सामग्री पर जाएँ
सर्वकोश
सङ्गीतदर्पण (दामोदर पण्डित - तंजौर सरस्वती महल संस्करण, सङ्गीत एवं नाट्य लक्षण)

सङ्गीतदर्पण (दामोदर पण्डित - तंजौर सरस्वती महल संस्करण, सङ्गीत एवं नाट्य लक्षण)

Sangita Darpana of Damodara Pandita (TMSSML Edition)

दामोदर पण्डित (सम्पादक: के. वासुदेव शास्त्री) द्वारा

DevanagariSanskritpublished258 पृष्ठ

पृष्ठ 115, कुल 258 में से

संदर्भ में पढ़ें
पृष्ठ 115

84
क्रीडातालेन शृङ्गारे निर्मल स्तीर्थवर्णकः ।
लघुशेखर तालेन कलार्णः कुन्तलोऽद्रुते ॥ ४७९ ॥
विप्रलंभेतु कमलो झंपातालेन गीयते ।
तस्य खण्डस्तु कर्तव्यो बुधै स्सप्तदशाक्षरः ॥ ४८० ॥
अष्टादशाक्षर श्चारो वीरे निस्सारुतालतः ।
वीरशृङ्गारयो रेकताल्य प्रोक्तस्तुन्दनः ॥ ४८१ ॥
एकोनविंशद्वर्णस्तु सर्वसिद्धिप्रदायकः ।
वीरे हास्येच शृङ्गारे गीयते चन्द्रशेखरः ॥ ४८२ ॥
प्रतिमण्ठेन तालेन विंशत्यक्षरखण्डकः ।
एकविंशत्यक्षरस्तु प्रतिमण्ठेन गीयते ॥ ४८३ ॥
शृङ्गारेऽभीष्टफलदः कामदाख्यो ध्रुवो भवेत् ।
द्वाविंशत्यक्षरो हास्ये विजयः स्याद्द्वितीयतः ॥ ४८४ ॥
हास्यशृङ्गारकरुणे प्वादितालेन गीयते ।
त्रयो