सङ्गीतदर्पण (दामोदर पण्डित - तंजौर सरस्वती महल संस्करण, सङ्गीत एवं नाट्य लक्षण)
Sangita Darpana of Damodara Pandita (TMSSML Edition)
दामोदर पण्डित (सम्पादक: के. वासुदेव शास्त्री) द्वारा
पृष्ठ 34, कुल 258 में से
संदर्भ में पढ़ें5
(சு. 12-16) நாதம் அதன் முக்கியத்துவம். அதன் இரு
வகை—ஆஹதம் (அடிக்கப்பட்டது-) அநாஹகம் (அடிக்கப்
படாதது.) அனாஹதம்:-யோகிகளே கேட்கக்கூடியது. மோட்
சத்தைக் கொடுக்கக்கூடியது. ஆஹதம் யாவரும் அன்பவிக்கக்
கூடியது; அதுவும் பிரம்ம ஆனந்தத்தை யளிக்கவல்லது.
तत्र शारीर विवेकः ॥ गुदलिङ्गान्तरेचक्रं आधाराख्यं चतुर्दलम् ।
स्वाधिष्ठानं लिङ्गमूलेषट्पत्रं चक्रसंज्ञकम् ॥ १७ ॥
नाभौदशदलं चक्रं मणिपूरकसंज्ञकम् ।
हृदयेऽनाहतं चक्रं शिवस्य प्रणवाकृतेः ॥ १८ ॥
पूजास्थानं तदिच्छन्ति युतं द्वादशभिर्दलैः ।
कण्ठे नु भारतीस्थानं विशुद्धिःषोडशच्छदम् ॥ १९ ॥
तत्र षड्जादयः सप्तस्वराः सम्यक्प्रभेदतः ।
ललनाख्यं घण्टिकायां चक्रं द्वादशपत्रकम् ॥ २० ॥
भ्रूमध्ये द्विदलं चक्रं आज्ञासंज्ञं मनोरमम् ।
ततोप्यस्ति मनश्चक्रं षड्दलं सर्वसौख्यदम् ॥ २१ ॥
ततोपि षोडशदलं सोमचक्रं प्रकीर्तितम् ।
चक्रं सहस्रपत्रन्तु ब्रह्मरन्ध्रं सुधाधरम्
तत्सुधासारधारामिर्भिवर्द्धयते तनुम् ॥ २२ ॥
सुषुम्णया ब्रह्मरन्ध्रं आरोहत्यवरोहति ।
जीवः प्राणसमारूढो रज्वा कोलाटिको यथा ॥ २३ ॥
- तास्तु मूरितरास्तासु मुख्याः प्रोक्ताश्चतुर्दश ॥ २४ ॥
- अयं उत्तरार्धः । अस्यपूर्वार्धः संगीतरत्नाकरे यथा । ' सुषुम्नां परितो
नाड्यः कन्दादाब्रह्मरन्ध्रत इति ।