समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 78, कुल 726 में से
संदर्भ में पढ़ेंभुवनकोशः पञ्चमोऽध्यायः । १३
अरण्यगोचरा जीवाः सप्तैते वत्स ! निर्मिताः ।
धर्माधर्मविवेक्तिंत्वाच्छ्रेयान् ग्राम्येषु पूरुषः ॥ ३२ ॥
अरण्यचारिषु श्रेष्ठः सिंहः शौर्यबलादिभिः ।
सुपर्णा भुजगाः कीटा येऽपि च स्युः पिपीलिकाः ॥ ३३ ॥
चतुर्धैत्यण्डजन्मानो जन्मनस्ते प्रकीर्त्तिताः ।
२क्लेद (केप ? केश) समुद्भूताः कृमियूकादिजन्तवः ॥ ३४ ॥
सर्वेऽपि स्वेदजन्मानस्ते प्रजापतिना कृताः ।
उद्भिज्जाः पञ्चधा भूत्वा निर्दिष्टाः स्थावराश्च ते३ ॥ ३५ ॥
द्रुमा वल्ल्यश्च गुल्माश्च वंशाः सतृणजातयः ।
छन्नान्तःकरणत्वं च स्वस्थानात्यागितापि च ॥ ३६ ॥
छिन्नप्ररोहिता चैषां वैशेषिकगुणत्रयम् ।
गायत्री भूतसंज्ञे(षां ? षा) चतुर्विंशतिपर्विका ॥ ३७ ॥
ज्ञात्वैनां पुरुषः पुण्यां भवति स्वर्गभाजनम् ।
भुवन'भूजलवह्निमरुद्वियत्प्रमुख एष भवस्तव कीर्त्तितः ।
वसुमतीपरिमाणविनिश्चयं कथयतः शृणु सम्प्रति वत्स ! मे ॥३८॥
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे
महदादिस(ङ्गा ? र्गा )ध्यायश्चतुर्थः ॥
अथ भुवनकोशः पञ्चमोऽध्यायः ।
अथो यथाक्रमं भूमेः कृत्स्नायाः कथयामि ते ।
विष्कम्भपरिधी वत्स ! बाहुल्यमपि च स्फुटम् ॥ १ ॥
विष्कम्भोऽस्याः समुद्दिष्टो दशयोजनकोटयः ।
लक्षाण्यपि च मेदिन्यास्तद्वदेकोनविंशतिः ।
विष्कम्भत्रिगुणो यावद् विष्कम्भांशश्च पञ्चमः ॥ २ ॥
१ द. विवेक्तित्वा । २ द. केशकोषेषु (?) । ३ ख. ग. द. ये ।