सामग्री पर जाएँ
सर्वकोश
सङ्गीतदर्पण (दामोदर पण्डित - तंजौर सरस्वती महल संस्करण, सङ्गीत एवं नाट्य लक्षण)

सङ्गीतदर्पण (दामोदर पण्डित - तंजौर सरस्वती महल संस्करण, सङ्गीत एवं नाट्य लक्षण)

Sangita Darpana of Damodara Pandita (TMSSML Edition)

दामोदर पण्डित (सम्पादक: के. वासुदेव शास्त्री) द्वारा

DevanagariSanskritpublished258 पृष्ठ

पृष्ठ 36, कुल 258 में से

संदर्भ में पढ़ें
पृष्ठ 36

7
(சு. 27-32) சங்கீதத்தின் பெருமை.
आत्मना प्रेरितंचित्तं वह्निमाहन्ति देहजम् ।
ब्रह्मग्रन्थिस्थितंप्राणं सप्रेरयति पावकः ॥ ३३ ॥
पावकप्रेरितः सोथ क्रमादूर्ध्वपथाचरन् ।
अतिसूक्ष्मध्वनिं नाभौ हृदिसूक्ष्मं गले पुनः ॥ ३४ ॥
पुष्टं शीर्षे त्वपुष्टं च कृत्रिमं वदने तथा ।
आविर्भावयतीत्येवं पञ्चधा कीर्त्यते बुधैः ॥ ३५ ॥
कथं कण्ठस्थितः पुष्टः स्यादपुष्टशिरःस्थितः ।
उच्यते तत्रशिरसि संचार्यारोह वर्णयोः ।
सम्भूतिर्न भवेद्यस्मादपुष्टःशिरसिस्थितः ॥ ३६ ॥
33-36 How voice is produced—its five kinds.
(சு. 33-36) சரீரத்தில் நாதம் உண்டாகும் இடம், அதன்
ஐந்து வகைகள்.
नकारं प्राणनामानं दकारमनलं विदुः ।
जातः प्राणाग्निसंयोगात्तेन नादोभिधीयते ॥ ३७ ॥
37— The word 'Nada' derived.
(சு. 37) 'நாதம்' என்னும் சொல்லின் பகுபத இலக்கணம்.
अथ ब्रह्मग्रन्थेर्लक्षणं ।
आधाराद्द्व्यङ्गुलादूर्ध्वं मेहनाद्द्व्यङ्गुलादधः ।
एकाङ्गुलं देहमध्ये तप्तजाम्बूनदप्रभम् ॥ ३८ ॥