समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 80, कुल 726 में से
संदर्भ में पढ़ेंभुवनकोशः पञ्चमोऽध्यायः १९
योजनानां सहस्रे द्वे १सार्धे स्यादुच्छ्रयस्तयोः ।
श्वेतश्च हेमकूटश्चैत्यन्तयोः पृथिवीधरौ ॥ १५ ॥
योजनानां सहस्रार्धमेकैकस्योच्छ्रयस्तयोः ।
निषधाचलनीलाद्रिमाल्यवद्गन्धमादनाः ॥ १६ ॥
सहस्रयोजनोच्छायाश्चत्वारोऽमी पृथक्पृथक् ।
एतेऽष्टावपि शैलेन्द्राः सहस्रद्वयविस्तृताः ॥ १७ ॥
उच्छ्रयार्धमधश्चापि विलग्नाः सह मेरुणा ।
मेरोः समुच्छ्रयोऽशीतिः सहस्राणि चतुर्युता२ ॥ १८ ॥
षोडशाधः सहस्राणि द्वात्रिंशन्मूर्ध्नि विस्तृतिः३ ।
जम्बूतरुर्महान् मध्ये सुमेरोर्निषधस्य च ॥ १९ ॥
द्वीपस्यामुष्य यद्योगाज्जम्बूद्वीप इति श्रुतिः ।
शृङ्गैर्हिमशिलानद्धैः सर्वतो हिमवानयम् ॥ २० ॥
महान्तो निवसन्त्यत्र पिशाचा यक्षराक्षसाः ।
कूटैर्हेममयैर्हेमकूट इत्यवनीधरः ॥ २१ ॥
यं सर्वतो निषेवन्ते सदा चारणगुह्यकाः ।
तरुणार्कप्रभाजालप्रतिमो निषधाचलः ॥ २२ ॥
निवसन्ति सुखं तत्र शेषवासुकितक्षकाः ।
हेमाब्जकर्णिकाकारः सुमेरुर्मणिकन्दरः ॥ २३ ॥
अत्रामराः साप्सरसस्त्रयस्त्रिंशद् वसन्ति ते ।
वैदूर्यनद्धैः शिखरैर्नीलो नीलमहीधरः ॥ २४ ॥
कलयन्ति तपोनित्या यत्र ब्रह्मर्षयः स्थितिम् ।
श्वेतः स काञ्चनैः शृङ्गैर्गगनोल्लेखिभिर्वृतः ॥ २५ ॥
दोर्दर्पशालिनां यत्र निवासस्त्रिदशद्विषाम् ।
महानीलमयो बर्हिपिच्छच्छायो बहिर्महान् ॥ २६ ॥
१ द. ख. ग द्वेद्वे सार्धे उच्छ्रं । २ द. चतुर्युताः । ३ द. विस्तृतः ।