सङ्गीतदर्पण (दामोदर पण्डित - तंजौर सरस्वती महल संस्करण, सङ्गीत एवं नाट्य लक्षण)
Sangita Darpana of Damodara Pandita (TMSSML Edition)
दामोदर पण्डित (सम्पादक: के. वासुदेव शास्त्री) द्वारा
पृष्ठ 125, कुल 258 में से
संदर्भ में पढ़ें94
चित्राया मङ्गुलीमात्रं विपञ्च्यामुभयं परे ।
तन्त्रीणामेकविंशत्या कथिता मत्तकोकिला ॥ ५४८ ॥
मुख्येयं सर्ववीणानां त्रिस्थानैः सप्तभिः स्वरैः ।
संपन्ना सा ततोऽन्यास्तु तस्याः प्रत्यङ्गमीरिताः ॥ ५४९ ॥
एषैव कीर्त्यतेलोके स्वरमण्डलसंज्ञया ।
आलापिन्येकतुंबास्यात् दण्डः स्यान्नवमुष्टिकः ॥ ५५० ॥
कर्परं नारिकेलोत्थं दोरको दोरिकातथा ।
पट्टसूत्रमयी तन्त्री यद्वा कार्पाससूत्रका ॥ ५५१ ॥
रक्तचन्दनजान् सर्वान् वीणादण्डान् परेजगुः ।
तुंबद्वयञ्चसर्वेषुवीणादण्डेषु योजयेत् ॥ ५५२ ॥
आघाटिसंज्ञयालोके आलापिन्येव कीर्त्यते ।
किन्नरी द्विविधा लघ्वी बृहतीच प्रकीर्तिता ॥ ५५३ ॥
वितस्तित्रितयंदैर्घ्ये मानं पञ्चाङ्गुलाधिकम् ।
लघ्वीदण्डस्य विस्तारः पञ्चाङ्गुल उदाहृतः ॥ ५५४ ॥
वितस्त्यभ्यधिकादण्डे बृहती परिकीर्तिता ।
गृध्रवक्षोऽस्थिनालीका कनिष्ठाङ्गुलिसंमिता ॥ ५५५ ॥
लोहकांस्यमयी यद्वा कर्तव्या सारिकाख्यया ।
मधुच्छिष्टेन संश्लिष्टा दण्डपृष्ठे चतुर्दश ॥ ५५६ ॥
चतुर्दश स्वरस्थाने सारिका विनियोजयेत् ।
तुंबानां त्रितयंचात्र तिर्यग्योज्यं तृतीयकम् ॥ ५५७ ॥