशापरे ॥ १०७ ॥
क्रमाद्विधेति द्वात्रिंशच्चतुर्विंशतिताडिताः ।
शतानि सप्ताष्टषष्ट्या चतुःस्वरसुसंमितिः ॥ १०८ ॥
त्रिस्वरेषु तु माद्यौ द्वावभेदौ द्वादशापरे ।
द्विधा षड्दर्शनिरिति क्रमास्ते षड्भिराहताः ॥ १०९ ॥
षट्पञ्चाशच्छतंचस्युः द्विस्वरेषु पुनर्द्विधा ।
रिगधन्यादयोष्टौस्युः शुद्धाः षडितरे क्रमाः ॥ ११० ॥
द्वाविंशतिस्तेच चतुश्चत्वारिंशद्विताडिताः ।
एकस्वरास्त्वभेदत्वान्मौला एव चतुर्दश ॥ १११ ॥
षड्जादेः शुद्धमध्यायाः भेदकं पञ्चमं विना ।
चतुः स्वरे क्रमद्वंद्वेऽष्टाचत्वारिंशदीरिताः ॥ ११२ ॥
तानास्त्रिस्वरयोस्त्वेते द्वादश द्विस्वरे द्वयम् ।
एक एकस्वरस्तेत्रिषष्टि रौत्तरमन्द्रकैः ॥ ११३ ॥
पुनरुक्तामतास्ताना न्यादि मार्गी क्रमात्पुनः ।
पञ्च स्वराये चत्वारः तत्तानानां चतुःशती ॥ ११४ ॥
अशीत्यभ्यधिका चातुस्वरी षण्णवतिर्भवेत् ।
द्वादश त्रिस्वरद्वंद्वे चत्वारो द्विस्वरद्वये ॥ ११५ ॥
एक एकस्वरस्तानः तेषां पञ्चशतीत्वियम् ।
त्रिनवत्यायुतातानैः अभिन्नारजनीगतैः ॥ ११६ ॥
3
18
धैवतादेस्तु पौरुष्याश्चत्वारः षट्स्वराः क्रमात् ।
तत्तानानान्तु साशीतिशताष्टाविंशतिर्मता ॥ ११७ ॥
औडवानां चतुर्णां प्रागुक्ता संख्या चतुःस्वरौ ।
त्रिस्वरौद्विस्वरावेकस्वरः प्रागुक्त संख्यकाः ॥ ११८ ॥
पञ्चविंशति संयुक्ता चतुस्त्रिंशच्छतीत्वियम् ।
तानानां सदृशाकारा स्यात्तानै रौत्तरायतैः ॥ ११९ ॥
इत्येकाशीतिसंयुक्तं सहस्राणां चतुष्टयम् ।
तानानां पुनरुक्तानां पूर्णापूर्णैः सह क्रमैः ॥ १२० ॥
अपनीयेतचेदेषाकूटतानमितिर्भवेत् ।
लक्षत्रयं सप्तदश सहस्राणि शतानि च ।
नवत्रिंशद्युतानीति कूटतानमितिर्भवेत् ॥ १२१ ॥
इति कूटतान प्रकरणम् ।
(93—121) Koota tanas, (ie) tanas formed by notes
arranged out of order, and their total number arrived at
by calculation.
(சு. 93—121) கூடதானங்களும் (வரிசை மாறிய ஸ்வரங்
களால் உண்டானவை) அவைகளின் மொத்தத் தொகையின்
கணக்கும்.
संख्याज्ञान प्रकारस्तु सांप्रतंकथयिष्यते ।
अङ्कानेकादि सप्तान्तानूर्ध्वमूर्ध्वं लिखेत्ततः ॥ १२२ ॥
हते पूर्वेण पूर्वेण तेषुचाङ्के परे परे ।
एकस्वरादितानानां संख्या सञ्जायते क्रमात् ॥ १२३ ॥
द्विस्वरं त्रिस्वरं वापि चतुःस्वरमथापिवा ।
क्रमं कंचिद्विलिख्यादौ पूर्वः पूर्वः परादधः ॥ १२४ ॥
३
19
स्वरः स्थाप्यः सचेदग्रे तत्पूर्वस्तदधोभवेत् ।
पुरतोऽपि लिखेद्धीमान् स्वरानुपशिवर्तिनः ।
मूलक्रमःक्रमात्पृष्ठे शेषः प्रस्तारईदृशः ॥ १२५ ॥
(122—125) Sankhya or the table of prastara or
orderly formulation of the permutation and combination
of swaras in tanas.
(சு. 122—125) 'சங்கியை' அல்லது வரிசையாகத் தானங்
களை ப்ரஸ்தாரம் செய்யும் வழி.
नष्टोद्दिष्टप्रबोधार्थं खण्डमेरुस्तथोच्यते ।
सप्तकोष्ठानलिखेदाद्यां पङ्क्तिमेकाङ्क कोष्ठतः ॥ १२६ ॥
हीनं तु पूर्वं पूर्वस्मात् पङ्क्तिषट्कमधो लिखेत् ।
आद्यपङ्क्त्यादि कोष्ठेतु लिखेदेकं परेषुखम् ॥ १२७ ॥
द्वितीयपङ्क्त्यामप्येकं आद्यकोष्ठे लिखेद्बुधः ।
परेषु पूर्वपूर्वाङ्ककोष्ठसंख्यागुणं न्यसेत् ॥ १२८ ॥
एवमेवलिखेदङ्कमधोधः पङ्क्तिकोष्ठकम् ।
खण्डमेरुरयं प्रोक्तः नष्टोद्दिष्टप्रबोधकः ॥ १२९ ॥
वेद्यतानस्वरमितान् दत्वा शून्येषु लोष्टकान् ।
मूलक्रमं लिखित्वादौ उद्दिष्टं तदधोलिखेत् ॥ १३० ॥
स्वरान्मूलक्रमस्थान्त्यात् पूर्वोयावतिथः स्वरः ।
उद्दिष्टान्त्यस्तावतिथे कोष्ठाधो लोष्टकं क्षिपेत् ॥ १३१ ॥
लोष्टचालनमन्त्यात्स्या ल्लब्धंत्यक्त्वा क्रमोभवेत् ।
समश्चेदन्तिमोऽन्येन सोपित्याज्यः प्रयत्नतः ॥ १३२ ॥
20
| १ | ० | ० | ० | ० | ० | ० |
| | १ | २ | ६ | २४ | १२० | ७२० |
| | | ४ | १२ | ४८ | २४० | १८०० |
| | | | १८ | ७२ | ३६० | २१६० |
| | | | | ९६ | ४८० | २८८० |
| | | | | | ६०० | ३६०० |
| | | | | | | ४३२० |
लोष्टाक्रान्तांकसंयोगात् उद्दिष्टस्यमितिर्भवेत् ।
सङ्ख्यायातु यदारूपे पृष्टे नष्टन्तदुच्यते ॥ १३३ ॥
यैरङ्कैनैष्टसङ्ख्यास्यात् मौलैकाङ्कसमन्वितः ।
नष्टतानस्वरस्थानं तैर्ज्ञात्वा तं स्वरं लिखेत् ॥ १३४ ॥
क्रमोऽत्रापि च कर्तव्यः लब्ध्वात्यागेन पूर्ववत् ।
तथैवात्रलिखेच्छिष्टमेवं नष्टोत्तरं भवेत् ॥ १३५ ॥
तानस्वरोमतोध्र्वाधः पङ्क्तिगान्त्यांकमिश्रणात् ।
एकस्वरादितानानां सङ्ख्यासंजायते स्फुटम् ॥ १३६ ॥
इति खण्डमेरु नष्टोद्दिष्ट प्रकरणम् । अथ साधारणम् ।