सङ्गीतदर्पण (दामोदर पण्डित - तंजौर सरस्वती महल संस्करण, सङ्गीत एवं नाट्य लक्षण)
Sangita Darpana of Damodara Pandita (TMSSML Edition)
दामोदर पण्डित (सम्पादक: के. वासुदेव शास्त्री) द्वारा
84
क्रीडातालेन शृङ्गारे निर्मल स्तीर्थवर्णकः ।
लघुशेखर तालेन कलार्णः कुन्तलोऽद्रुते ॥ ४७९ ॥
विप्रलंभेतु कमलो झंपातालेन गीयते ।
तस्य खण्डस्तु कर्तव्यो बुधै स्सप्तदशाक्षरः ॥ ४८० ॥
अष्टादशाक्षर श्चारो वीरे निस्सारुतालतः ।
वीरशृङ्गारयो रेकताल्य प्रोक्तस्तुन्दनः ॥ ४८१ ॥
एकोनविंशद्वर्णस्तु सर्वसिद्धिप्रदायकः ।
वीरे हास्येच शृङ्गारे गीयते चन्द्रशेखरः ॥ ४८२ ॥
प्रतिमण्ठेन तालेन विंशत्यक्षरखण्डकः ।
एकविंशत्यक्षरस्तु प्रतिमण्ठेन गीयते ॥ ४८३ ॥
शृङ्गारेऽभीष्टफलदः कामदाख्यो ध्रुवो भवेत् ।
द्वाविंशत्यक्षरो हास्ये विजयः स्याद्द्वितीयतः ॥ ४८४ ॥
हास्यशृङ्गारकरुणे प्वादितालेन गीयते ।
त्रयो
85
(சு—473—489) த்ருவஸாலகஸூடத்தின் 16 வகையின்
லக்ஷணங்கள்.
स्याद्द्रूणं नियमोऽखण्डे खण्डे खण्डद्वये ^1 तथा ॥ ४८९ ॥
द्विविरामं भवेद्यस्य खण्डमुद्ग्राह संज्ञकम् ।
ध्रुवखण्डं ततोद्विः स्यात् विकल्पेनान्तरः स्मृतः ॥ ४९० ॥
तंगीत्वा ध्रुवमागत्य चाभोगे गीयते सकृत् ।
न्यासस्तु ध्रुवके यस्य स मण्ठो मण्ठतालतः ॥ ४९१ ॥
षट्प्रकारो भवेदेष तालभेदेन मण्ठकः ।
वीरो जयप्रदो गेयो मण्ठेन जगणात्मना ॥ ४९२ ॥
मङ्गलो मेन शृङ्गारे सुन्दरस्सेन तद्रसः ।
वल्लभोरेण करुणे कलापो नगणेन तु ॥ ४९३ ॥
बि ^2 रामान्तेन हास्येस्यात् अद्भुते कमलो मतः ।
विरामान्त द्रुतद्वंद्वात् लघुनैकेन मण्ठकः ॥४९४॥ इति मण्ठः ।
(489--494) 2- The 6 kinds of ' Manthasalagasuda '
(சு—489—494) 2— மண்டஸாலகஸூடத்தின் 6 வகைகளின்
லக்ஷணங்கள்.
प्रतिमण्ठादिवस्तूनां लक्षणं मंठवन्मतम् ।
उद्ग्राहादिगतं सर्वं भेदस्तालकृतो भवेत् ॥ ४३५ ॥
अमदोगुरुणैकेन शृङ्गारे प्रतिमण्ठकः ।
- अथवा—इतिवा पाठः ।
- वीरामानेन—इतिवा पाठः ।
86
विरामान्तद्रुतद्वंद्रात् लघु द्वंद्रेन गीयते ॥ ४९६ ॥
ताराख्य प्रतिमंठोऽसौ रसयोर्वीररौद्रयोः ।
करुणेस्या द्विचाराख्यो विरामान्ताल्लघुत्रयात् ॥ ४९७ ॥
कुन्दोविराममध्येन लत्रयेणाङ्गुते ततः । इति प्रतिमण्ठः ।
(435—498) 3. The 4 kinds of ' Pratimantha Salaga-
sudas described.
(சு—495—498) 3 ப்ரதிமண்டஸாலக ஸூடகங்களின் 4 வகை
களின் லக்ஷணங்கள்.
वैकुन्दादिप्रभेदेन निस्सारुष्षड्विधो भवेम् ॥ ४९८ ॥
गाभ्यां लाभ्याञ्च वैकुन्द निस्सारुर्मङ्गले भवेत् ।
विरामान्तद्रुतद्वंद्रात् भवेदानन्दसंज्ञकः ॥ ४९९ ॥
कान्तारो लघुगुरुभ्यां स्यात् समरस्तु लघुद्वयात् ।
सविरामा द्वांच्छितस्तु लत्रयाद्द्रुतयुग्मतः ॥ ५०० ॥
लेन द्रुताभ्यांलघुना विशालाख्यो भवेदिह ।
(498--501) 4. The 6 kinds of ' Nissarukatala Salaga-
sudas' described.
(சு—498—501) 4. நிஸ்ஸாருக தாள ஸாலகஸூடகங்கள் 6
வகையின் லக்ஷணங்கள்.
अड्डुतालेन तालेनाडु ताल ष्षड्विधो भवेत् ॥ ५०१ ॥
तालस्वरूप भेदेन निश्शङ्क शशङ्क भेदतः ।
लघुशुभ्यां द्रुतद्वंद्रात् निश्शङ्को विस्मये भवेत् ॥ ५०२ ॥
लघुद्रुतद्वयेन स्यात् शङ्कः शृङ्गारवीरयोः ।
शान्ते शीलो विरामान्तात द्रुतर्द्धद्वालघोर्भवेत् ॥ ५०३ ॥
87
द्रुतद्वन्द्वात् लगाभ्यांस्यात् चारो वीरेऽद्भुते रसे ।
शृङ्गारे मकरन्द स्यात् द्रुतद्वन्द्वात्परे गुरौ ॥ ५०४ ॥
विजयाख्यो रसेवीरे द्रुताभ्यां लघुना भवेत् ।
इति षड्विधोऽड्डतालः ।
(501—504) (5) The 6 kinds of 'Addatala Salaga
sudas' described.
(சு—501—504) (5) அட்டதாள ஸாலக ஸூடங்கள் 6
வகையின் லக்ஷணங்கள்,
रासको रासतालेन स्याद्दालापादि भेदतः ।
चतुर्विधो भवेदेष न लक्ष्येदृश्यते तथा ॥ ५०५ ॥
आलापान्तध्रुवपदाद् विनोदः कौतुके भवेत् ।
ध्रुवादालापमध्यात्तु वरदो देवतास्तुतौ ॥ ५९६ ॥
खण्ड माद्य द्विखण्डस्योद्ग्राहस्यालाप निर्मितः ।
यस्यासौ रासको नन्दो गीयतेऽभ्युदयेच सः ॥ ५०७ ॥
आलापादेर्ध्रुवपदात् कंबुजः करुणे भवेत् ।
सर्वेषु रासकेष्वेपु द्विखण्डोद्ग्राहकल्पना ॥ ५०८ ॥
इति रासलक्षणम्
(505—508) (6) The 4 kinds of 'Rasatala Salaga
suda' described.
(சு—505—508) (6) ராஸதாள ஸாலகஸூடங்கள் 4 வகை
யின் லக்ஷணங்கள்,
एकताली भवेत्तालेनेक ताल्या त्रिधाचसा ।
88
भिद्यते गानभेदेन लयभेदेन चस्फुटम् ॥ ५०९ ॥
रामाच चन्द्रिका तद्वद्विपुले त्यथ लक्षणम् ।
सकृद्द्विरति रुद्ग्राहोऽन्तरस्त्वक्षर निर्मितः ॥ ५१० ॥
यस्यामसौ भवेद्रामा गातृश्रोतृश्रियेचसा ।
उद्ग्रा होद्विदलो यस्यां आलापरचितोऽन्तरः ॥ ५११ ॥
घनद्रुता घनयतिः घनानुप्रासयोगिनी ।
चन्द्रिका सैकतालीस्यात् भूर्गिसौभाग्यदायिनी ॥ ५१२ ॥
आलापपूर्वोद्ग्राहादि विपुलानन्ददायिनी ।
आलापो गमकालप्तिः अक्षर्वैर्जिता मता ॥ ५१३ ॥
सैव प्रयोगशब्देन शार्ङ्गदेवेन कीर्तिता ।
509—514 (7) The 3 kinds of ‘Ekatali salagasuda’
described.
(சு—509—514) (7) ஏகதாளீ ஸாலகஸூடங்கள் 3 வகை
யின் லக்ஷணங்கள்.
प्रसिद्धाः केचिदन्येऽपि वक्ष्यन्ते सांप्रतं मया ॥ ५१४ ॥
सकृद्भागेयकारेण वीरशृङ्गारसंज्ञकः ।
सप्तभिः सप्तमिस्तालैः गीतैश्चापि यदृच्छया ॥ ५१५ ॥
आद्यखण्डं परित्यज्य गीयन्तेऽन्येषु मण्ठकाः ।
प्रयोगै र्विविधैर्युक्तैः शेषस्स्याद्वीरकामयोः ॥ ५१६ ॥
स्वामिनश्चकवेर्नाम्नाऽलङ्कृतोऽयं सदामतः ॥
इति वीरशृङ्गारः
89
(514-516) Other Prabandhas in vogue. (1) 'Veera
sringara.'
(சு-514-516) பிரசித்தமான மற்ற பிரபந்தங்கள் (1)
வீரச்ருங்காரம்.
चतुरङ्गः चतुःखण्डः षडङ्गैरागसंयुतः ॥
मध्ये मध्ये भवन्त्यत्र रागवर्जान्य मून्यथ ॥ ५१७ ॥
चतुरङ्गः ॥
(517) 2. Chaturanga. (சு 517) 2. சதுரங்கம்,
अस्यैव द्विगुणःख्यातो नाम्ना शरभलीलकः ।
छन्दसातेन कथितो मुक्तकोवा भवेदसौ ॥ ५१८ ॥
शरभलीला ॥
(518) (3) Sarabhaleea. (சு-518) (3) சரபலீலை.
खण्डैर्भानुमितैस्सूर्यप्रकाशस्तु निगद्यते ।
स्वरैः पाटै स्तथा तेनैः बिरुदैः पदसंयुतैः ॥ ५१९ ॥
पुराणोक्त प्रकारेण धात्रातु रविवर्णनात् ।
रागैर्द्वादशभिस्तालैः तावद्भिर्गीयतेह्यसौ ॥ ५२० ॥
सूर्यप्रकाशः ॥
(519-520) 4- Suryaprakasa (சு-519-520) 4-
ஸூர்யப்ரகாசம்.
खण्डैष्षोडशभिश्चन्द्रप्रकाशस्तु निगद्यते ।
प्रतिखण्डं कलैकैका वर्णनीया मनीषिभिः ॥ ५२१ ॥
स्वरैः पाटैस्तथा तेनैः बिरुदैः पदसंयुतैः ।
रागैष्षोडशभिस्तालैः तावद्भिः परिगीयते ॥ ५२२ ॥
12
90
खण्डेऽन्तिमै भवेन्नाम स्वामिनश्च कवेरपि । इति चन्द्रप्रकाशः ।
(521–522) 5– Chandraprakasa.
(சு-521–522) சந்திரப்பிரகாசம்.
निर्मितः पाटबिरुदैः रङ्गतालेन संगतः ।
समादि तालभेदेन रणरङ्गस्त्रिधामतः ॥ ५२३ ॥ इति रणरङ्गः ।
(523) 6. Ranaranga. (சு-523) 6. ரணரங்கம்
बिरुदैस्तेनकैर्युक्तः प्रयोक्तृजनसम्मतः ।
नन्दनाख्येन तालेन नन्दनः परिकीर्तितः ॥ ५२४ ॥
इति नन्दनः ॥
(527) 7. Nandana. (சு-524) 7. நந்தனம்.
नवरत्नप्रबंधोऽपि नवानामिह वर्णनात् ।
रत्नानां नवभिः खण्डैः तावद्भिस्तालरागकैः ॥
षडङ्गोऽयं प्रबंधस्स्यात् गातृनेत्रमिधान्वितः ॥
91
नीचोच्चद्रुतमध्यादौ श्लक्ष्णत्वे श्लक्ष्णमुच्यते ।
उच्चैरुच्चारणादुक्तं विक्रुष्टं मधुरं पुनः ॥
लावण्यपूर्णं निर्दोषं सारवज्जनरञ्जनम् ॥ ५२९ ॥
इति गीत गुणाः
(526—529) The ten desirable features of good music
described.
(சு-526—529) கீதகுணங்கள் 10, அவற்றின் விவரம்.
दुष्टं लोकेन शास्त्रेण श्रुतिकालविरोधि च ।
पुनरुक्तं कलाबाह्यं गतत्रय मपार्थकम् ॥ ५३० ॥
ग्राम्यं संदिग्धमित्येवं दशधागीतदुष्टता ।
पददोषाश्रयेकेचित् वाक्यदोषास्तथैव च ॥
पदैकदेशदोषाश्च ते सर्वेगीति माश्रिताः ॥ ५३१ ॥
इति गीतदोषाः ।
(530—531) The ten fanlts of bad music.
(சு. 530—531) கீததோஷங்கள் 10, அவற்றின் விவரம்.
इति श्रीलक्ष्मीधरसुत चतुरदामोदरविरचिते
संगीतदर्पणे प्रबन्धाध्यायः समाप्तः ।
)!
Wow, you can see it clearly: 'र', then a vertical line 'ा', then 'ञ्ज'!
So it is indeed printed as "रनुराञ्जनम्"! The user's prompt emphasizes transcribing the page faithfully.
Everything looks extremely solid and carefully verified.92
अथ वाद्याध्यायः पञ्चमः
गीतं निरूपितं तच्च वाद्याधीन मतो मया ।
वाद्यं निरूप्यते गीतनृत्ययो रनुराञ्जनम् ॥ ५३२ ॥
चतुर्विधन्तत् कथितं ततं सुषिरमेवच ।
अवनद्धं घनञ्चेति ततं तन्त्रीगतं भवेत् ॥ ५३३ ॥
वीणादि सुषिरं वंशं काहलादि प्रकीर्तितम् ।
चर्मावनद्धवदनं वाद्यते पटहादिकम् ॥ ५३४ ॥
अवनद्धन्तु तत् प्रोक्तं कांस्य तालादिकंघनम् ।
घना मूर्तिस्साभिघाता वाद्यते यत्तु तद्धनम् ॥ ५३५ ॥
(532—535) The 4 kinds of Vadyas (musical instru-
ments):— (1) stringed, (2) wind
93
वंशः पावः पाविकाच मुरली मधुकर्यपि ।
काहला शृङ्गशंखाद्याः भेदाः सुषिर वाद्यगाः ॥ ५३९ ॥
पटहो मर्दलश्चाथ हुडुक्का करटा घटाः ।
रुञ्जा डमरुको ढक्का डक्कुली ढक्करी तथा ॥ ५४० ॥
त्रिवली दुन्दुभिर्भेरी निस्साण स्तुंबकी तथा ।
इत्यादयो ऽवनद्धस्य भेदा वाद्यस्य कीर्तिताः ॥ ५४१ ॥
तालोऽथ कांस्यतालः स्यात् घण्टाच क्षुद्रघण्टिका ।
जयघण्टा ततः कम्न्रा शुक्तिपट्टादयस्तथा ॥ ५४२ ॥
घनवाद्यप्रभेदाः स्युः एतेऽन्येच निदर्शनात् ।
(536- to 542) Several varieties of the 4 kinds of
instruments.
(சு 536—542) நான்கு வகை வாத்யங்களின் பல பேதங்கள்.
अङ्गुलादिप्रमाणात्तु वीणादण्डादि निर्मितम् ।
तन्त्री ककुभतुंबादि लक्षणं धारणं तथा ॥ ५४३ ॥
तद्वादने च व्यापारो वामदक्षिणहस्तयोः ।
वैणिकादवगन्तव्यं नालशास्त्रप्रयोजनम् ॥ ५४४ ॥
प्रकृतिस्सर्ववीणानां एषास्यादेकतन्त्रिका ।
अनिबद्धाच सा लोके ब्रह्मवीणेति कथ्यते ॥ ५४५ ॥
सर्वदेवमयी तस्मात् वीणेयं सर्वमङ्गला ।
तन्त्रीद्वयेन नकुला स्यादन्वर्था त्रितन्त्रिका ॥ ५४६ ॥
तन्त्रीभिः सप्तभिश्चित्रा विपञ्ची नवभिर्मता ।
कोणाङ्गुलीवादनेन चित्रा तद्वद्विपञ्चिका ॥ ५४७ ॥
94
चित्राया मङ्गुलीमात्रं विपञ्च्यामुभयं परे ।
तन्त्रीणामेकविंशत्या कथिता मत्तकोकिला ॥ ५४८ ॥
मुख्येयं सर्ववीणानां त्रिस्थानैः सप्तभिः स्वरैः ।
संपन्ना सा ततोऽन्यास्तु तस्याः प्रत्यङ्गमीरिताः ॥ ५४९ ॥
एषैव कीर्त्यतेलोके स्वरमण्डलसंज्ञया ।
आलापिन्येकतुंबास्यात् दण्डः स्यान्नवमुष्टिकः ॥ ५५० ॥
कर्परं नारिकेलोत्थं दोरको दोरिकातथा ।
पट्टसूत्रमयी तन्त्री यद्वा कार्पाससूत्रका ॥ ५५१ ॥
रक्तचन्दनजान् सर्वान् वीणादण्डान् परेजगुः ।
तुंबद्वयञ्चसर्वेषुवीणादण्डेषु योजयेत् ॥ ५५२ ॥
आघाटिसंज्ञयालोके आलापिन्येव कीर्त्यते ।
किन्नरी द्विविधा लघ्वी बृहतीच प्रकीर्तिता ॥ ५५३ ॥
वितस्तित्रितयंदैर्घ्ये मानं पञ्चाङ्गुलाधिकम् ।
लघ्वीदण्डस्य विस्तारः पञ्चाङ्गुल उदाहृतः ॥ ५५४ ॥
वितस्त्यभ्यधिकादण्डे बृहती परिकीर्तिता ।
गृध्रवक्षोऽस्थिनालीका कनिष्ठाङ्गुलिसंमिता ॥ ५५५ ॥
लोहकांस्यमयी यद्वा कर्तव्या सारिकाख्यया ।
मधुच्छिष्टेन संश्लिष्टा दण्डपृष्ठे चतुर्दश ॥ ५५६ ॥
चतुर्दश स्वरस्थाने सारिका विनियोजयेत् ।
तुंबानां त्रितयंचात्र तिर्यग्योज्यं तृतीयकम् ॥ ५५७ ॥
95
शिष्टं ग्रंथान्तरेज्ञेयं मध्यमाचास्ति किन्नरी ।
वादनादिप्रकारोऽपि ग्रंथात् वैणिकशिक्षया ॥ ५५८ ॥
ज्ञातव्यो नात्र कथितः गुर्वधीनो यतोऽलसः ।
पिनाकी लोकतो ज्ञेया शास्त्रलक्षणलक्षिता ॥ ५५९ ॥
तुंबस्थितेन धनुषा वाद्यते साविचक्षणैः ।
अश्वपुच्छस्थितैर्वालैः गुणो वादनधन्वनः ॥ ५६० ॥
जानीयाल्लोकतोऽन्यानि ततवाद्यानि तत्त्वतः ।
(543-560) The several kinds of vina and other stringed
instruments described.
(சு 543-560) பலவகை வீணைகளும், மற்ற தந்திவாத்யங்
களும்.
नादश्रुतिस्वरग्राम जातिरागादितत्त्ववित् ।
देहसौष्ठवसंपन्नः स्थिरासनपरिग्रहः ॥ ५६१ ॥
जितश्रमस्त्यक्तभयः सुशारीरः प्रगल्भधीः ।
सावधानोवैणिकस्स्यात् गीतवादनकोविदः ॥ ५६२ ॥
(561-562) The requisites of Veena-players.
(சு 561-562) வைணிக லக்ஷணம்
वंशः स्याद्वैणवो दान्तः खादिरश्चन्दनोऽथवा ।
आयसः कांस्यजो रौप्यः काञ्चनोऽप्यथवा भवेत् ॥ ५६३ ॥ .
वर्तुलः सरलः श्लक्ष्णो ग्रंथिभेदव्रणोज्झितः ।
तस्य द्वे त्रीणि चत्वारि चाङ्गुलानि शिरस्स्थलात् ॥ ५६४ ॥
त्यक्त्वा फूत्काररन्ध्रन्तु कार्यमङ्गुलिसंमितम् ।
अर्धाङ्गुलान्तराणिस्सुः रंध्राण्यन्यानि सप्त च ॥ ५६५ ॥
96
तेषुच स्वरविन्यासः प्रकारो वादनस्य च ।
भेदाश्च सर्वमेवैतत् विज्ञेयं ग्रंथलोकतः ॥ ५६६ ॥
अष्टादशाङ्गुलोद्देशात् एकैकाङ्गुलवृद्धितः ।
वंशाश्चतुर्दशस्युस्ते उमापत्यादिसंज्ञया ॥ ५६७ ॥
(563–567) The flute, its make and its varieties
(சு 563–567) புல்லாங்குழலின் லக்ஷணமும் வகைகளும்.
अङ्गुलीसारणाभ्यासः सुस्थानत्वं सुरागता ।
गीतवादनदक्षत्वं गातृणांस्थानदायिता ॥ ५६८ ॥
तद्दोषाच्छादनं मार्गदेशीरागेषु कौशलम् ।
एव मादि गुणैर्युक्तो वांशिकः स्यादिहोत्तमः ॥ ५६९ ॥
(568–569) The qualifications of a good flutist.
(சு 568–569) புல்லாங்குழல் வாசிப்பவர் குணங்கள்.
हस्तद्वयाधिका माने मुखरंध्रसमन्विता ।
चतुःस्वरच्छिद्रयुता मुरली चारुवादिनी ॥ ६७० ॥
शृङ्गजा दारवीचस्यात् काहलाकृतिधारिणी ।
अष्टाविंशत्यंगुलाच दैर्घ्ये मधुकरी मता ॥ ५७१ ॥
तन्निर्माणप्रकारश्च रागोत्पत्ति स्ततोयथा ।
तत्सर्वं लोकतोज्ञेयं नात्र शास्त्रप्रयोजनम् ॥ ५७२ ॥
ताम्रजा राजती यद्वा काञ्चनी सुषिरान्तरा ।
धत्तूरकुसुमाकारवदनेन विराजिता ॥ ५७३ ॥
ह्राहूवर्णवती धीरविशुद्धोच्चारकारिणी ।
हस्तत्रयमिता दैर्घ्ये काहला वाद्यते जनैः ॥ ५७४ ॥
97
करेणुवदनाकारं वदने दोषवर्जितम् ।
शृङ्गतन्माहिषं स्निग्धं श्लक्ष्णं सुघटितं कृतम् ॥ ५७५ ॥
विशेषस्त्वन्यतोज्ञेयो वाद्यं गोपालकेलिषु ।
निर्दोषस्योत्खातनाभेः शंखस्यै कादशाङ्गुलम् ॥ ५७६ ॥
शिखरं निर्मितं धातुसिक्थकाभ्यां मनोरमम् ।
रंध्र मर्धाङ्गुलमितं शिखरस्य मुखेभवेत् ॥ ५७७ ॥
अन्तेतु माषमात्रं स्यात् शंखमेवंविधंसुधीः ।
धृत्वा कर्कटहस्तेन भूरिश्वासभृतोदरम् ।
हुंभुं भोंद्गिद्गित्येतद्वर्णान् शंखेन योजयेत् ॥ ५७८ ॥
(570—578) The other wind instruments— (1) Murali
(2) Madhukari (3) Kahala, (4) Sringa, (5) Sankha,
(சு 570—578) மற்ற துளைக்கருவிகள்— (1) முரளீ, (2)
மதுகரீ, (3) காஹளம், (4) ச்ருங்கம், (5) சங்கு.
मार्गदेशीगतत्वेन पटहो द्विविधोभवेत् ।
निर्माण कथनन्तस्य ज्ञातृत्वे नोपयुज्यते ॥ ५७९ ॥
तदुपेक्ष्य ततः पाटाः कथ्यन्ते तत्तदुद्भवाः ।
हस्तोद्भवास्त एवात्र हस्तपाटाः प्रकीर्तिताः ॥ ५८० ॥
सद्योजातादिपञ्चभ्यः मुखेभ्यः पार्वतीपतेः ।
नागबंधादयोजाताः तस्मान्मुख्याः प्रकीर्तिताः ॥ ५८१ ॥
13
98
अष्टाशीतिरिमे हस्तपाटाः शास्त्रे प्रकीर्तिताः :—
१. वनगिनगिननगि ५. खिरिट
२. दुगिडदगिथदथों ६. खिरि खिरि
३. गिडगिधादधै ७. नरकि थरकि
४. किटतत — इति अघोरोद्भवाः
५. नदनु १. दरगिड गिडगिरा
६. खिरंतकिट २. टकुटड्ड
७. थोंगि थोंगि ३. नन गिन खरि खिरि
— इति सद्योजातोद्भवाः ४. दखें खें
१. ततकिट ५. थोंगिनगि थोंगिनगि
२. थोहन्ता ६. तत्ता
३. थोंगिन थोंथोंगिन ७. धि धि
४. थोंथों गोंगों — इति तत्पुरुषोद्भवाः
५. थों गिणतत्ता १. तडे नझें झें
६. किट थोंथों गिनखेंखें २. तिरिखु तिरिखु
७. टकुडेंडें ३. कणकणकि
— इति वामदेवोद्भवाः ४. धिधिकिटकि
१. नन गिड गिड दगिदा- ५. दिगि नगि
२. दथरिकि दथरिकि ६. थरकट
३. त कि धि कि ७. धों न कट
४. ट ग नु खु — इति ईशानोद्भवाः¹
- मातृकासु पाटाक्षरपाठभेदाः बहवः सन्ति तेषां मतभेदान् क्रोडीकृत्य
अयं पाठः उद्धृतः । अपिच अयं पाठः संगीतरत्नाकरस्थात् पाठात् कचित्
भिद्यते
99
अत्रान्ये हस्तपाटास्तु ज्ञेयाग्रंथान्तराद्बुधैः¹ ॥ ५८२ ॥
( 580—583 et seq: ) The 35 original 'hastapatas' that
were born from the five faces of Lord Siva.
(சு-580—583ம், பிந்திய உரை நடையும்) ஆதியில் பரமசிவ
னுடைய ஐந்து முகங்களினின்றும் பிறந்த 35-ஹஸ்த பாடங்கள்.
वाद्यप्रबंधाः कथ्यन्ते पाटाक्षर विनिर्मिताः
येषूद्ग्राहादिकं सर्वं ज्ञेयं गीत प्रबंधवत् ॥ ५८३ ॥
यति रोताच गजरो रिगोणी कवितं पदम् ।
मेलापक श्चोपशमोद्ग्राहप्रहरणा न्यथ ॥ ५८४ ॥
अवत्सकश्छंडणश्च तुड्डुका मलपं ततः ।
इत्यादयोऽवपाठान्ताः त्रिचत्वारिंशदीरिताः ॥ ५८५ ॥
तेषांलक्ष्यस्वरूपञ्च मर्दलादिषुवादनम् ।
ज्ञेयंतदन्यतोलोके कथ्यतेमोहराख्यया ॥ ५८६ ॥
इति वाद्यप्रबंधाः ।
(584—587) The 43 Vadya Prabhandas or compositions
made up of hastapatas.
(சு-584—587) ஹஸ்த பாடங்களின் சேர்க்கையால் உண்டா
கும் 43 விதமான வாத்ய பிரபந்தங்கள்.
1 आनन्दाश्रम मुद्रणालये प्रकाशिते संगीतरत्नाकरे षष्ठे वाद्याध्याये
570 to 577 पुटानि द्रष्टव्यानि यत्र अष्टाशीति हस्तपाटलक्षणंतत्तदु-
त्पादनप्रकारेण सह विवृतम् ।
100
अथ मर्दललक्षणम्
निर्दोषबीजवृक्षोत्थः मर्दलः परिकीर्तितः ।
रक्तचन्दनजोयद्वा खादिरोऽन्यैरयं मतः ॥ ५८७ ॥
विनिर्माणप्रकारोऽस्य पाटोत्पत्तिरतोयथा ।
वादकश्चरसादिस्तुज्ञेयं ग्रंथान्तराद्बुधैः¹ ॥ ५८८ ॥
(588—589) 'Mardala' (mirdanga) and its make.
(சு-588—589) மிருதங்க லக்ஷணம்.
अथ मार्दलिकलक्षणम्
चतुर्विधोमार्दलिकः वादकोमुखरीतथा ।
ततः प्रतिमुख्याख्यः तुर्योगीतानुगोमतः ॥ ५८९ ॥
वादकः (स्या) च्छुल्लवट्पर्यायः कथितोबुधैः ।
- मृदङ्गलक्षणस्य पाठान्तरमपि 11499-11500 अङ्कित मातृ-
कयोः वाद्याध्यायारंभात्प्राक् वर्तते तद्यथा :—
अनीरतीर जातस्य रक्तचन्दनकस्यथ ।
खादिरस्य शिरीषस्य बीजवृक्षस्य वापुनः ॥ १ ॥
ग्रंथिव्रण विहीनस्य सुपक्वस्य समस्य च ।
मृदङ्गो घट्यते लक्ष्यवेदिना च मृदङ्गिणा ॥ २ ॥
हरीतक्याकृतिः सम्यक् सदृशञ्चसचिक्कणत् ।
चतुस्तालस्त्वसौदैर्घ्ये पिण्डेत्वङ्गुलसंमितः ॥ ३ ॥
एकादशांगुलमितं कर्तव्यं दक्षिणेमुखम् ।
वदनं वामतः किन्तु द्वादशाङ्गुलसंमितम् ॥ ४ ॥
101
मुखरी प्रेति मुखरी पर्यायोऽभार¹उच्यते ॥ ५९० ॥
गीतानुगस्यपर्यायः डव²ण इति कथ्यते ।
तत्र वादक शुद्धवट्ट लक्षणम् ।
वादको वादकर्तास्यात् वादः पक्षपरिग्रहः ॥ ५९१ ॥
छागस्यारोगिणः कृत्त्वा पारिजाठरचर्मणः ।
अतिस्वच्छतराः शुद्धाः विधेयावर्तुलास्तुषट् ॥ ५ ॥
निक्षिप्यपारिकास्तास्तु किंचिदुष्णजलेपुनः ।
कराभ्यां मर्दयेत्तज्ज्ञः कोमलं मलवर्जितम् ॥ ६ ॥
तिस्रस्तिस्रः पारिकास्तु प्रत्येकंवदनेन्यसेत् ।
तन्त्रद्वे महिषीचर्म कषमल्लसिताभिदा ॥ ७ ॥
तेहृत्य (त्वा) द्विगुणीकृत्य वेणिवन्मेलयेद्दृढम् ।
एवं जलधरध्वानगंभीरो भवतिध्वनिः ॥ ८ ॥
कांस्य ताले ......................।
धं भौ धां धां धलां मेयां डमं डमरुकेततः ॥ ९ ॥
रुञ्जौ रुंधु च ढक्कायां डकुल्यां तु चकंबुरे (?) ।
धुंकारमथतुंबक्यां धडिनिस्साणकेधडाम् ॥ १० ॥
सल्लोकेपि त्रिघ ल्यां धौं घनतालेतकस्ततः ।
करटायान्तु डेमेवं प्रधांनाक्षरयोजना ॥ ११ ॥
शेषाः साधारणाः पाटाः सर्ववाद्येयथोचिताः ।
तेचानन्त्यान्नशक्यन्ते प्रत्येकं वेदितुंबुधैः ॥ १२ ॥
- ‘पर्यायो भारः’ इति वा पाठः
- ‘श्रवण’ इति वापाठः
102
स्वपक्षसाधने तद्वत् परपक्षस्यदूषणम्
वादेषु वादनं कार्यं प्रथमंत्रो³टनाभिधम् ॥ ५९२ ॥
मर्दलंतोलसहितं वोहणेन विना ध्वनिः ।
(यो देहडडगित्यादि कृतोऽसौ लाटनं मतं⁴) ॥ ५९३ ॥
⁵चच्चत्पुटादितालैस्तु मार्गषट्केनयोजितः ।
कर्तरीसहितो यत्र वादकस्सतु कथ्यते ॥ ५९४ ॥
इति वादकशुद्धवटुलक्षणम्
शब्दप्रबंधान् सततं वादयेत्तालसंयुतान् ।
बोहणेन विना तल मुखर्यादिकमुच्यते ॥ ५९५ ॥
सएव भारसंज्ञो हि कथ्यतेतुविचक्षणैः
इति मुखरीप्रतिमुखरीभारलक्षणम्
मेलापकं तथा चाली नियमंवा यथाक्रमम् ।
विचित्रशब्दकैन्यासं कालमानयुतञ्चतत् ॥ ५९६ ॥
बोहणेन समायुक्तं रञ्जकं सर्वसौख्यदम् ।
शुद्धसालगसंकीर्ण
103
गीतानुगमिति प्रोक्तं डवणादिकेचन ।
इति गीतानुगडवणालक्ष्म
इति चतुर्विध मार्दलिक लक्षणम्¹
(589—598) The four types of playing on Mardala
(Mridanga)
(சு-589 to 591) மத்தளம் வாசிப்பதில் நான்குவகை.
- मार्दलिकलक्षणस्य पाठान्तरमपि 11499—11500—अङ्कित-
मातृकयोः दृश्यते—तद्यथाः—
ध्वनिमेलविदा पाटतालादि गुणवेदिना ।
मृदंगोवायतेयेन समृद्धंगीतिगीयते ॥ १ ॥
हस्तपाटप्रकारज्ञः गीतवादनकोविदः ।
यतिताललयाभिज्ञः पाटज्ञः पञ्चसङ्गवित् ॥ २ ॥
दशहस्तगुणोपेतः पात्रा (गात्र) भिप्रेतवादकः ।
वाद्येसमप्रभेदज्ञः रूपरेखान्वितस्तथा ॥ ३ ॥
उद्घुष्टनपटु स्सर्वं वाद्यभेदविवेचकः ।
(उत्फुल्लनवमः इति 11499—मातृकायाम्)
नादवृद्धिक्षयापत्तिकोविदः प्रतिभापटुः ॥ ४ ॥
गुणाभार्दंगिकस्यैते दोषःस्यात्तद्विपर्ययः ।
अतालज्ञ मरक्तिज्ञ मशास्त्रंचैववादकम् ॥ ५ ॥
परित्यजन्तुविद्वांसः कोमलं (केवलं) चर्मघातकम् ।
(1—5) The qualifications of a player in Mridanga
(சு-1—5) மிருதங்கம் வாசிப்பவரின் லக்ஷணங்கள்.
अथ सञ्चलक्षणम्