समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 84, कुल 726 में से
संदर्भ में पढ़ेंभुवनकोशः पञ्चमोऽध्यायः । १९
कुशे विद्रुमहेमारुणौ द्युतिमानथ पुष्पवान् ।
कुशेशयो हरिक्ष्माभृन्मन्दरश्च कुलाचलाः ॥ ६५ ॥
विष्कम्भोऽष्टसहस्राणि तेषां प्रत्येकमीरितः ।
तदर्धमुच्छ्रयस्तद्वदुच्छ्रयार्धमधोगमः ॥ ६६ ॥
उद्भिदं वेणुवत्संज्ञं सरालम्प्रथ लम्बनम् ।
वर्षं श्रीमत् प्रभाकृच्च कपिलं १पन्नगाभिधम् ॥ ६७ ॥
क्रौञ्चे क्रौञ्चोऽन्धकारश्च देवो गोविन्दवामनौ ।
द्विविदः पुण्डरीकश्चेत्यस्मिन् सप्त २कुलाद्रयः ॥ ६८ ॥
विष्कम्भोऽयुतमेतेषां विष्कम्भार्धं समुच्छ्रयः ।
अधोगतिस्तदर्धं च वर्षाण्येषां तु बाह्यतः ॥ ६९ ॥
३कुसलाख्याष्टवर्षाख्ये ४परापतमनोनुगे ।
मुनिवर्षान्धकाराख्ये सप्तमं दुन्दुभीति च ॥ ७० ॥
गिरयः शाल्मलिद्वीपे रक्तः पीतः सितस्तथा ।
वैपुल्यमेषां द्वात्रिंशत्सहस्राणि प्रचक्षते ॥ ७१ ॥
वैपुल्यार्धं समुच्छ्रायस्तदर्धमवनौ गतिः ।
वर्षे शान्तभयं वीतभयं चेत्यत्र संस्थिते ॥ ७२ ॥
गोमेदे तु सुरश्चेति कुमुदश्चेति भूधरौ ।
योजनानां चतुःषष्टिसौ सहस्राणि विस्तृतौ ॥ ७३ ॥
उच्छ्रायो विस्तरस्यार्धं तदर्धं चाप्यधोगतिः ।
धातकीखण्डनामास्य मध्ये वर्षमुदीरितम् ॥ ७४ ॥
अस्त्यद्रिः पुष्करद्वीपे मानसोत्तरसंज्ञितः ।
बाह्यतो वर्षमेतस्य महावीतमिति स्मृतम् ॥ ७५ ॥
विस्तृतोऽष्टौ सहस्राणि शैलोऽयं द्वे तथायुते ।
सहस्रशतमन्यच्च सुरसिद्धर्षिसेवितः ॥ ७६ ॥
व्यासार्धेनोच्छ्रयस्तस्य तदर्धेनाप्यधोगमः ।
सुरेशानां नगर्योऽस्मिन् मया वत्स ! निवेशिताः ॥ ७७ ॥
१ द. न्यूनगाभिधम् । २ द. ख. ग. कुलाचलाः । ३ द. कुशला° । ४ द. पारापत° ।