सामग्री पर जाएँ
सर्वकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 77, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 77

१२ समराङ्गणसूत्रधारे
वायुभिः शोषमानीतं जगाम घनतां पयः ।
तस्योपरिष्टादम्भोधेरधः कुण्डलितं वपुः ॥ २० ॥
विष्णोः १सज्या( ? शय्या )त्वमभ्येत्य धत्तेऽनन्तोऽखिलां भुवम् ।
न तप्तं येषु येष्वम्भः प्रदेशेष्वर्करश्मिभिः ॥ २१ ॥
नीतं न वानिलैः शोषं तत्र तत्राब्धयोऽभवन् ।
महाम्भोवीचिसङ्घाता विक्षिप्ताश्चण्डमारुतैः ॥ २२ ॥
यत्र यत्रापुरैक्यं ते तत्र तत्राद्रयोऽभवन् ।
निश्चलत्वार्थमवनिंश्चर्मवद् वितताथ तैः ॥ २३ ॥
शैलैः कीलैरिव स्थानेष्वाचिता तेषु तेष्वियम् ।
वृद्धिं गताद्रिनिःष्यन्दैर्भूभृतां प्रविभाजगा ॥ २४ ॥
निम्नगाभूत् ततोऽम्भोधेः कान्ता निम्नानुसारिणी ।
मेदिन्यन्तेषु २जलधिपर्यन्तेषु विनिर्ययुः ॥ २५ ॥
अम्भांसि यत्र यत्रासंस्ते द्वीपाश्चित्ररूपिणः ।
सनिम्नगाम्बुधिद्वीपा विभक्ताखिलभूधरा३ ॥ २६ ॥
व्यक्ता बभूव कृत्स्नैवं भूमिर्भूतानि बिभ्रती ।
स चक्रे रौरवादीनां निरयाणामधः क्षितेः ॥ २७ ॥
स्वकर्मफलभुक्त्यर्थं स्थानं दुष्कृतकर्मणाम् ।
जरायुजाण्डजोद्भिज्जस्वेदजैः सह स प्रभुः ॥ २८ ॥
चतुर्धैत्यसृजल्लोके भूतग्रामं चराचरम् ।
द्वेधा जरायुजास्तत्र मनुष्याः पशवस्तथा ॥ २९ ॥
ग्राम्याः सप्ताभवंस्तेषु सप्तारण्यकृतालयाः ।
पुमान् गौस्तुरगच्छागौ मेषो वेगसरः खरः ॥ ३० ॥
ग्रामवासैकनिरताः सप्तैते परिकीर्तिताः ।
सिंहद्विपोष्ट्रमहिषाः शरभो गवयः कपिः ॥ ३१ ॥
१ द. सज्यात्व ( ? शय्यात्व ); ग. सच्याल । २ द. जलधेः । ३ द. भूधराः ।