समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 76, कुल 726 में से
संदर्भ में पढ़ेंमहदादिसर्गश्चतुर्थोऽध्यायः । ११
त्रिधाहङ्कृतमेतस्मान्मनोऽभूत् सात्त्विकादतः ।
राजसादपि चाक्षाणि तन्मात्राणि च तामसात् ॥ ८ ॥
तेभ्यः पञ्च महाभूतान्याविरासन्ननुक्रमात् ।
व्योमादीनि धरान्तानि स्वैः स्वैर्युक्तानि तैर्गुणैः ॥ ९ ॥
अधरोत्तरभावश्च सम्यगेषामथोच्यते ।
आदौ पृथ्वी ततोऽधस्तादापस्तासां च पावकः ॥ १० ॥
तस्याप्यधस्तात् पवनस्ततः खमवकाशदम् ।
भूतादिस्थं वियत् सोऽपि महता परिवारितः ॥ ११ ॥
महांश्च विशति व्यक्तं व्यक्तमव्यक्तकं पुनः ।
ग्राह्यग्राहकभावेन व्यक्तो भूतसमुद्भवः ॥ १२ ॥
आधाराधार्यभावश्च यथार्थौ च स्थितिव्ययौ ।
महाभूतानि सगुणान्येवं सृष्ट्वा ततः प्रभुः ॥ १३ ॥
मनः पुनरसौ सर्गे भौतिके सम्यगादधौ¹ ।
सुरासुरान् सगन्धर्वान् यक्षरक्षांसि पन्नगान्² ॥ १४ ॥
³नागान् मुनीनप्सरसो मनसा समजीजनत् ।
अर्केन्दू चक्षु (षी ? षो) जातौ गगनभ्रमणक्षमौ ॥ १५ ॥
गात्रेभ्योऽपि च नक्षत्रचक्रमस्मादजायत ।
इन्द्रियेभ्यश्च पञ्चभ्योऽभूत् ताराग्रहपञ्चकम् ॥ १६ ॥
ग्रहत्वं पुनरेतेषामिन्द्रियग्रहणाद् विदुः ।
सुरेन्द्रचापचिह्नानां विद्युद्वलयशालिनाम् ॥ १७ ॥
भीमाशनिभृतां चासीत् केशेभ्योऽम्बुमुचां भवः ।
विश्वमापूरयन् कृत्स्नमाविरासीत् तदिच्छया ॥ १८ ॥
त्रिलोकीपावनस्तिर्यग्गामी चण्डः समीरणः ।
ततश्चण्डानिलोद्भूतमुपर्यर्कांशुतापितम् ॥ १९ ॥
१ द. आदधे । २ द. राक्षसान् । ३ ख. ग. द. सावित्री पुनरप्सरसो ।