सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

विश्वकर्मणः पुत्रसंवादो द्वितीयोऽध्यायः । ३
तदेष त्रिदशाचार्यः सर्वसिद्धिप्रवर्तकः ।
१सुतः प्रभासस्य विभोः स्वस्त्रीयश्च बृहस्पतेः ॥ १९ ॥
२विश्वाभिसायीधीः सर्वं विश्वकर्मा करिष्यति ।
राजन्नसौ महेन्द्रस्य विदधावमरावतीम् ॥ २० ॥
३अन्या अप्यमुना रम्याः पुर्यो लोकभृतां कृताः ।
त्वया क्षेत्रीकृतां मूर्त्तिं दृष्ट्वा साद्रिद्रुमामसौ ॥ २१ ॥
सन्निवेशान् पुरग्रामनगराणां विधास्यति ।
तद् गच्छ वत्स ! लोकानामितस्त्वं हितकाम्यया ॥ २२ ॥
भयोज्झिता त्वमप्युर्वि ! पृथोः प्रियकरी भव ।
काले स्मृतः स्मृतः पुण्यो राज्ञः प्रियचिकीर्षया ॥ २३ ॥
त्वमप्यखिलमेवैतद् ५विश्वकर्म(न्) ! करिष्यसि ।
इत्युक्तवा गमनमुपेयुषि प्रजेशे ६स्वं स्थानं क्षितिभुजि चाश्रिते मुदोर्व्याम् ।
प्रालेयावनिभृतमाजगाम खेलत्सिद्धस्त्रीपरिगतमाशु विश्वकर्मा ॥ २४ ॥
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे
'महासमागमनो नाम प्रथमोऽध्यायः' ॥
अथ विश्वकर्मणः पुत्रसंवादो नाम द्वितीयोऽध्यायः ।
अथ पृष्ठे हिमगिरेः शशाङ्कशुचिरोचिषि ।
सिद्धामरवधूमुक्तमणि८मञ्जुगुहागृहे ॥ १ ॥
विस्तीर्णासनमासीनं सर्वज्ञमथ संस्मृताः ।
आययुर्विश्वकर्माणं चत्वारो मानसाः सुताः ॥ २ ॥
जयो विजयसिद्धार्थौ चतुर्थश्चापराजितः ।
तमुपागम्य शिरसा नेमुः प्राञ्जलयो मुनिम् ॥ ३ ॥
१ क. श्रुतप्रभावश्च विभो प्रीतये ते बृहस्पतिः । २ शा. विश्वातिशायि° । द. विश्वाभिसायी ।
३ क. सुराणामपि चान्येषां । ४ द. ग्रामभगवादीनविं ५ क. विश्वकर्मा, द. विश्वकर्म । ६ द. यं ।
७ द. पृथिव्याख्याना शास्त्रसंभवा° । ८ द. पाणिगुहा° । ९ द. स्मृताः । १० द. भूयो ।

४ समराङ्गणसूत्रधारे
तानुवाच मुनिर्वत्सा ! विदितं वो यथा पुरा ।
१वास्तुब्रह्म सदा विश्वं व्याप्नोति सकलं जगत् ॥ ४ ॥
२धम्र्म्यं कर्म तदा स्वेष्ट३प्राप्त्यै लोकावनानि च ।
व्यवस्थाप्य चकारैष लोकपालश्च कल्पनाम् ॥ ५ ॥
अहमप्यमुना विश्वनाथेनाम्बुजजन्मना ।
लोकानां ४सन्निवेशार्थमादिष्टोऽस्मि स्वयम्भुवा ॥ ६ ॥
रम्याणि नगरोद्यानसभास्थानान्यथो मया ।
सुरासुरोरगादीनां निर्मितान्यात्मबुद्धितः ॥ ७ ॥
गत्वोर्वीं वैन्यनृपतेर्वत्साः ! प्रियचिकीर्षया ।
नगरग्रामखेटादीन् करिष्यामि पृथक् पृथक् ॥ ८ ॥
कार्ये त्वमुष्मिन् सकले मम विश्वसृजार्पिते ।
सम्यक्साहायकैर्भाव्यं भवद्भिरिति नः स्थितम् ॥ ९ ॥
यतस्त्रिभुवनालोकप्रोद्यतस्याब्जिनीपतेः ।
सहायतां तमश्छेदे कलयन्ति मरीचयः ॥ १० ॥
स्वयं करिष्येऽहमथो निवासाय पृथोः पुरीम् ।
विचित्रनगरग्रामखेटामतिमनोहराम् ॥ ११ ॥
भवन्तः पुनरागत्य चत्वारोऽपि चतुर्दिशम् ।
तांस्तान् निवेशान् कुर्वन्तु पृथग्जनकताश्रयान् ॥ १२ ॥
६अन्तरेष्वध्वपाथोधीशैलानां सरितां तथा ।
विधातव्यानि दुर्गाणि नृपाणां भयशान्तये ॥ १३ ॥
वर्णप्रकृतिवेश्मानि संस्थानानि च लक्ष्मभिः ।
विधेयानि प्रतिग्रामं प्रतिपूर्ः प्रतिपत्तनम् ॥ १४ ॥
१ द. सपर्य्यादौ विश्वाप्यखिलं तथा; क....... व्याप्नोति सकलं जगत् । वास्तुब्रह्मेत्यादि मूल-
स्थितः श्रष्ठः पाठः शास्त्रिभिः टिप्पण्यां प्रदत्तः, स तु पाटनप्रतेः प्रतीयते । २ द. धर्म्मं । ३ द.
स्वेष्ट; क. श्रेष्ठच; ख. श्रेष्ठ । ४ ख. द. सत्रिवासार्थं । ५ द. प्रतौ मूलपाठः प्रोद्यत°, पश्चादिकृतः
प्रद्योत° । क. त्रुटितः; ख. प्रद्योत° । ६ द. अन्तरेष्वध्वनाम्भोधि° । ७ ख. द. संजातभयशान्तये ।
८ द. प्रतिष्टः ।

प्रश्नस्तृतीयोऽध्यायः । ५
तानित्थमात्मतनयानभिधाय सम्यक्
सारार्थभूतमपरिस्फुटनोज्झितं च ।
१स्थानार्पितोरुभरनिर्वृतचित्तवृत्ति-
स्तूष्णीं प्रभासतनयो नयविज्जगाम ॥ १५ ॥
इति श्रीमहाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे
२विश्वकर्मणः पुत्रसंवादो नाम द्वितीयोऽध्यायः ॥ छ ॥
अथ प्रश्नो नाम तृतीयोऽध्यायः ।
अथ तेषु जयो नाम वाक्यं तद् विश्वकर्मणः ।
श्रुत्वा कृताञ्जलिः प्राह स्निग्धगम्भीरया गिरा ॥ १ ॥
ज्ञानैकनिधिरप्यस्मान् यत् सहायतया किल ।
वृणोषि तेन न वयमात्मानं बहु मन्महे ॥ २ ॥
तदिदानीं हितार्थे नः प्रजानामपि च प्रभो ! ।
अप्रमेयप्रभावस्त्वं सर्वमाख्यातुमर्हसि ॥ ३ ॥
पूर्वमेकार्णवे जाते जगति प्रलयं गते ।
महाभूतामरपुरीज्योतिषां कथमुद्भवः ॥ ४ ॥
किमाकारा किमाधारा किंप्रमाणा च मेदिनी ।
विस्तृतिः परिधिश्चास्या बाहुल्यमपि कीदृशम् ॥ ५ ॥
उच्छ्रायव्यासदीर्घत्वैः कैः केऽस्यां कुलभूभृतः ।
कति ख्यातानि वर्षाणि द्वीपा नद्योऽब्धयस्तथा ॥ ६ ॥
काः सूर्येन्दुग्रहर्क्षादिगतयश्च पृथक् पृथक् ।
भूमेरुपरि किं चैषामन्योन्यं प्रोक्तमन्तरम् ॥ ७ ॥
किमाधारं दिवि ज्योतिश्चक्रं भ्रमयते च कः ।
लोके कथं महाभूतान्यूर्ध्वाधो बिभ्रति स्थितिम् ॥ ८ ॥
१ क. स्थानार्पणातिशयनिं । २ क. ' जयविजयसिद्धार्थापराजितसुतागमनो नाम ' ।

६ समराङ्गणसूत्रधारे।
युगधर्मव्यवस्थाभिः काश्चादौ लोकवृत्तयः।
कश्चादिमस्ततो राज्ञां ग्रहाणां वर्णिनां कथम् ॥ ९ ॥
कति देशाः कति भुवः पृथक्त्वेन निरूपिताः।
कार्यः क्व च कथं सन्निवेशो जनपदाश्रयः ॥ १० ॥
˚व्यक्तचिह्नैः स्वनस्पर्शगन्धवर्णरसादिभिः।
काः शस्ता निन्दिताः काश्च पुराणामपि भूमयः ॥ ११ ॥
कार्यं केन विधानेन भूभृत्पुरनिवेशनम्।
किं फलं सुविविष्टेऽस्मिन् दुर्विशिष्टे च किं पुनः ॥ १२ ॥
कतिप्रकारं दुर्गं च दुर्गकर्मक्रमश्च कः।
किमग्रपुरसंस्थानमनिन्द्यं किं च निन्दितम् ॥ १३ ॥
कश्चात्रानुक्रमविधिः प्रमाणैरुपपादितः।
प्राकारगोपुराट्टालपरिखावप्रकर्म च ॥ १४ ॥
तमङ्गनिर्गमद्वारप्रतोल्यट्टालकादिभिः।
कीदृशः प्रविभागश्च रथ्याचत्वरवत्मर्भिः ॥ १५ ॥
भूमिप्रमाणसंस्थानं सीमा चैं क्षेत्रदिक्पथैः।
: नगरग्रामखेटानां निवेषाः स्युः पृथक् पृथक् ॥ १६ ॥
पुरस्याभ्यन्तरे पूर्वं कैर्द्रव्यैावयवक्रमैः।
कस्मिन् स्थाने कथं कार्यं शक्रध्वजनिवेशनम् ॥ १७ ॥
प्रतिसंवत्सरं तस्य नियुक्तस्य कथं पुनः।
हिताय नृपलोकानां विधातव्यो महोत्सवः ॥ १८ ॥
गृहेषु केषु केष्वत्र कासु कासु ककुप्सु च।
भागैर्बाह्यान्तरैः कैः कैः कार्याः काः काश्च देवताः ॥ १९ ॥
कैः कैर्यानपरीवारवर्णरूपविभूषणैः।
कार्याः कैः कैः सुरा वस्त्रवयोवेषायुधध्वजैः ॥ २० ॥
१ क. ख. द. व्यक्तिचिह्नैः। २ द. विनिन्दितम्। ३ क. ग. भू. पाठः, ख. द. च।

प्रमाणमिति संस्थानसङ्ख्यानोच्छ्रयलक्ष्मभिः ।
प्रासादाः कस्य के वा स्युः सुरराजद्विजातिषु ॥ २१ ॥
प्राकारपरिखागुप्तं पुरे स्याद् गोपुरं क्व च ।
युग्ममध्याम्बुवेश्मनि क्व च स्युः क्व महानसम् ॥ २२ ॥
कोष्ठागरायुधस्थानभाण्डागारनिवेशनैः ।
व्यायामवृत्तसङ्गीतस्नानधारागृहादिभिः ॥ २३ ॥
शय्यावासगृहप्रेक्षावेश्मादर्शगृहैः पृथक् ।
क्रीडादोलाश्रयारिष्टगृहान्तः पुरवेश्मभिः ॥ २४ ॥
विटङ्कभ्रमनिर्यूहकक्षासंयमनादिभिः ।
अशोकवनिकाभिश्च लतामण्डपवेश्मभिः ॥ २५ ॥
वापीभिर्दारुगिरिभिश्चित्रामिः पुष्पवीथिभिः ।
एतैर्विशेषैरन्यैश्च विचित्रैर्विपिनाश्रयैः ॥ २६ ॥
मानोन्मानक्रियायामद्रव्याकृतिविनिर्मितः ।
निकेतननिवेशः स्याद् राज्ञां भागाश्रितः कथम् ॥ २७ ॥
पुरोधःसैन्यभूश्रेष्ठदैवचिन्तकमन्त्रिणाम् ।
कं कं च भागं प्राप्य स्युर्निवेशा नृपवेश्मनः ॥ २८ ॥
पुरे स्युर्दिक्षु भागेषु पदभागेषु केषु च ।
विप्रराजन्यविट्शूद्रास्तज्जैरन्तरजैः समम् ॥ २९ ॥
तथा कृषितुलांशिल्पकलापण्योपजीविनः ।
हिंसाश्रिताश्च पुरुषा निवेश्याः स्युः कथं क्व च ॥ ३० ॥
निवेशाः कीदृशाश्चैषां कियन्तो वा भवन्ति ते ।
शस्यं लोकेन वा तेषां कैः प्रवेशजलभ्रमैः ॥ ३१ ॥
धिष्ण्यमात्रं कतिविधं द्रव्याण्याद्यानि कानि वा ।
हेतुरेषां च सर्वेषां स्याच्च किह्यनुक्रमः ॥ ३२ ॥
१ द. शिल्पकल्याणाद्योप॑ । २ द. सस्यां ( ? शस्यं ) लोकेन वा तेषां । क. शस्यन्ते केन वा तेषां ।

८ समराङ्गणसूत्रधारे
भजन्ते योगमन्योन्यं कानि द्रव्याणि कैः सह ।
कानि योगं न गच्छन्ति कैर्वा कः क्व वसेत् पुमान् ॥ ३३ ॥
इष्टकाकर्म किं चेष्टं कीर्तिता कतिधा च भूः ।
परिकर्मक्रमस्तासां वह्नयम्बुपवनैश्च कः ॥ ३४ ॥
गुरुवर्णिध्वजोर्वीशत्तद्गलप्रतिमा पुराम् ।
वृक्षाः के के प्रशस्ताः स्युर्गृहार्थे के च गर्हिताः ॥ ३५ ॥
तच्छेदस्रावसंभूतं शब्ददिक्पातगर्भजम् ।
विज्ञायते कथं कर्तृकारकादिशुभाशुभम् ॥ ३६ ॥
प्रमाणं तक्षणच्छेदैः १शोधितानां कथं भवेत् ।
आहृत्य स्थापनं पूर्वं दारूणां स्थानके क्व च ॥ ३७ ॥
सामान्यतोऽखिलानां काः काश्च जातेर्विशेषतः ।
प्रशस्तैर्लक्ष्मभिर्युक्ता भूमयः परिकीर्तिताः ॥ ३८ ॥
शल्योद्धारविधिः कीदृक् कीदृशं भूमिकर्म च ।
२दिग्ग्रहः सूत्रणं चाधिवासनं च कथं भवेत् ॥ ३९ ॥
प्रमाणं मूलपादस्य शिलान्यासे च को विधिः ।
विभज्यते कथं वेश्म शालालिन्दविभाजनैः ॥ ४० ॥
मानानि कानि भित्तीनां पीठानामुच्छ्रयाश्च के ।
कथं तानि विकल्प्यानि वर्णानां मेखलादिभिः ॥ ४१ ॥
समस्तकानां स्तम्भानां द्वारस्तम्भासनैः सह ।
नागवीथ्युपधानानां समं कण्ठविनिर्गमैः ॥ ४२ ॥
जयन्तीसङ्ग्रहतुलाकार्याणां वास्तुनोऽपि च ।
कीदृशं फलकानां च प्रमाणं परिकीर्तितम् ॥ ४३ ॥
स्वमानात् सर्ववर्णानां तलोच्छ्रायास्तु कीदृशाः ।
का गवाक्षकपोतालिवेदिकाजालकक्रियाः ॥ ४४ ॥
१ द. ख. ग. साधितानां । २ द. दिग्वहसू० ।

प्रश्नस्तृतीयोऽध्यायः । ९
स्थूणा ^१निस्सृष्टिकोत्सूका मृगा(ल्यो ? ल्यु)पतुलास्तथा ।
सान्तःप्राणिशिरोवंशाः किंप्रमाणाः प्रकीर्तिताः ॥ ४५ ॥
छाद्योदयाः कियन्तः स्युर्वृत्तच्छाद्यक्रमश्च कः ।
त्र्यश्राणां खण्डवृत्तानां लुपानां च क्रियाः कथम् ॥ ४६ ॥
सीमालिन्दशिरस्तासां कीदृशी ^३चावलम्बना ।
कतिप्रकाराः प्रासादशिरसां च विकल्पनाः ॥ ४७ ॥
यच्चान्यदेवमादि स्यात् प्रासादभवनादिषु ।
द्रव्यकाष्ठकलासङ्गि प्रमाणं तस्य कीदृशम् ॥ ४८ ॥
शालालिन्दप्रमाणानि चतुःशालेषु धामसु ।
ज्यायोमध्ययवीयस्सु मूषाभिः काष्ठकल्पना ॥ ४९ ॥
एकद्वित्रिचतुःशालान्येषां संयोगतोऽपि च ।
कथं कति च वेश्मानि ^४कल्प्यन्ते प्रविभागशः ॥ ५० ॥
कथं च षोडशचतुःषष्ट्येकाशीतयः शतम् ।
संविभागाः पदानां स्युः कथमत्रामरस्थितिः ॥ ५१ ॥
आद्यो नवपदो वास्तुरन्त्यः साहस्रिकः कथम् ।
अङ्गप्रत्यङ्गभागेषु केषु केषु क्व तस्थुषः ॥ ५२ ॥
कथमेते सुराः सर्वे वास्तोरस्य व्यवस्थिताः ।
एतद्वंशशिरश्श्रोत्रुःकुक्षिहृन्मूर्धमर्मसु ॥ ५३ ॥
जायेत पीडा द्रव्येषु सन्निविष्टेषु कस्य का ।
वास्त्वारम्भप्रवेशेषु यात्रायां स्थापनेषु च ॥ ५४ ॥
दूतस्वप्ननिमित्ताद्यैः कथं ज्ञेयं शुभाशुभम् ।
दारुक्रियासु चित्रेषु तथा लेप्यक्रियासु च ॥ ५५ ॥
^६योज्यं किं किमयोग्यं च किं भूपभवनादिषु ।
हस्तस्य लक्षणं मानसंज्ञा वै ज्ञायते कथम् ॥ ५६ ॥
१ द. णिमृष्टिकोत्सूकामृगाल्योपतुलास्तथा । २ द. लुमानां । ३ द. भावलम्बना । ४ द.
कल्पन्ते । ५ द. शिरोकक्ष । ६ द. अंगप्रत्यंगयोज्यं किं किमयोग्यं च ।
वा. २

१० समराङ्गणसूत्रधारे
किं हव्येष्वग्निलक्ष्म स्यात् किं च निर्युक्तलक्षणम् ।
अनुक्रमेण वर्णानां बलिकर्म च कीदृशम् ॥ ५७॥
विधेयं विधिना केन भवने च प्रवेशनम् ।
पतिते स्फुटिते जीर्णे प्लुष्टे वज्राशनिक्षते ॥ ५८ ॥
निमग्नभग्ननिर्भिन्नप्रशीर्णेषु च वास्तुषु ।
मधुवल्मीकसंभूतौ प्रविरूढे च दारुणि ॥ ५९ ॥
जायते किं फलं कुत्र प्रायश्चित्तेन को विधिः ।
इत्येवमादिकमनेकविधं विधानं वेश्मोपगं च पृथगाश्रयसंभृतं च ।
अस्मास्वनल्पकरुणार्द्रितचित्तवृत्तिर्व्याख्यातुमर्हसि समस्तमनु-
क्रमेण ॥ ६० ॥
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे
प्रश्नाध्यायस्तृतीयः ॥
अथ महदादिसर्गश्चतुर्थोऽध्यायः ।
जयस्येति समाकर्ण्य विश्वकर्मा च तद् वचः ।
जगाद गर्जदम्भोदध्वनिगम्भीरया गिरा ॥ १॥
साधु वत्स ! त्वया सम्यक् प्रज्ञयातिविशुद्धया ।
प्रश्नोऽयमीरितो वास्तुविद्याब्जवनभास्करः ॥ २ ॥
स त्वं निधाय प्रश्नानां समुदायममुं हृदि ।
वदतो मेऽवधानेन शृणु यद् ब्रह्मणोदितम् ॥ ३ ॥
इदमासीद् युगान्ताग्निप्लुष्टं संवर्तकादिभिः ।
समुत्सृजद्भिरम्भांसि विश्वमेकार्णवीकृतम् ॥ ४ ॥
तमोभूते ततस्तस्मिन् भोगिपर्यङ्कमाश्रितः ।
हरिः सुष्याप सलिले कृत्वोदरगतं जगत् ॥ ५ ॥
अथास्य नाभावम्भोजमभूत् तस्मिन्नजायत ।
सर्वज्ञानाश्रयः श्रीमांश्चतुर्वक्त्रः सुरेश्वरः ॥ ६॥
स कदाचिद् दधच्चेतः प्रजासृष्टिं प्रति प्रभुः ।
महान्तमसृजत् तत्र पूर्वं विश्वस्य हेतवे ॥ ७ ॥

महदादिसर्गश्चतुर्थोऽध्यायः । ११
त्रिधाहङ्कृतमेतस्मान्मनोऽभूत् सात्त्विकादतः ।
राजसादपि चाक्षाणि तन्मात्राणि च तामसात् ॥ ८ ॥
तेभ्यः पञ्च महाभूतान्याविरासन्ननुक्रमात् ।
व्योमादीनि धरान्तानि स्वैः स्वैर्युक्तानि तैर्गुणैः ॥ ९ ॥
अधरोत्तरभावश्च सम्यगेषामथोच्यते ।
आदौ पृथ्वी ततोऽधस्तादापस्तासां च पावकः ॥ १० ॥
तस्याप्यधस्तात् पवनस्ततः खमवकाशदम् ।
भूतादिस्थं वियत् सोऽपि महता परिवारितः ॥ ११ ॥
महांश्च विशति व्यक्तं व्यक्तमव्यक्तकं पुनः ।
ग्राह्यग्राहकभावेन व्यक्तो भूतसमुद्भवः ॥ १२ ॥
आधाराधार्यभावश्च यथार्थौ च स्थितिव्ययौ ।
महाभूतानि सगुणान्येवं सृष्ट्वा ततः प्रभुः ॥ १३ ॥
मनः पुनरसौ सर्गे भौतिके सम्यगादधौ¹ ।
सुरासुरान् सगन्धर्वान् यक्षरक्षांसि पन्नगान्² ॥ १४ ॥
³नागान् मुनीनप्सरसो मनसा समजीजनत् ।
अर्केन्दू चक्षु (षी ? षो) जातौ गगनभ्रमणक्षमौ ॥ १५ ॥
गात्रेभ्योऽपि च नक्षत्रचक्रमस्मादजायत ।
इन्द्रियेभ्यश्च पञ्चभ्योऽभूत् ताराग्रहपञ्चकम् ॥ १६ ॥
ग्रहत्वं पुनरेतेषामिन्द्रियग्रहणाद् विदुः ।
सुरेन्द्रचापचिह्नानां विद्युद्वलयशालिनाम् ॥ १७ ॥
भीमाशनिभृतां चासीत् केशेभ्योऽम्बुमुचां भवः ।
विश्वमापूरयन् कृत्स्नमाविरासीत् तदिच्छया ॥ १८ ॥
त्रिलोकीपावनस्तिर्यग्गामी चण्डः समीरणः ।
ततश्चण्डानिलोद्भूतमुपर्यर्कांशुतापितम् ॥ १९ ॥
१ द. आदधे । २ द. राक्षसान् । ३ ख. ग. द. सावित्री पुनरप्सरसो ।

१२ समराङ्गणसूत्रधारे
वायुभिः शोषमानीतं जगाम घनतां पयः ।
तस्योपरिष्टादम्भोधेरधः कुण्डलितं वपुः ॥ २० ॥
विष्णोः १सज्या( ? शय्या )त्वमभ्येत्य धत्तेऽनन्तोऽखिलां भुवम् ।
न तप्तं येषु येष्वम्भः प्रदेशेष्वर्करश्मिभिः ॥ २१ ॥
नीतं न वानिलैः शोषं तत्र तत्राब्धयोऽभवन् ।
महाम्भोवीचिसङ्घाता विक्षिप्ताश्चण्डमारुतैः ॥ २२ ॥
यत्र यत्रापुरैक्यं ते तत्र तत्राद्रयोऽभवन् ।
निश्चलत्वार्थमवनिंश्चर्मवद् वितताथ तैः ॥ २३ ॥
शैलैः कीलैरिव स्थानेष्वाचिता तेषु तेष्वियम् ।
वृद्धिं गताद्रिनिःष्यन्दैर्भूभृतां प्रविभाजगा ॥ २४ ॥
निम्नगाभूत् ततोऽम्भोधेः कान्ता निम्नानुसारिणी ।
मेदिन्यन्तेषु २जलधिपर्यन्तेषु विनिर्ययुः ॥ २५ ॥
अम्भांसि यत्र यत्रासंस्ते द्वीपाश्चित्ररूपिणः ।
सनिम्नगाम्बुधिद्वीपा विभक्ताखिलभूधरा३ ॥ २६ ॥
व्यक्ता बभूव कृत्स्नैवं भूमिर्भूतानि बिभ्रती ।
स चक्रे रौरवादीनां निरयाणामधः क्षितेः ॥ २७ ॥
स्वकर्मफलभुक्त्यर्थं स्थानं दुष्कृतकर्मणाम् ।
जरायुजाण्डजोद्भिज्जस्वेदजैः सह स प्रभुः ॥ २८ ॥
चतुर्धैत्यसृजल्लोके भूतग्रामं चराचरम् ।
द्वेधा जरायुजास्तत्र मनुष्याः पशवस्तथा ॥ २९ ॥
ग्राम्याः सप्ताभवंस्तेषु सप्तारण्यकृतालयाः ।
पुमान् गौस्तुरगच्छागौ मेषो वेगसरः खरः ॥ ३० ॥
ग्रामवासैकनिरताः सप्तैते परिकीर्तिताः ।
सिंहद्विपोष्ट्रमहिषाः शरभो गवयः कपिः ॥ ३१ ॥
१ द. सज्यात्व ( ? शय्यात्व ); ग. सच्याल । २ द. जलधेः । ३ द. भूधराः ।

भुवनकोशः पञ्चमोऽध्यायः । १३
अरण्यगोचरा जीवाः सप्तैते वत्स ! निर्मिताः ।
धर्माधर्मविवेक्तिंत्वाच्छ्रेयान् ग्राम्येषु पूरुषः ॥ ३२ ॥
अरण्यचारिषु श्रेष्ठः सिंहः शौर्यबलादिभिः ।
सुपर्णा भुजगाः कीटा येऽपि च स्युः पिपीलिकाः ॥ ३३ ॥
चतुर्धैत्यण्डजन्मानो जन्मनस्ते प्रकीर्त्तिताः ।
२क्लेद (केप ? केश) समुद्भूताः कृमियूकादिजन्तवः ॥ ३४ ॥
सर्वेऽपि स्वेदजन्मानस्ते प्रजापतिना कृताः ।
उद्भिज्जाः पञ्चधा भूत्वा निर्दिष्टाः स्थावराश्च ते३ ॥ ३५ ॥
द्रुमा वल्ल्यश्च गुल्माश्च वंशाः सतृणजातयः ।
छन्नान्तःकरणत्वं च स्वस्थानात्यागितापि च ॥ ३६ ॥
छिन्नप्ररोहिता चैषां वैशेषिकगुणत्रयम् ।
गायत्री भूतसंज्ञे(षां ? षा) चतुर्विंशतिपर्विका ॥ ३७ ॥
ज्ञात्वैनां पुरुषः पुण्यां भवति स्वर्गभाजनम् ।
भुवन'भूजलवह्निमरुद्वियत्प्रमुख एष भवस्तव कीर्त्तितः ।
वसुमतीपरिमाणविनिश्चयं कथयतः शृणु सम्प्रति वत्स ! मे ॥३८॥
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे
महदादिस(ङ्गा ? र्गा )ध्यायश्चतुर्थः ॥
अथ भुवनकोशः पञ्चमोऽध्यायः ।
अथो यथाक्रमं भूमेः कृत्स्नायाः कथयामि ते ।
विष्कम्भपरिधी वत्स ! बाहुल्यमपि च स्फुटम् ॥ १ ॥
विष्कम्भोऽस्याः समुद्दिष्टो दशयोजनकोटयः ।
लक्षाण्यपि च मेदिन्यास्तद्वदेकोनविंशतिः ।
विष्कम्भत्रिगुणो यावद् विष्कम्भांशश्च पञ्चमः ॥ २ ॥
१ द. विवेक्तित्वा । २ द. केशकोषेषु (?) । ३ ख. ग. द. ये ।

१४ समराङ्गणसूत्रधारे
मेदिन्याः परिधिस्तावद्योजनैः परिकीर्त्तितः ।
द्वात्रिंशत्कोटयः षष्टिलक्षाणि परिधिः क्षितेः ॥ ३ ॥
अशीतिश्च सहस्राणि योजनानां प्रकीर्त्तितः ।
योजनानां सहस्राणि विंशतिर्लक्षयोर्द्वयम् ॥ ४ ॥
इति बाहुल्यमेतस्याः क्षितेर्वत्स ! तवोदितम् ।
चतुर्णां सलिलादीनां भूतादेर्महतोऽपि च ॥ ५ ॥
उत्तरोत्तरमुर्वीतो मानं शतगुणं विदुः ।
तोयादिषु स्थितेयं भूश्चक्रवद् वृत्तशालिनी ॥ ६ ॥
पात्रस्थापरपात्रश्रीहारीण्यन्यान्यपि क्रमात् ।
प्रमाणमिदमेतेषां क्षित्यादीनां तवोदितम् ॥ ७ ॥
द्वीपादीनां तु पाथोघिनिवेशः पुनरुच्यते ।
द्वीपानामम्बुधीनां च सप्तानामपि मध्यगः ॥ ८ ॥
जम्बूद्वीपो भवेद् वृत्त:^३ सहस्रशतविस्तृतः ।
हिमाद्रिर्हेमकूटाख्यो निषधो नीलसंज्ञितः ॥ ९ ॥
श्वेतः शृङ्गी च षडमी भवन्त्यस्मिन् कुलाचलाः ।
एतस्मादुत्तरेणाद्रेस्तुषाराङ्कितमेखलात् ॥ १० ॥
पूर्वापरायताः सर्वेऽप्यद्रयो यावदम्बुधि ।
अन्तरा नीलनिषधौ जम्बूद्वीपस्य नाभिगः ॥ ११ ॥
वृत्तः पुण्यजनाकीर्णः श्रीमान् मेरुर्महाचलः ।
उदग्याम्यायते मेरोः प्राग्भागे माल्यवान् गिरिः ॥ १२ ॥
सेवितः सिद्धनारीभिरानीलनिषधायतः ।
सुमेरोः पश्चिमेनाद्रिर्गन्धर्वकुलसङ्कुलः ॥ १३ ॥
माल्यवत्सदृशायामो महीभृद् गन्धमादनः ।
पर्वतावुभयान्तस्थौ हिमवान् शृङ्गवांस्तथा ॥ १४ ॥
१ द. पात्रस्थापर; शास्त्रिभिः 'वर' पाठः टिप्पण्यां दत्तः । २ द. ख. ग. दीपावनीषु पाथोघेः ।
३ क. सम ।

भुवनकोशः पञ्चमोऽध्यायः १९
योजनानां सहस्रे द्वे १सार्धे स्यादुच्छ्रयस्तयोः ।
श्वेतश्च हेमकूटश्चैत्यन्तयोः पृथिवीधरौ ॥ १५ ॥
योजनानां सहस्रार्धमेकैकस्योच्छ्रयस्तयोः ।
निषधाचलनीलाद्रिमाल्यवद्गन्धमादनाः ॥ १६ ॥
सहस्रयोजनोच्छायाश्चत्वारोऽमी पृथक्पृथक् ।
एतेऽष्टावपि शैलेन्द्राः सहस्रद्वयविस्तृताः ॥ १७ ॥
उच्छ्रयार्धमधश्चापि विलग्नाः सह मेरुणा ।
मेरोः समुच्छ्रयोऽशीतिः सहस्राणि चतुर्युता२ ॥ १८ ॥
षोडशाधः सहस्राणि द्वात्रिंशन्मूर्ध्नि विस्तृतिः३ ।
जम्बूतरुर्महान् मध्ये सुमेरोर्निषधस्य च ॥ १९ ॥
द्वीपस्यामुष्य यद्योगाज्जम्बूद्वीप इति श्रुतिः ।
शृङ्गैर्हिमशिलानद्धैः सर्वतो हिमवानयम् ॥ २० ॥
महान्तो निवसन्त्यत्र पिशाचा यक्षराक्षसाः ।
कूटैर्हेममयैर्हेमकूट इत्यवनीधरः ॥ २१ ॥
यं सर्वतो निषेवन्ते सदा चारणगुह्यकाः ।
तरुणार्कप्रभाजालप्रतिमो निषधाचलः ॥ २२ ॥
निवसन्ति सुखं तत्र शेषवासुकितक्षकाः ।
हेमाब्जकर्णिकाकारः सुमेरुर्मणिकन्दरः ॥ २३ ॥
अत्रामराः साप्सरसस्त्रयस्त्रिंशद् वसन्ति ते ।
वैदूर्यनद्धैः शिखरैर्नीलो नीलमहीधरः ॥ २४ ॥
कलयन्ति तपोनित्या यत्र ब्रह्मर्षयः स्थितिम् ।
श्वेतः स काञ्चनैः शृङ्गैर्गगनोल्लेखिभिर्वृतः ॥ २५ ॥
दोर्दर्पशालिनां यत्र निवासस्त्रिदशद्विषाम् ।
महानीलमयो बर्हिपिच्छच्छायो बहिर्महान् ॥ २६ ॥
१ द. ख. ग द्वेद्वे सार्धे उच्छ्रं । २ द. चतुर्युताः । ३ द. विस्तृतः ।

१६ समराङ्गणसूत्रधारे।
पितॄणामालयः शृङ्गैरूच्छ्रितैः शृङ्गवान् गिरिः।
हिमाचलस्य याम्येन क्षारान्धिवृतमैन्यतः ॥ २७ ॥
वर्षं स्याद् भारतं नाम प्रथमं कार्मुकाकृति।
तुषारनिलयस्याद्रेर्हेमकूटाचलस्य च ॥ २८ ॥
मध्ये किंपुरुषं नाम द्वितीयं वर्षमीरितम्।
अन्तरे हेमकूटस्य निषधस्य च भूभृतः ॥ २९ ॥
हरिवर्षमिति प्रोक्तं तृतीयं वर्षमुत्तमम्।
निषधाचलनीलाद्रिमाल्यवद्गन्धभूभृताम् ॥ ३० ॥
चतुर्णां मध्यगं वर्षं तुर्यमस्मिन्निलावृतम्।
उत्तरे नीलशैलस्य याम्ये च श्वेतभूभृतः ॥ ३१ ॥
पञ्चमं वर्षमत्यर्थरम्यं रम्यकसंज्ञितम्।
श्वेतशृङ्गवतोः शैलराजयोरनयोरिह ॥ ३२ ॥
मध्ये षष्ठं हिरण्यांशुरम्यं हैरण्यकाह्वयम्।
अस्योत्तरे शृङ्गवतो याम्ये च क्षारवारिधेः ॥ ३३ ॥
कुरुवर्षाभिधं वर्षमुत्तरेण प्रचक्षते।
अन्तरा नीलनिषधौ प्राग्भागे माल्यवद्गिरेः ॥ ३४ ॥
भद्राश्वमष्टमं वर्षं प्राक्समुद्रान्तमीरितम्।
गन्धमादनशैलस्य प्रत्यक् प्राक् चापाम्बुधेः ॥ ३५ ॥
नवमं वर्षमाचार्याः केतुमालं प्रचक्षते।
इति प्रोक्तानि वर्षाणि नवामूनि मया तव ॥ ३६ ॥
साम्प्रतं पुनरेतेषां प्रमाणमवधारय।
प्रमाणेन सहस्राणि चतुस्त्रिंशच्चतुर्दिशम् ॥ ३७ ॥
योजनानामिहेच्छन्ति चतुरश्रमिलावृतम्।
प्राक्प्रत्यग्भागगे वर्षे तस्योदग्याम्यतः समे ॥ ३८ ॥
१. द. ख. ग. मध्यतः।

भुवनकोशः पञ्चमोऽध्यायः । १७
एकत्रिशत्सहस्राणि किञ्चित् प्राक्प्रत्यगायते ।
यान्युक्तानि षडन्यानि वर्षाण्येभ्योऽवराणि ते ॥ ३९ ॥
तेषां नवसहस्राणि प्रत्येकं विस्तृतिर्मता ।
वर्षे किम्पुरुषे नार्यो नराश्च प्लक्षभोजनाः ॥ ४० ॥
जीवन्त्ययुतमब्दानां जात्यजाम्बूनदत्विषः ।
हरिवर्षे नरा नार्यो वसन्तीक्षुरसाशिनः ॥ ४१ ॥
१सायुतं च सहस्रं ते जीवन्ति रजतत्विषः ।
इलावृते नराः पद्मरागभासोद्गतास्तथा ॥ ४२ ॥
जम्बूफलरसाहाराः सपादायुतजीविनः ।
नास्मिन् मेरुतटच्छन्ने तारकार्केन्दुरश्मयः ॥ ४३ ॥
स्वाङ्गप्रभाभिः किन्त्वत्र कृतोद्योता वसन्त्यमी ।
कैरवोदरसच्छाया भद्राश्वे साङ्गना नराः ॥ ४४ ॥
नीलाभ्रकफलाहारा भवन्त्यत्रायुतायुषः ।
दलत्कुवलयश्यामाः केतुमाले शरीरिणः ॥ ४५ ॥
शरदमयुतं तेषामायुः पनसभोजिनाम् ।
श्वेताभो रम्यके रम्ये न्यग्रोधफलभुग् जनः ॥ ४६ ॥
हरिवर्ष इव प्रोक्तमेतस्मिन् मानमायुषः ।
श्यामत्विषः स्त्रियो वर्षे पुमांसश्च हिरण्मये ॥ ४७ ॥
जीवन्त्ययुतमब्दानां सर्वेऽपि लकुचाशिनः ।
कुरुष्वभीष्टदैर्वृक्षैर्जीवन्ति स्त्रीयुता नराः ॥ ४८ ॥
सपादमयुतं देवगर्भाभा गौरकान्तयः ।
पुण्यकर्मा वसत्येषु वर्षेषु निखिलो जनः ॥ ४९ ॥
शोकव्याधिजरातङ्कशङ्कोन्मुक्तः सदा सुखी ।
वनैः कीर्णानि सर्वाणि कुसुमस्तबकानतैः ॥ ५० ॥
उद्भिन्नाद्रिनदीभिश्च तैस्तैस्तुङ्गैश्च पादपैः ।
उदश्वद्वीचिमालेन लावणेनाम्बुधिना बहिः ॥ ५१ ॥
१ द. अयुतं सहस्रान्ते ।
वा. ३

परिक्षिप्तोऽयमुक्तस्ते जम्बूद्वीपो मयाखिलः ।
द्वादशाम्बुनिधावत्र पृथग् भूमिभृतः स्थिताः ॥ ५२ ॥
त्रयस्त्रयो दिशि दिशि स्फारोर्मिस्थगितोपलाः ।
मैनाकश्च बलाहश्च चक्रनामा च दक्षिणे ॥ ५३ ॥
नारदाख्यो वराहाख्यः सौमकाख्यश्च पश्चिमे ।
उदग्भागेऽपि च द्रोणकङ्कचन्द्रा इति त्रयः ॥ ५४ ॥
धूम्रको दुन्दुभिश्चैव सार्द्रकश्चेति पूर्वतः ।
सहस्रं योजनानां ते दीर्घास्तस्यार्धमुच्छ्रिताः ॥ ५५ ॥
मग्नास्तदर्धमम्भोद्यौ विस्तुताश्च धराधराः ।
जुष्टाः सर्वै सुरैः शृङ्गौढिलीढविहायसः ॥ ५६ ॥
ज्वलितौषधयः कान्तविचित्रद्रुमवीरुधः ।
द्वीपाः शाककुशक्रौञ्चशाल्मल्य इति च क्रमात् ॥ ५७ ॥
गोमेदः पुष्कराख्यश्च षडमी बाह्यतः स्थिताः ।
क्षीराज्यदधिमद्येक्षुरसस्वाद्वम्भसोऽर्णवाः ॥ ५८ ॥
द्वीपान् शाकादिकानेते परिवार्य स्थिताः क्रमात् ।
खद्वीपतुल्याः सर्वे ते प्रमाणेन यथाक्रमम् ॥ ५९ ॥
अमी शाकादयो द्वीपा जम्बूद्वीपप्रमाणतः ।
यथाक्रमं स्युर्द्विगुणास्तथाम्भोनिधयोऽपिच ॥ ६० ॥
शाके सप्ताद्रयस्तेषूदद्यो जलधरस्तथा ।
नारको रैवतः श्यामो राजतोऽर्थाम्बिकेयकः ॥ ६१ ॥
चतुःसाहस्रिकस्तेषां विष्कम्भोऽर्धं समुच्छ्रयः ।
तदर्धं भूप्रदेशश्च सेवितानां सुरर्षिभिः ॥ ६२ ॥
वृत्तानां द्वीपवत् तेषां बाह्यतोऽमूननुक्रमात् ।
वर्षाणि सन्निविष्टानि सप्त तानि ब्रवीमि ते ॥ ६३ ॥
जलदाख्यं कुमारं च सुकुमारं मणीचकम् ।
कुसुमोत्तरमोदाकीमहाद्रुमवनानि च ॥ ६४ ॥


१ द. यांबिको जयः । ख. जांबिको॑ । जयः ग. पाठः ।

भुवनकोशः पञ्चमोऽध्यायः । १९
कुशे विद्रुमहेमारुणौ द्युतिमानथ पुष्पवान् ।
कुशेशयो हरिक्ष्माभृन्मन्दरश्च कुलाचलाः ॥ ६५ ॥
विष्कम्भोऽष्टसहस्राणि तेषां प्रत्येकमीरितः ।
तदर्धमुच्छ्रयस्तद्वदुच्छ्रयार्धमधोगमः ॥ ६६ ॥
उद्भिदं वेणुवत्संज्ञं सरालम्प्रथ लम्बनम् ।
वर्षं श्रीमत् प्रभाकृच्च कपिलं १पन्नगाभिधम् ॥ ६७ ॥
क्रौञ्चे क्रौञ्चोऽन्धकारश्च देवो गोविन्दवामनौ ।
द्विविदः पुण्डरीकश्चेत्यस्मिन् सप्त २कुलाद्रयः ॥ ६८ ॥
विष्कम्भोऽयुतमेतेषां विष्कम्भार्धं समुच्छ्रयः ।
अधोगतिस्तदर्धं च वर्षाण्येषां तु बाह्यतः ॥ ६९ ॥
३कुसलाख्याष्टवर्षाख्ये ४परापतमनोनुगे ।
मुनिवर्षान्धकाराख्ये सप्तमं दुन्दुभीति च ॥ ७० ॥
गिरयः शाल्मलिद्वीपे रक्तः पीतः सितस्तथा ।
वैपुल्यमेषां द्वात्रिंशत्सहस्राणि प्रचक्षते ॥ ७१ ॥
वैपुल्यार्धं समुच्छ्रायस्तदर्धमवनौ गतिः ।
वर्षे शान्तभयं वीतभयं चेत्यत्र संस्थिते ॥ ७२ ॥
गोमेदे तु सुरश्चेति कुमुदश्चेति भूधरौ ।
योजनानां चतुःषष्टिसौ सहस्राणि विस्तृतौ ॥ ७३ ॥
उच्छ्रायो विस्तरस्यार्धं तदर्धं चाप्यधोगतिः ।
धातकीखण्डनामास्य मध्ये वर्षमुदीरितम् ॥ ७४ ॥
अस्त्यद्रिः पुष्करद्वीपे मानसोत्तरसंज्ञितः ।
बाह्यतो वर्षमेतस्य महावीतमिति स्मृतम् ॥ ७५ ॥
विस्तृतोऽष्टौ सहस्राणि शैलोऽयं द्वे तथायुते ।
सहस्रशतमन्यच्च सुरसिद्धर्षिसेवितः ॥ ७६ ॥
व्यासार्धेनोच्छ्रयस्तस्य तदर्धेनाप्यधोगमः ।
सुरेशानां नगर्योऽस्मिन् मया वत्स ! निवेशिताः ॥ ७७ ॥
१ द. न्यूनगाभिधम् । २ द. ख. ग. कुलाचलाः । ३ द. कुशला° । ४ द. पारापत° ।

ऐन्द्री १वस्वोकसारा प्राग् याम्या संयमनी ततः ।
प्राचेतसी सुखा पश्चात् तथा सौम्योत्तरे विभा ॥ ७८ ॥
धर्मरक्षार्थमेतासु चत्वारश्चतसृष्वपि ।
तथा लोकव्यवस्थार्थं पृथग् लोकभृतः स्थिताः ॥ ७९ ॥
लोकालोकाचलः स्वादुसलिलाद् द्विगुणो बहिः ।
स्वादूदधिप्रमाणात् स विस्ताराद् द्विगुणोऽपि च ॥ ८० ॥
समुच्छ्रितोऽसौ नियुतं नियुतार्धमधो गतः ।
पञ्च क्रोशाः प्रतिदिशं नियुतानि तथा नव ॥ ८१ ॥
तदूध्वं नियुतस्यार्धं मेरुमध्यात् तदन्तरम् ।
समुद्रासितदेहार्धस्तिग्मांशोः किरणैरयम् ॥ ८२ ॥
तत्समेन च भूम्यर्धेनावृतः परतः पुनः ।
भौतान्यावरणाण्युर्व्या यस्यैतानि स्थितान्यधः ॥ ८३ ॥
बाह्यतोऽपि च भूम्यूर्ध्वं निविष्टानि तथानघ ! ।
इति वत्स ! २तव प्रोक्तः सन्निवेशोऽखिलः क्षितेः ॥ ८४ ॥
स्थितिं गतिं च कथयाम्यर्कादीनामतःपरम् ।
सूर्येन्दुधिष्ण्यज्ञसितभौमार्किंत्रिदशार्चिताः ॥ ८५ ॥
सप्तर्षयो ध्रुवश्चेति भूमेरूर्ध्वं क्रमात् स्थिताः ।
चत्वारि द्वे तथा भूमेरूर्ध्वमा सूर्यनन्दनात् ॥ ८६ ॥
षडेवमन्तराणि स्युः सहस्राणां शतं शतम् ।
३ग्रहान्तराणि यान्यन्यान्यवशिष्टान्यनुक्रमात् ॥ ८७ ॥
तानि चत्वार्यपि द्वे द्वे लक्षे प्रोक्तानि मानतः ।
धरित्रीध्रुवयोर्मध्ये योजनानां चतुर्दश ॥ ८८ ॥
नियुतानि समुत्सेधस्त्रैलोक्यस्य प्रकीर्तितः ।
एकाथ द्वे चतस्रोऽष्टावन्तरं कोटयः क्रमात् ॥ ८९ ॥
महोजनस्तपःसत्यलोकानामुपरि ध्रुवात् ।
ये स्थिताः सत्यलोकोर्ध्वमधस्तादण्डकर्परात् ॥ ९० ॥


१ द. वस्वौकसारा । २ द. यथोक्त...खिलक्षितेः । ३ द. सूक्ष्मांतराणि ।

भुवनकोशः पञ्चमोऽध्यायः । २१
एका कोटिर्भवेत् तेषां पञ्चाशन्नियुतान्विता ।
अथावरणयोगोऽस्य विहितः (स ? प )ङ्कजन्मना ॥ ९१ ॥
यथैवाधस्तथा तिर्यक् तथैवोर्ध्वमपि क्रमात् ।
वहेऽब्दाः प्रवहे सूर्यः स्थितः शीतांशुुरुद्वहे ॥ ९२ ॥
संवहस्थानि नक्षत्राण्यावहस्थाः पुनर्गहाः ।
सप्तर्षयः परिवहे ध्रुवश्चापि परावहे ॥ ९३ ॥
प्रदक्षिणममी सप्त मरुतो भ्रमयन्त्यमून ।
मेधीभूतः स्थितो मध्ये सुमेरुक्ष्माभृति ध्रुवः ॥ ९४ ॥
समस्तमपि तद्बद्धं ज्योतिश्चक्रं भ्रमत्यदः ।
सप्ताश्वेनैकचक्रेण रथेन रथिनां वरः ॥ ९५ ॥
१तेजोमयेन २सततं भ्राम्यति ज्योतिषां पतिः ।
केतुमाले (रजन्यर्धं ? व्रजन्नूर्ध्वं) करोत्यस्तं कुरुष्वपि ॥ ९६ ॥
मध्यन्दिनं च भद्राश्वे (दृष्ट् ? स्तंग)च्छन् भारते रविः ।
रसाब्धिपक्षसङ्ख्यानि योजनानि निमेषतः ॥ ९७ ॥
सप्तविंशतिकां चाष्टौ भागान् सर्पत्यहर्पतिः ।
३योजनान्य(धिवनन्दनुं ? च्धिनन्दतुं) गुणसङ्ख्यानि काष्ठया ॥ ९८ ॥
नवांशकचतुष्कं च क्रामत्यहिमदीधितिः ।
वह्न्यग्निवसुखेन्द्रक्ष्मासङ्ख्यातान्यब्जिनीपतिः ॥ ९९ ॥
योजनस्य त्रिभागं च प्रयाति कलयाैकया ।
वियत्खव्योमभूताश्विगुणपावकसङ्ख्यया ॥ १०० ॥
योजनान्युष्णकिरणो मुहूर्तेन प्रसर्पति ।
रात्र्यहेण सहस्राणि पञ्चाशन्नवकोटयः ॥ १०१ ॥
लक्षाणि सप्तनवतिर्गतिः स्यात् तिग्मरोचिषः ।
मध्येन पुष्करद्वीपस्यार्को गत्यानया व्रजन् ॥ १०२ ॥
नभस्तलेन पुनरप्युदयादुदयं श्रयेत् ।
इत्थं गतिरियं सम्यक् तिग्मभानोर्निरूपिता ॥ १०३ ॥
१ एतदादिश्लोकद्वयं ख. ग. मातृकयोर्नास्ति । २ दृ. पतितं । ३ योजनान्यं नाश्विनंदत्तु (?)

२२ समराङ्गणसूत्रधारे
गतिं चन्द्रग्रहर्क्षाणां भोगं चार्काद् विभावयेत् ।
प्रोक्तं तवेत्यहोरात्रप्रमाणमधुनानघ ! ।
पक्षमासर्तुवर्षादीन् व्यवहाराय कल्पयेत् ॥ १०४ ॥
इति निगदित एष द्वीपशैलाम्बुधीना-
मवनिवलयवर्त्ती कात्स्न्यर्तः सन्निवेशः ।
गतिरपि दिनभर्त्तुः कीर्त्तिता विश्वमानं
पुनरिह युगधर्मं कीर्त्त्यमानं निबोध ॥ १०५ ॥
²इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे
भुवनकोशाध्यायः पञ्चमः ॥
अथ सहदेवाधिकारः षष्ठोऽध्यायः ।
अथ प्राक्थितादस्माद् भूतसर्गादनन्तरम् ।
प्रजासीदमरैः सार्धमियं पूर्णजनाकुला ॥ १ ॥
शोकव्याधिजरातङ्कविमुक्तास्त्रिदशा इव ।
पुराभवन् कृतयुगे पुमांसः स्थिरयौवनाः ॥ २ ॥
ते निकुञ्जेषु शैलानां नदीषु च सरस्सु च ।
वनेषु च विचित्रेषु चिक्रीडुर्दैवतैः सह ॥ ३ ॥
हेलया ते समुत्पत्य कदाचिदमरैः सह ।
निरर्गलाः समासाद्य खर्विचेरुः सुरा इव ॥ ४ ॥
चित्राम्बरावृताः सर्वे नानाभरणशालिनः ।
विमानाकृतयस्तेषामासन् कल्पद्रुमा द्रुमाः ॥ ५ ॥
मनोज्ञाभिः सह स्त्रीभिर्विचित्राभर(णास्त्रि ? णश्रि)यः ।
कल्पद्रुमेष्वकार्षुस्ते वासं क्रीडां च तेष्वथ ॥ ६ ॥
क्षुत्तृड्दुःखोज्झिताः सर्वे बभूवुरयुतायुषः ।
रक्तावदातदेहास्ते कदाचिद् भूरसाशिनः ॥ ७ ॥
रतिप्रायास्तदासन्स्ते स्वेच्छाहारविहारिणः ।
स्वीकारविग्रहच्छेदविशदीकृतचेतसः ॥ ८ ॥


१ द. ममुनानघ । २ द. इतः परं ६/२९ पर्यन्तं त्रुटितं ।