सामग्री पर जाएँ
सर्वकोश
सङ्गीतदर्पण (दामोदर पण्डित - तंजौर सरस्वती महल संस्करण, सङ्गीत एवं नाट्य लक्षण)

सङ्गीतदर्पण (दामोदर पण्डित - तंजौर सरस्वती महल संस्करण, सङ्गीत एवं नाट्य लक्षण)

Sangita Darpana of Damodara Pandita (TMSSML Edition)

दामोदर पण्डित (सम्पादक: के. वासुदेव शास्त्री) द्वारा

DevanagariSanskritpublished258 पृष्ठ

पृष्ठ 45, कुल 258 में से

संदर्भ में पढ़ें
पृष्ठ 45

16
चत्वारिंशच्च संख्याताः अथापूर्णान्प्रचक्ष्महे ।
एकैकान्त्यान्त्यविरहाद्भेदाः षट् षट्स्वरादयः ॥ ९७ ॥
एकस्वरोत्र निर्भेदोप्युक्तो नष्टादिसिद्धये ।
क्रमाश्चकूटतानत्वेप्युक्तास्तेप्युपयोगिनः ॥ ९८ ॥
स्युः षाडवानां विंशत्या सह सप्तशतानि च ।
औडवानान्तु विंशत्या सहितं शतमुच्यते ॥ ९९ ॥
चतुःस्वराणां कूटानां चतुर्विंशतिरीरिताः ।
त्रिस्वराःषट् द्विस्वरौद्वौ एक एकस्वरोमतः ॥ १०० ॥
आर्चिकोग्राथिकश्चैव सामिकोथ स्वरान्तरः ।
एकस्वरादितानानां चतुर्णामभिधाइमाः ॥ १०१ ॥
उक्तशुद्धादिभेदेन निगयुक्ताश्चतुर्विधाः ।
तयोरेकैकहीनास्तु द्वेधा मूलक्रमामताः ॥ १०२ ॥
षड्जाद्यौ मध्यमाद्यौ द्वौ चत्वारःस्युर्द्विधा द्विधा ।
चतुर्धान्ये दशेत्यष्टाचत्वारिंश दमीक्रमाः ॥ १०३ ॥
सविंशतिस्सप्तशती प्रागुक्तागुणिता क्रमैः ।
चतुस्त्रिंशत्सहस्राणि षष्ट्यापञ्चशतानि च ॥ १०४ ॥
इति षाडवसंख्यास्यादथ पञ्चस्वरान्ब्रुवे ।
गाद्यौ धाद्यौ निषादाद्यौ चतुर्भेदाः षडौडवाः ॥ १०५ ॥
अष्टावन्ये द्विधात्वेवं चत्वारिंशदिमे क्रमाः ।
सविंशतौ शतेतैश्च गुणितेऽष्टौ शतानिश्च ॥ १०६ ॥