समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 69, कुल 726 में से
संदर्भ में पढ़ें४ समराङ्गणसूत्रधारे
तानुवाच मुनिर्वत्सा ! विदितं वो यथा पुरा ।
१वास्तुब्रह्म सदा विश्वं व्याप्नोति सकलं जगत् ॥ ४ ॥
२धम्र्म्यं कर्म तदा स्वेष्ट३प्राप्त्यै लोकावनानि च ।
व्यवस्थाप्य चकारैष लोकपालश्च कल्पनाम् ॥ ५ ॥
अहमप्यमुना विश्वनाथेनाम्बुजजन्मना ।
लोकानां ४सन्निवेशार्थमादिष्टोऽस्मि स्वयम्भुवा ॥ ६ ॥
रम्याणि नगरोद्यानसभास्थानान्यथो मया ।
सुरासुरोरगादीनां निर्मितान्यात्मबुद्धितः ॥ ७ ॥
गत्वोर्वीं वैन्यनृपतेर्वत्साः ! प्रियचिकीर्षया ।
नगरग्रामखेटादीन् करिष्यामि पृथक् पृथक् ॥ ८ ॥
कार्ये त्वमुष्मिन् सकले मम विश्वसृजार्पिते ।
सम्यक्साहायकैर्भाव्यं भवद्भिरिति नः स्थितम् ॥ ९ ॥
यतस्त्रिभुवनालोकप्रोद्यतस्याब्जिनीपतेः ।
सहायतां तमश्छेदे कलयन्ति मरीचयः ॥ १० ॥
स्वयं करिष्येऽहमथो निवासाय पृथोः पुरीम् ।
विचित्रनगरग्रामखेटामतिमनोहराम् ॥ ११ ॥
भवन्तः पुनरागत्य चत्वारोऽपि चतुर्दिशम् ।
तांस्तान् निवेशान् कुर्वन्तु पृथग्जनकताश्रयान् ॥ १२ ॥
६अन्तरेष्वध्वपाथोधीशैलानां सरितां तथा ।
विधातव्यानि दुर्गाणि नृपाणां भयशान्तये ॥ १३ ॥
वर्णप्रकृतिवेश्मानि संस्थानानि च लक्ष्मभिः ।
विधेयानि प्रतिग्रामं प्रतिपूर्ः प्रतिपत्तनम् ॥ १४ ॥
१ द. सपर्य्यादौ विश्वाप्यखिलं तथा; क....... व्याप्नोति सकलं जगत् । वास्तुब्रह्मेत्यादि मूल-
स्थितः श्रष्ठः पाठः शास्त्रिभिः टिप्पण्यां प्रदत्तः, स तु पाटनप्रतेः प्रतीयते । २ द. धर्म्मं । ३ द.
स्वेष्ट; क. श्रेष्ठच; ख. श्रेष्ठ । ४ ख. द. सत्रिवासार्थं । ५ द. प्रतौ मूलपाठः प्रोद्यत°, पश्चादिकृतः
प्रद्योत° । क. त्रुटितः; ख. प्रद्योत° । ६ द. अन्तरेष्वध्वनाम्भोधि° । ७ ख. द. संजातभयशान्तये ।
८ द. प्रतिष्टः ।