समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 70, कुल 726 में से
संदर्भ में पढ़ेंप्रश्नस्तृतीयोऽध्यायः । ५
तानित्थमात्मतनयानभिधाय सम्यक्
सारार्थभूतमपरिस्फुटनोज्झितं च ।
१स्थानार्पितोरुभरनिर्वृतचित्तवृत्ति-
स्तूष्णीं प्रभासतनयो नयविज्जगाम ॥ १५ ॥
इति श्रीमहाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे
२विश्वकर्मणः पुत्रसंवादो नाम द्वितीयोऽध्यायः ॥ छ ॥
अथ प्रश्नो नाम तृतीयोऽध्यायः ।
अथ तेषु जयो नाम वाक्यं तद् विश्वकर्मणः ।
श्रुत्वा कृताञ्जलिः प्राह स्निग्धगम्भीरया गिरा ॥ १ ॥
ज्ञानैकनिधिरप्यस्मान् यत् सहायतया किल ।
वृणोषि तेन न वयमात्मानं बहु मन्महे ॥ २ ॥
तदिदानीं हितार्थे नः प्रजानामपि च प्रभो ! ।
अप्रमेयप्रभावस्त्वं सर्वमाख्यातुमर्हसि ॥ ३ ॥
पूर्वमेकार्णवे जाते जगति प्रलयं गते ।
महाभूतामरपुरीज्योतिषां कथमुद्भवः ॥ ४ ॥
किमाकारा किमाधारा किंप्रमाणा च मेदिनी ।
विस्तृतिः परिधिश्चास्या बाहुल्यमपि कीदृशम् ॥ ५ ॥
उच्छ्रायव्यासदीर्घत्वैः कैः केऽस्यां कुलभूभृतः ।
कति ख्यातानि वर्षाणि द्वीपा नद्योऽब्धयस्तथा ॥ ६ ॥
काः सूर्येन्दुग्रहर्क्षादिगतयश्च पृथक् पृथक् ।
भूमेरुपरि किं चैषामन्योन्यं प्रोक्तमन्तरम् ॥ ७ ॥
किमाधारं दिवि ज्योतिश्चक्रं भ्रमयते च कः ।
लोके कथं महाभूतान्यूर्ध्वाधो बिभ्रति स्थितिम् ॥ ८ ॥
१ क. स्थानार्पणातिशयनिं । २ क. ' जयविजयसिद्धार्थापराजितसुतागमनो नाम ' ।