समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 74, कुल 726 में से
संदर्भ में पढ़ेंप्रश्नस्तृतीयोऽध्यायः । ९
स्थूणा ^१निस्सृष्टिकोत्सूका मृगा(ल्यो ? ल्यु)पतुलास्तथा ।
सान्तःप्राणिशिरोवंशाः किंप्रमाणाः प्रकीर्तिताः ॥ ४५ ॥
छाद्योदयाः कियन्तः स्युर्वृत्तच्छाद्यक्रमश्च कः ।
त्र्यश्राणां खण्डवृत्तानां लुपानां च क्रियाः कथम् ॥ ४६ ॥
सीमालिन्दशिरस्तासां कीदृशी ^३चावलम्बना ।
कतिप्रकाराः प्रासादशिरसां च विकल्पनाः ॥ ४७ ॥
यच्चान्यदेवमादि स्यात् प्रासादभवनादिषु ।
द्रव्यकाष्ठकलासङ्गि प्रमाणं तस्य कीदृशम् ॥ ४८ ॥
शालालिन्दप्रमाणानि चतुःशालेषु धामसु ।
ज्यायोमध्ययवीयस्सु मूषाभिः काष्ठकल्पना ॥ ४९ ॥
एकद्वित्रिचतुःशालान्येषां संयोगतोऽपि च ।
कथं कति च वेश्मानि ^४कल्प्यन्ते प्रविभागशः ॥ ५० ॥
कथं च षोडशचतुःषष्ट्येकाशीतयः शतम् ।
संविभागाः पदानां स्युः कथमत्रामरस्थितिः ॥ ५१ ॥
आद्यो नवपदो वास्तुरन्त्यः साहस्रिकः कथम् ।
अङ्गप्रत्यङ्गभागेषु केषु केषु क्व तस्थुषः ॥ ५२ ॥
कथमेते सुराः सर्वे वास्तोरस्य व्यवस्थिताः ।
एतद्वंशशिरश्श्रोत्रुःकुक्षिहृन्मूर्धमर्मसु ॥ ५३ ॥
जायेत पीडा द्रव्येषु सन्निविष्टेषु कस्य का ।
वास्त्वारम्भप्रवेशेषु यात्रायां स्थापनेषु च ॥ ५४ ॥
दूतस्वप्ननिमित्ताद्यैः कथं ज्ञेयं शुभाशुभम् ।
दारुक्रियासु चित्रेषु तथा लेप्यक्रियासु च ॥ ५५ ॥
^६योज्यं किं किमयोग्यं च किं भूपभवनादिषु ।
हस्तस्य लक्षणं मानसंज्ञा वै ज्ञायते कथम् ॥ ५६ ॥
१ द. णिमृष्टिकोत्सूकामृगाल्योपतुलास्तथा । २ द. लुमानां । ३ द. भावलम्बना । ४ द.
कल्पन्ते । ५ द. शिरोकक्ष । ६ द. अंगप्रत्यंगयोज्यं किं किमयोग्यं च ।
वा. २